तस्य यद्वस्तु तत्सर्वं मणिमुक्तादिकाञ्चनम् । आदाय शीघ्रगस्तस्माद्देशात्स्वगृहमागतः ॥ २,७.
तत्सर्वं स्वगृहे मुक्त्वा तस्य पत्न्यै न्यवेदयम् । दस्युभिर्मे हतो भ्राता धनमाच्छिद्य वै पथि ॥ २,७.
प्रजावति प्रद्रुतोऽहं मा रोदीत्येवमब्रवम् । शोकार्ता सापि तत्कालं ममत्वं गृहबन्धुषु ॥ २,७.
त्यक्त्वा चाति प्रियान्प्राणाञ्जुहावाग्नौ यथाविधि । ततो निष्कण्टकं तद्धि वीक्ष्य हृष्टो गतो गृहम् ॥ २,७.
अभुञ्जं सर्वमागत्य यावज्जीवं तु तद्धनम् । मित्रं पूरे हि निःक्षिप्य यदहं शीघ्रमागतः ॥ २,७.
एतस्मात्कारणात्प्रेतः शीघ्रगोऽहं तु नामतः । रोधक उवाच । अहन्तु शूद्रजातीयः पुराभूवं मुनीश्वर ॥ २,७.
राजप्रसादाप्तमहाशतग्रामाधिकारवान् । वृद्धौ मे पितरावास्तां लघुरेकः सहोदरः ॥ २,७.
शीघ्रं स च मया भ्राता लुब्धेनैकः पृथक्कृतः । आप्तवान्परमं दुःखं सोन्नवस्त्रविवर्जितः ॥ २,७.
अदत्तां पितरौ च्छन्नं किञ्चित्किञ्चित्तु तस्य च । तस्मै पितृभ्यां यद्दत्तमाप्तेभ्यस्तन्मया श्रुतम् ॥ २,७.
तत्सर्वं तत्त्वतो ज्ञात्वा पित्रो रोधमकारयम् । शून्यमन्दिर एकस्मिन्बद्ध्वा तु निगडैर्दृढैः ॥ २,७.
ततस्तौ जहतुः प्राणान्दुःखितौ विषपानतः । सोसौ बालोऽपि बभ्राम पितृभ्यां रहितो द्विज ॥ २,७.
पुरः पत्तनखर्वाटान् खेटानपि मृतः क्षुधा । एतस्मात्पातकाद्विप्र मृतः प्रेतत्वमागतः ॥ २,७.
रुद्धौ तु पितरौ यस्मान्नाम्नाहं रोधकस्ततः । लेखक उवाच । अहं विप्र पुराभूवमवन्त्यां द्विजसत्तमः ॥ २,७.
भद्रस्य राज्ञो देवानां पूजनेऽधिकृतो ह्यहम् । बह्व्यस्तु प्रतिमास्तत्र बभूवुर्बहुनामिकाः ॥ २,७.
हेम्नस्तदङ्गेषु बहु रत्नजातं बभूव ह । तासां मे कुर्वतः पूजां पापा मतिरजायत ॥ २,७.
अखिलं तीक्ष्णलोहेन तासामङ्गं विशीर्य च । उल्लेखनञ्च रत्नानां नेत्रादिभ्यः कृतं मया ॥ २,७.
तथाकृतान्यथाङ्गानि प्रतिमानां निरीक्ष्य च । नेत्राणि च विरत्नानि नृपश्चुक्रोध वह्निवत् ॥ २,७.
प्रतिजज्ञे नृपः पश्चादेष ब्राह्मणपुङ्गवः । आभ्यो रत्नं सुवर्णञ्च हृतं येन भविष्यति ॥ २,७.
ज्ञातश्च स हि मे वध्यो भविष्यति न संशयः । अहं तत्सकलं ज्ञात्वा रात्रावसिधरो गृहम् ॥ २,७.
राज्ञः प्रविश्य राजानं पशुमारममारयम् । गृहीत्वाथ मणीन् स्वर्णं निशीथेऽहं गतोऽन्यतः ॥ २,७.
व्याघ्रेण महातारण्ये नखटङ्कैर्विटङ्कितः । लेखनात्प्रतिमाया यन्मया लोहेन कर्तितम् ॥ २,७.
एतस्मात्पातकात्प्रेतो लेखको नामतोऽस्म्यहम् । आसीन्नरकभोगान्ते नः प्रेतत्वमिदं द्विज ॥ २,७.
ब्राह्मण उवाच । संज्ञास्तादृश्य आख्याता यथैता भवता दशाः । वदन्त्वाचारमात्रं मे प्रेता आहारमप्युत ॥ २,७.
प्रेता ऊचुः । वेदमार्गानुसरणं लज्जा धर्मो दमः क्षमा । धृतिर्ज्ञानं नैव यत्र वयं तत्र वसामहे ॥ २,७.
तस्य पीडां वपं कुर्मो नैव श्राद्धं न तर्पणम् । यस्य गेहे तदङ्गात्तु मांसञ्च रुधिरं क्रमात् ॥ २,७.
जक्षामश्च पिबामश्च उक्त आचार एष नः । शृणु चाहारमस्माकं सर्वलोकविगर्हितम् ॥ २,७.
दृष्टस्त्वया च किञ्चिद्वै ब्रूमोज्ञातं त्वयानघ । वमनं विडू दूषिका च श्लेष्मा मूत्राश्रुणी तथा ॥ २,७.
एतद्भक्ष्यञ्च पानञ्च मा पृच्छातः परं द्विज । लज्जा नो जायते स्वामिन्नाहारं वदतां स्वकम् ॥ २,७.
अज्ञानास्तामसा मन्दा कान्दिशीका वयं विभो । अकस्माज्जन्मनां विप्र स्मृतिः प्राप्ता तु पौर्विकी ॥ २,७.
विनीतत्वाविनीतत्वे जानीमो नैव नः प्रभो । श्रीकृष्ण उवाच । एवं वदत्सु प्रेतेषु तथा श्रुतवति द्विजे ॥ २,७.