तद्वनं मनुज व्याघ्रः सभृत्यबलवाहनः । लीलया लोडयामास सूदयन्विविधान्मृगान् ॥ २,९.
मृगस्य कस्यचित्कुक्षिं ततो विव्याध भूमिपः । राजा मृगप्रसङ्गेन तमनु प्राविशद्वनम् ॥ २,९.
एकाकी वै हृतबलः क्षुत्प्रिपासासमन्वितः । स वनस्यान्तमासाद्य महच्चारण्यमासदत् ॥ २,९.
तृषया परयाविष्टोऽन्विष्यज्जलमितस्ततः । स दूरात्पूरचक्राह्वं हंससारसनादितैः ॥ २,९.
सूचितं सर आगत्य साश्व एव व्यगाहत । पद्मानाञ्च परागेण उत्पलानां रजेन च ॥ २,९.
सुगन्धममलं शीतं पीत्वाम्भो निर्जगाम ह । मार्गश्रमपरिश्रान्तस्तडागतटमण्डपम् ॥ २,९.
न्यग्रोधं वीक्ष्य तस्याशु जटास्वश्वं बबन्ध ह । स तत्रास्तरमास्तीर्य खेटकानुपधाय च ॥ २,९.
सूष्वाप वायुना तत्र सेव्यामातस्तदा क्षणम् । क्षणं सुप्ते नृपे तत्र प्रेतो वै प्रेतवाहनः ॥ २,९.
कश्चिदत्राजगामाथ युक्तः प्रेतशतेन च । अस्थिचर्मशिराशेषशरीरः परिविभ्रमन् ॥ २,९.
भक्ष्यंपेयं मार्गमाणो न बध्नाति धृतिं क्वचित् । तमपूर्वं नृपो दृष्ट्वाकरोदस्त्रं शरासने ॥ २,९.
दृष्ट्वा सोऽपि चिरं भूपं तस्थौ स्थाणुपिवाग्रतः । तमवस्थितमालोक्य राजा प्राप्तकुतूहलः ॥ २,९.
पप्रच्छ तञ्च कोऽसीति कुतो वा विकृतिं गतः । प्रेत उवाच । प्रेतभावो मया त्यक्तो गतिं प्राप्तोऽस्म्यहं पराम् ॥ २,९.
त्वत्संयोगान्महाबाहो नास्ति धन्यतरो मया । बभ्रुवाहन उवाच । किमेतद्विपिने घोरे सर्वत्रातिभयानके ॥ २,९.
दोधूयमाने वातेन वात्यारूपेण कोणप । पतङ्गा मशकाः क्षुद्राः कवन्धाश्च शिरांसि च ॥ २,९.
मत्स्याः कूर्माः कृकलासा वृश्चिका भ्रमराहयः । अधोमुखोर्ध्वपादास्ते क्रन्दमानाः सुदारुणम् ॥ २,९.
प्रवान्ति वायवो रूक्षा ज्वलन्तो विद्युदग्नयः । इतस्ततो भ्रमन्तीव वायुना तृणसन्ततिः ॥ २,९.
दृश्यन्ते विविधा जीवा नागाश्च शलभव्रजाः । श्रूयन्ते बहुधा रावा न दृश्यन्ते क्वचित्क्वचित् ॥ २,९.
दृष्ट्वेदं विकृतं सर्वं वेपते हृदयंमम । प्रते उवाच । येषां नैवाग्निसंस्कारो न श्राद्धं नोदकक्रियाः ॥ २,९.
षट्पिण्डा दश गात्राणि सपिण्डीकरणं न हि । विश्वासघातिनो ये च सुरापाः स्वर्णहारिणः ॥ २,९.
मृता दुर्मरणाद्ये च ये चासूयापरा जनाः । प्रायश्चित्तविहीना ये अगम्यागमने रताः ॥ २,९.
कर्मभिर्भ्राम्यमाणास्ते प्राणिनः स्वकृतैरिह । दुर्लभाहारपानीया दृश्यन्ते पीडिता भृशम् ॥ २,९.
एतेषां कृपया राजंस्त्वं कुरुष्वौर्ध्वदेहिकम् । येषां न माता न पिता न पुत्रो न च बान्धवाः ॥ २,९.
तेषा राजा स्वयं कुर्यात्कर्माणि तु यतो नृपः । आत्मनश्च शुभं कर्म कर्तव्यं पारलौकिकम् ॥ २,९.
विमुक्तः सर्वदुः खेभ्यो येनाञ्जो दुर्गातिं तरेत् । भ्रातरः कस्य के पुत्रास्त्रियोऽपि स्वार्थकोविदाः ॥ २,९.
न कार्यस्तेषु विश्रम्भ स्वकृतं भुज्यतेयतः । गृहेष्वर्था निवर्न्त्तन्ते श्मशाने चैव बान्धवाः ॥ २,९.
शरीरं काष्ठामादत्ते पापं पुण्यं सह व्रजेत् । तस्मादाशु त्वया सम्यगात्मनः श्रेय इच्छता ॥ २,९.
अस्थिरेण शरीरेण कर्तव्यञ्चौर्ध्वदोहिकम् । राजोवाच । कृशरूपः करालाक्षस्त्वं प्रेत इव लक्ष्यसे ॥ २,९.
कथयस्वः मम प्रीत्या प्रेतराज यथातथम् । तथा पृष्टः स वै राज्ञा उवाच सकलं स्वकम् ॥ २,९.
प्रेत उवाच । कथयामि नृपश्रेष्ठ सर्वमेवादितस्तव । प्रेतत्वे कारणं श्रुत्वा दयां कर्तुमिहार्हसि ॥ २,९.
वैदिशं नाम नगरं सर्वसम्पत्सुखावहम् । नानाजनपदाकीर्णं नानारत्नसमाकुलम् ॥ २,९.