श्रपयेच्चापरं वह्नौ मुद्गमिश्रं चरुं ततः । तिलतण्डुलमिश्रञ्च द्वितीयं सपवित्रकम् ॥ २,८.
ओं पृथिव्यै नमस्तुभ्यमिति चैकं निवेदयेत् । ओं यमाय नमश्चेति द्वितीयं तदनन्तरम् ॥ २,८.
ओं नमश्चाथ रुद्राय श्माशानपतये नमः । ततो दीप्ते समिद्धेऽग्नौ भूमौ प्रकृतिदारुणे ॥ २,८.
सप्तभ्यो यमसंज्ञेभ्यो दद्यात्सप्त जलाञ्जलीन् । यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ २,८.
वैवस्वताय कालाय सर्वप्राणहराय च । स्वधाकारनमस्कारप्रणवैः सह सप्तधा ॥ २,८.
अमुकामुकगौत्रैतत्तुभ्यमस्तु तिलोदकम् । प्रदद्याद्दश पिण्डांस्तु अर्घपुष्पसमन्वितान् ॥ २,८.
धूपो दीपो बलिर्गन्धः सर्वेषामस्तु चाक्षयः । दश पिण्डांस्तु दान्दत्त्वा विष्णोः सौम्यं मुखं स्मरेत् ॥ २,८.
कुर्याच्च मासिकं मासि सपिण्डीकरणं ततः । आशौचान्ते ततः कुर्यादात्मनो वा मरस्य तु ॥ २,८.
कुर्यादस्थिरतां ज्ञात्वा शक्त्यारोग्यधनायुषम् । एतत्ते सर्वमाख्यातं जीवच्छ्राद्धं मया खग ॥ २,८.
श्रीगरुडमहापुराणम् ९ गरुड उवाच । उक्तमाद्यां क्रियां यावन्नृपोऽपीतित्वयानघ । कस्यचित्केनचिद्राज्ञा किमाद्या सा कृता पुरा ॥ २,९.
श्रीकृष्ण उवाच । सुपर्ण शृणु वक्ष्यामि यथा राज्ञा क्रिया कृता । आसीत्कृतयुगे राजा वाङ्गो वै बभ्रुवाहनः ॥ २,९.
पृथिव्याश्चतुरन्ताया गोप्ता पक्षीन्द्र धर्मतः । चतुर्भागां भुवं कृत्स्नां स भुङ्के वसुधाधिपः ॥ २,९.
न पापकृत्कश्चिदासीत्तस्मिन्राज्यं प्रशासति । नासीच्चौरभयं तार्क्ष्य न क्षुद्रभयमेव हि ॥ २,९.
नासीद्व्याधिभयञ्चापि तस्मिञ्जनपदेश्वरे । स्वधर्मे रेमिरे चासीत्तेजसा भास्करोपमः ॥ २,९.
अक्षुब्धत्वेर्ऽचलसमः सहिष्णुत्वे धरासमः । स कदाचिन्महाबाहुः प्रभूतबलवाहनः ॥ २,९.
वनं जगाम गहनं हयानाञ्च शतैर्वृतः । सिंहनादैश्च योधानां शङ्खदुन्दुभिनिः स्वनैः ॥ २,९.
आसीत्किलकिलाशब्दस्तस्मिन् गच्छती पार्थिवे । तत्रतत्र च विप्रेन्द्रैः स्तूयमानः समन्ततः ॥ २,९.
निर्ययौ परया प्रीत्या वनं मृगजिघांसया । स गच्छन्ददृशे धीमान्नन्दनप्रतिमं वनम् ॥ २,९.
बिल्वार्कखदिराकीर्णं कपित्थध्वजसंयुतम् । विषमैः पर्वतैश्चैव सर्वतश्च समन्वितम् ॥ २,९.
निर्जलं निर्मनुष्यञ्च बहुयोजनमायतम् । मृगसिंहैर्महाघोरैन्यैश्चापि वनेचरैः ॥ २,९.
तद्वनं मनुज व्याघ्रः सभृत्यबलवाहनः । लीलया लोडयामास सूदयन्विविधान्मृगान् ॥ २,९.
मृगस्य कस्यचित्कुक्षिं ततो विव्याध भूमिपः । राजा मृगप्रसङ्गेन तमनु प्राविशद्वनम् ॥ २,९.
एकाकी वै हृतबलः क्षुत्प्रिपासासमन्वितः । स वनस्यान्तमासाद्य महच्चारण्यमासदत् ॥ २,९.
तृषया परयाविष्टोऽन्विष्यज्जलमितस्ततः । स दूरात्पूरचक्राह्वं हंससारसनादितैः ॥ २,९.
सूचितं सर आगत्य साश्व एव व्यगाहत । पद्मानाञ्च परागेण उत्पलानां रजेन च ॥ २,९.
सुगन्धममलं शीतं पीत्वाम्भो निर्जगाम ह । मार्गश्रमपरिश्रान्तस्तडागतटमण्डपम् ॥ २,९.
न्यग्रोधं वीक्ष्य तस्याशु जटास्वश्वं बबन्ध ह । स तत्रास्तरमास्तीर्य खेटकानुपधाय च ॥ २,९.
सूष्वाप वायुना तत्र सेव्यामातस्तदा क्षणम् । क्षणं सुप्ते नृपे तत्र प्रेतो वै प्रेतवाहनः ॥ २,९.
कश्चिदत्राजगामाथ युक्तः प्रेतशतेन च । अस्थिचर्मशिराशेषशरीरः परिविभ्रमन् ॥ २,९.
भक्ष्यंपेयं मार्गमाणो न बध्नाति धृतिं क्वचित् । तमपूर्वं नृपो दृष्ट्वाकरोदस्त्रं शरासने ॥ २,९.