नानापुष्पवनाकीर्णं नानापुण्यजनावृतम् । तत्राहं न्यवसं भूप देवार्चनरतः सदा ॥ २,९.
वैश्यजातिः सुदेवोऽहं नाम्ना विदितमस्तु ते । हव्येन तर्पिता देवाः कव्येन पितरो मया ॥ २,९.
विविधैर्दानयोगैश्च विप्राः सन्तर्पिता मया । आहारश्च विहारश्च मया वै सुनिवेशितः ॥ २,९.
दीनानाथविशिष्टेभ्यो मया दत्तमनेकधा । तत्सर्वं निष्फलं जातं मम दैवादुपागतम् ॥ २,९.
न मेऽस्ति सन्ततिस्तात न सुहृन्न च बान्धवाः । न च मित्रं हितस्तादृग्यः कुर्यादौर्ध्वदैहिकम् ॥ २,९.
प्रेतत्वं सुस्थिरं तेन मम जातं नृपोत्तम । एकादशं त्रिपक्षञ्च षाण्मासिकमथाब्दिकम् ॥ २,९.
प्रतिमास्यानि चान्या नि ह्येवं श्राद्धानि षोडश । यस्यैतानि न दीयन्ते प्रेतश्राद्धानि भूपते ॥ २,९.
प्रेतत्वं सुस्थिरं तस्यः दत्तैः श्राद्धशतैरपि । एवं ज्ञात्वा महाराज प्रेतत्वादुद्धरस्व माम् ॥ २,९.
वर्णानाञ्चैव सर्वेषां राजा बन्धुरिहोच्यते । तन्मां तारय राजेन्द्र मणिरत्नं ददामि ते ॥ २,९.
यथा मम शुभावाप्तिर्भवेन्नृपवरोत्तम । तथा कार्यं महीपाल दयां कृत्वा मयि प्रभो ॥ २,९.
सपिण्डैर्वा सगोत्रैर्वा निष्टुरैर्न कृतो हिमे । वृषोत्सर्गस्ततो दुष्टं प्रेतत्वं प्राप्तवानहम् ॥ २,९.
क्षुत्तृषाविष्टदेहश्च भक्ष्यं पानं न चाप्नुयाम् । अतो विकृतिरेषा वै कृशात्वादिरमांसका ॥ २,९.
क्षुत्तृड्जन्यं महादुः खमनुभवामि पुनः पुनः । अकल्याणं हि प्रेतत्वं वृषोत्सर्गं विना कृतम् ॥ २,९.
तस्माद्राजन्दयासिन्धो प्रार्थयामि तवाग्रतः । राजोवाच । वर्तते मत्कुले प्रेत इति ज्ञेयं कथं नरैः ॥ २,९.
तन्ममाचक्ष्व हि प्रेत प्रेतत्वान्मुच्यते कथम् । प्रेत उवाच । लिङ्गेन पीडया प्रेतोऽनुमातव्यो नरैः सदा ॥ २,९.
वक्ष्यामि पीडास्ता राजन्या वै प्रेतकृता भुवि । ऋतुः स्यादफलः स्त्रीणां यदा वंशो न वर्धते ॥ २,९.
म्रियन्ते चाल्पवयसः सा पीडा प्रेतसम्भवा । अकस्माद्वृत्तिहरणमप्रतिष्ठा जनेषु वै ॥ २,९.
अकस्माद्गृहदाहः स्यात्सा पीडा प्रेतसम्भवा । स्वगेहे कलहो नित्यं स्याच्च मिथ्याभिशंसनम् ॥ २,९.
राजयक्ष्मादिसम्भूतिः सा पीडा प्रेतसम्भवा । अपि स्वयं धनं मुक्तं प्रयत्नादनवे पथि ॥ २,९.
नैव लभ्येत नश्येतः सा पीडा प्रेतसंमवा । सुवृष्टौ कृषिनाशः स्याद्वाणिज्याद्वृत्तिनाशनम् ॥ २,९.
कलत्रं प्रतिकूलं स्यात्सा पीडा प्रेतसम्भवा । एवन्तु पीडया राजन्प्रेतज्ञानं भवेन्नृणाम् ॥ २,९.
वृषोत्सर्गो यदि भवेत्प्रेतत्वान्मुच्यते तदा । तस्मान्नृप त्वमप्येवं वृषोत्सर्गं कुरु प्रभो ॥ २,९.
मामुद्दिश्य नृपेऽप्यत्राधिकारोऽत्यनुकम्पया । राजपुत्रो हतः कश्चिन्मयैवाप्तस्ततो मया ॥ २,९.
कुरुष्व त्वं गृहीत्वा मे तद्धनेन वृषोत्सवम् । कार्तिक्यां पौर्णमास्यां वाऽश्वयुङ्मध्येऽथवा नृप ॥ २,९.
रेवतीयुक्तदिवसे कृषीष्ठा मे वृषोत्सवम् । पुण्यान्विप्रान्समाहूय वह्निं स्थाप्य विधानतः ॥ २,९.
मन्त्रैर्होमस्तथा कार्यः षड्भिर्नृप विधानतः । बहून्विप्रान् भोजयेथास्तद्रत्नाप्तधनेन वै । एवं कृते महीपाल मम मुक्तिर्भविष्यति ॥ २,९.
श्रीकृष्ण उवाच । तथेति प्रतिजग्राह मणिं राजा ततः खग ॥ २,९.
क्रियाधिकारस्तस्यैव यो धनग्राहको भवेत् । कुर्वतोस्तु तयोर्वार्तामेवं प्रेतमहीक्षितोः ॥ २,९.
झणत्कारस्तु घण्टानां भेरीणां भाङ्कृतिस्तथा । जातस्तदा राजसेना चतुरङ्गा समापतत् ॥ २,९.
तस्यामागतमात्रायां प्रेतश्चादृश्यतां गतः । तस्माद्वनाद्विनिःसृत्य राजापि पुरमागमत् ॥ २,९.