प्रदक्षिणं ततो जप्यं ततस्तस्मिन्सर्पयेत् 31.
देवस्य मूलमन्त्रेणेत्येवं विद्धि वृषध्वज 31.
ॐ हां हृदयाय नमः ॐ हूं शिखायै नमः ॐ हौं नेत्रत्रयाय नमः ॐ श्रियै नमः ॐ पद्माय नमः ॐ गदायैनमः ॐ कौस्तुभाय नमः ॐ पीताम्बराय नमः ॐ मुसलाय नमः ॐ अङ्कुशाय नमः ॐ शराय नमः ॐ नारादाय नमः ॐ भागवतेभ्यो नमः ॐ परमगुरुभ्यो नमः ॐ अग्नये तेजोऽधिपतये सवाहनपरिवाराय नमः ॐ निर्ऋतये रक्षोऽधिपतये सवाहनपरिवाराय नमः ॐ वायवे प्राणाधिपतये सवाहनपरिवाराय नमः ॐ ईशानाय विद्याधिपतये सवाहनपरिवाराय नमः ॐ ब्रह्मणे लोकाधिपतये सवाहनपरिवाराय नमः ॐ शक्त्यै हुं फट् नमः ॐ खड्गाय हुं फट् नमः ॐ ध्वजाय हुं फट् नमः ॐ त्रिशूलाय हुं फट् नमः ॐ पद्माय हुं फट् नमः 31.
एभिमन्त्रैर्महादेव पूज्या अंगादयो नरैः 31.
स्तुवीत चानया स्तुत्या परमात्मानमव्ययम् 31.
विष्णवे वासुदेवाय नमः स्थितिकराय च 31.
देवानां प्रभवे चैव यज्ञानां प्रभवे नमः 31.
जिष्णवे सर्वदेवानां सर्वगाय महात्मने 31.
सर्वलोकहितार्थाय लोकाध्यक्षाय वै नमः 31.
वरप्रदाय शान्ताय वरेण्याय नमोनमः 31.
स्तुत्वा ध्यायेत्स्वहृदये ब्रह्मरूपिणमव्ययम् 31.
मूलमन्त्रं जपेद्वापि यः स याति नरो हरिम् 31.
रहस्यं परमं गुह्यं भुक्तिमुक्तिप्रदं परम् श्रृणुयाच्छ्रावयेद्वापि विष्णुलोकं स गच्छति ।। 31.
पञ्चतत्त्वार्चनं ब्रूहि शंखचक्रगदाधर ! 32.
पञ्चतत्त्वार्चनं वक्ष्ये तव शङ्कर सुव्रत 32.
तच्छृणुष्व महादेव पवित्रं कलिनाशनम् 32.
वासुदेवो ध्रुवः शुद्धः सर्वव्यापी निरञ्जनः 32.
लोकानुग्रहकृद्विष्णुः सर्वदुष्टविनाशनः 32.
तथा प्रद्युम्नरूपेणानिरुद्धाख्येन च स्थितः 32.
एतेषां वाचकान्मंत्रानेताञ्छृणु वृषध्वज ! ॐ आं संकर्षणाय नमः ॐ अनिरुद्धाय नमः 32.
पञ्च मंत्राः समाख्याता देवानां वाचकास्तव 32.
अधुना संप्रवक्ष्यामि पञ्चतत्त्वार्चनं शुभम् 32.
आदौ स्नानं प्रकुर्वीत स्नात्वा सन्ध्यां समाचरेत् 32.
आचम्योपविशेत्प्राज्ञो बद्धासनमभीप्सितम् 32.
सामान्यं कठिनीकृत्य चाण्डमुत्पादयेत्ततः 32.
वासुदेवं जगन्नाथं पीतकौशेयवाससम् 32.
आत्मनो हृदि पद्मे तु ध्यायेत्तु परमेश्वरम् 32.
प्रद्युम्नमनिरुद्धं च श्रीमन्नारायणं ततः 32.
चिन्तयेच्च ततो न्यासं कुर्य्या द्वै कारयोर्द्वयोः 32.
अङ्गमन्त्रैर्महादेव ! तान्मंत्राञ्श्रृणु सुव्रत ! ॐ ईं शिरसे नमः ॐ ऐं कवचाय नमः ॐ अः अस्त्राय फट् ।। 32.