ततस्तौ जहतुः प्राणान्दुःखितौ विषपानतः । सोसौ बालोऽपि बभ्राम पितृभ्यां रहितो द्विज ॥ २,७.
पुरः पत्तनखर्वाटान् खेटानपि मृतः क्षुधा । एतस्मात्पातकाद्विप्र मृतः प्रेतत्वमागतः ॥ २,७.
रुद्धौ तु पितरौ यस्मान्नाम्नाहं रोधकस्ततः । लेखक उवाच । अहं विप्र पुराभूवमवन्त्यां द्विजसत्तमः ॥ २,७.
भद्रस्य राज्ञो देवानां पूजनेऽधिकृतो ह्यहम् । बह्व्यस्तु प्रतिमास्तत्र बभूवुर्बहुनामिकाः ॥ २,७.
हेम्नस्तदङ्गेषु बहु रत्नजातं बभूव ह । तासां मे कुर्वतः पूजां पापा मतिरजायत ॥ २,७.
अखिलं तीक्ष्णलोहेन तासामङ्गं विशीर्य च । उल्लेखनञ्च रत्नानां नेत्रादिभ्यः कृतं मया ॥ २,७.
तथाकृतान्यथाङ्गानि प्रतिमानां निरीक्ष्य च । नेत्राणि च विरत्नानि नृपश्चुक्रोध वह्निवत् ॥ २,७.
प्रतिजज्ञे नृपः पश्चादेष ब्राह्मणपुङ्गवः । आभ्यो रत्नं सुवर्णञ्च हृतं येन भविष्यति ॥ २,७.
ज्ञातश्च स हि मे वध्यो भविष्यति न संशयः । अहं तत्सकलं ज्ञात्वा रात्रावसिधरो गृहम् ॥ २,७.
राज्ञः प्रविश्य राजानं पशुमारममारयम् । गृहीत्वाथ मणीन् स्वर्णं निशीथेऽहं गतोऽन्यतः ॥ २,७.
व्याघ्रेण महातारण्ये नखटङ्कैर्विटङ्कितः । लेखनात्प्रतिमाया यन्मया लोहेन कर्तितम् ॥ २,७.
एतस्मात्पातकात्प्रेतो लेखको नामतोऽस्म्यहम् । आसीन्नरकभोगान्ते नः प्रेतत्वमिदं द्विज ॥ २,७.
ब्राह्मण उवाच । संज्ञास्तादृश्य आख्याता यथैता भवता दशाः । वदन्त्वाचारमात्रं मे प्रेता आहारमप्युत ॥ २,७.
प्रेता ऊचुः । वेदमार्गानुसरणं लज्जा धर्मो दमः क्षमा । धृतिर्ज्ञानं नैव यत्र वयं तत्र वसामहे ॥ २,७.
तस्य पीडां वपं कुर्मो नैव श्राद्धं न तर्पणम् । यस्य गेहे तदङ्गात्तु मांसञ्च रुधिरं क्रमात् ॥ २,७.
जक्षामश्च पिबामश्च उक्त आचार एष नः । शृणु चाहारमस्माकं सर्वलोकविगर्हितम् ॥ २,७.
दृष्टस्त्वया च किञ्चिद्वै ब्रूमोज्ञातं त्वयानघ । वमनं विडू दूषिका च श्लेष्मा मूत्राश्रुणी तथा ॥ २,७.
एतद्भक्ष्यञ्च पानञ्च मा पृच्छातः परं द्विज । लज्जा नो जायते स्वामिन्नाहारं वदतां स्वकम् ॥ २,७.
अज्ञानास्तामसा मन्दा कान्दिशीका वयं विभो । अकस्माज्जन्मनां विप्र स्मृतिः प्राप्ता तु पौर्विकी ॥ २,७.
विनीतत्वाविनीतत्वे जानीमो नैव नः प्रभो । श्रीकृष्ण उवाच । एवं वदत्सु प्रेतेषु तथा श्रुतवति द्विजे ॥ २,७.
अदर्शयमहं रूपं तदा तार्क्ष्येदमेव वै । स तु दृष्ट्वा द्विजश्रेष्ठो हृद्गतं पुरुषं पुरः ॥ २,७.
स्तोत्रैस्तुष्टाव पक्षीश दण्डवत्प्रणनाम माम् । तेऽपि तेपुस्ततः प्रेता आश्चर्योत्फुल्लचक्षुषः ॥ २,७.
प्रणयेन स्खलद्वाचः खग नोचुः किमप्युत । रजसा गोरचित्तानां तमसा मूढचेतसाम् । कृपया यः समुद्धारं कुरुषे वै नमोऽस्त ते ॥ २,७.
एवं द्विजातौ ब्रुवति प्रभू तप्रभैश्च मुख्यांबरचारियुक्तैः । तदा मदिच्छाप्रभवैर्विमानैः षड्भिः समन्ताद्रुरुचे गिरिः सः ॥ २,७.
इत्थं विमानेन मदीयलोकं गतो द्विजरसोऽप्यथ पञ्चमिस्तैः । प्रेता ययुः स्वर्गमगण्यपुण्यं सत्सङ्गसंसर्गवशात्सुपर्णम् ॥ २,७.
प्रेताः संगवशेन नाकमवन्सन्तप्तको ब्राह्मणो विष्वक्सन इति प्रसिद्धविभवो नाम्ना गणे मेऽभवत् । एतत्ते सकलं मया निगादितं यश्चैतदुत्कीर्तयेद्यश्चेदं शृणुयान्न सोऽपि पुरुषः प्रेतत्वमाप्नोति हि ॥ २,७.
श्रीगरुडमहापुराणम् ८ गरुड उवाच । स्वामिन्कस्याधिकारोऽत्र सर्व एवौर्ध्वदेहिके । क्रियाः कतिविधाः प्रोक्ता वदैतत्सर्वमेव मे ॥ २,८.
श्रीकृष्ण उवाच । पुत्रः पौत्रः प्रपौत्रो वा तद्भ्राता भ्रातृसन्ततिः । सपिण्डसन्ततिर्वापि क्रियार्हाः खग ज्ञातयः ॥ २,८.
तेषामभावे सर्वेषां समानोदकसन्ततिः । कुलद्वयेऽपि चोच्छिन्ने स्त्रीभिः कार्याः क्रियाः खग ॥ २,८.
इच्छयोच्छिन्नबन्धश्च कारयेदवनीपतिः । पूर्वाः क्रिया मध्यमाश्च तथा चैवोत्तराः क्रियाः ॥ २,८.