प्रतिसंवत्सरं पक्षिन्नेकोद्दिष्टविधानतः । श्राद्धं तत्र प्रकर्तव्यं फलं तस्य शृणुष्व मे ॥ २,८.
ब्रह्मेन्द्ररुद्रनासत्यसूर्याग्निवसुमारुतान् । विश्वेदेवान्पितृ गणान्वयांसि मनुजान्पशून् ॥ २,८.
सरीसृपान्मातृगणान्यच्चान्यद्भूतसंज्ञितम् । श्राद्धं श्रद्धान्वितः कुर्वन्प्रीणयत्यखिलं जगत् ॥ २,८.
ते तृप्तास्तर्पयन्त्येनं पुत्रदारधनैस्तथा । अधिकारः क्रियाभेदः समासात्ते निरूपितः ॥ २,८.
गरुड उवाच । उक्तेष्वेकोऽपि चेन्न स्यादधिकारी सुरोत्तम । कर्तव्यं किं तदा विष्णो पुरुषेण विजानता ॥ २,८.
श्रीकृष्ण उवाच । अधिकारो यदा नास्ति यदि नास्ति च निश्चयः । जीविते सति जीवाय दद्याच्छ्राद्धंस्वयं नरः ॥ २,८.
कृतोपवासः सुस्नातः कृष्णासङ्गः समाहितः । कर्तारमथ भोक्तारं विष्णुं सर्वेश्वरं यजेत् ॥ २,८.
सदक्षिणाश्च सतिलास्तिस्त्रश्च जलधेनवः । निवेदयेत्पितृभ्यश्च स्वधेति सुसमाहितः ॥ २,८.
अग्नये कव्यवाहनाय स्वधा नम इति स्मरन् । सोमायत्वा पितृमते स्वधा नम इति स्मरन् ॥ २,८.
दक्षिणेन तु दद्याच्च तृतीयां दक्षिणायुताम् । यमायाङ्गिरसे चाथ स्वधा नम इति स्मरन् ॥ २,८.
तयोर्मध्ये तु निः क्षिप्य विप्रान्संमन्त्र्य भो जयेत् । प्रथमामुत्तरे न्यस्य द्वितीयां दक्षिणे न्यसेत् ॥ २,८.
मध्ये तृतीयां विन्यस्य पश्चादावाहनादिकम् । आवाहनादिना पूर्वं विश्वेदेवान्प्रपूज्यच ॥ २,८.
वसुभ्यस्त्वामहं विप्र रुद्रेभ्यस्त्वामहं ततः । सूर्येभ्यस्त्वामहं विप्र भोजयामीति तान्वदेत् ॥ २,८.
आवाहनादिकं शेषं कुर्याच्च पितृशेषवत् । साम्यां धेनुं ततो दद्याद्वसूद्देशं द्विजाय तु ॥ २,८.
आग्नेय्यां चाथ रौद्राय याम्यां सूर्यद्विजाय तु । विश्वेभ्यश्चाथ देवेभ्यस्तिलपात्रं निवेदयेत् ॥ २,८.
स्वस्तीत्येव तथाक्षय्यं जलं दत्त्वाथ तान्द्विजान् । विसर्जयेत्स्मरन्विष्णुं देवमष्टाक्षरं विभुम् ॥ २,८.
ततः कामं कुलेशानीं शिवं नारायणं स्मरेत् । चतुर्दश्यां ततो गच्छेद्यथाप्राप्तां सरिद्वराम् ॥ २,८.
वस्त्राणि लोहखण्डानि जितं त इति संजपन् । दक्षिणाभिमुखो वह्निं ज्वालयेत्तत्र च स्वयम् ॥ २,८.
पञ्चाशता कुशैर्ब्राह्मीं कृत्वा प्रतिकृतिं दहेत् । हुत्वा श्माशानिकं होमं पूर्णाहुत्यन्तमेव हि ॥ २,८.
निरग्रिमथ वा भूमिं यमं रुद्रञ्च संस्मरेत् । हुत्वा प्राधानिके स्थाने पश्चादावाहयेच्च तम् ॥ २,८.
श्रपयेच्चापरं वह्नौ मुद्गमिश्रं चरुं ततः । तिलतण्डुलमिश्रञ्च द्वितीयं सपवित्रकम् ॥ २,८.
ओं पृथिव्यै नमस्तुभ्यमिति चैकं निवेदयेत् । ओं यमाय नमश्चेति द्वितीयं तदनन्तरम् ॥ २,८.
ओं नमश्चाथ रुद्राय श्माशानपतये नमः । ततो दीप्ते समिद्धेऽग्नौ भूमौ प्रकृतिदारुणे ॥ २,८.
सप्तभ्यो यमसंज्ञेभ्यो दद्यात्सप्त जलाञ्जलीन् । यमाय धर्मराजाय मृत्यवे चान्तकाय च ॥ २,८.
वैवस्वताय कालाय सर्वप्राणहराय च । स्वधाकारनमस्कारप्रणवैः सह सप्तधा ॥ २,८.
अमुकामुकगौत्रैतत्तुभ्यमस्तु तिलोदकम् । प्रदद्याद्दश पिण्डांस्तु अर्घपुष्पसमन्वितान् ॥ २,८.
धूपो दीपो बलिर्गन्धः सर्वेषामस्तु चाक्षयः । दश पिण्डांस्तु दान्दत्त्वा विष्णोः सौम्यं मुखं स्मरेत् ॥ २,८.
कुर्याच्च मासिकं मासि सपिण्डीकरणं ततः । आशौचान्ते ततः कुर्यादात्मनो वा मरस्य तु ॥ २,८.
कुर्यादस्थिरतां ज्ञात्वा शक्त्यारोग्यधनायुषम् । एतत्ते सर्वमाख्यातं जीवच्छ्राद्धं मया खग ॥ २,८.
श्रीगरुडमहापुराणम् ९ गरुड उवाच । उक्तमाद्यां क्रियां यावन्नृपोऽपीतित्वयानघ । कस्यचित्केनचिद्राज्ञा किमाद्या सा कृता पुरा ॥ २,९.