ते नखैस्तलघातैश्च पादघातैस्तथैव च । दंष्ट्राघातैश्च सर्वे तमेकं प्रेतं व्यदारयन् ॥ २,७.
तेषां प्रहारान्विफलान्कृत्वा संप्रति तानथ । जीवं न तु शवं तेषां जह्रे प्राणमिवान्तकः ॥ २,७.
हृतमात्रे शवे ते तु पारियात्रे गिरौ द्विजम् । मुक्त्वाधावन् प्रमुदिता एकं प्रेतं सुदारुणाः ॥ २,७.
स वायुगमनः प्रेतः प्राप्तस्तैः क्षणमात्रतः । अदृश्यतां ययौ तेऽथ हताशा विप्रमागमन् ॥ २,७.
प्रारब्धमात्रे विप्रस्य पाटने तत्र पर्वते । मम स्थानस्य विप्रस्य महिम्नेव च तत्क्षणे ॥ २,७.
सद्यः स्मृतिः समुत्पन्ना तेषां पूर्वस्य जन्मनः । विप्रं प्रदक्षिणीकृत्य द्विजर्षभमथाब्रुवन् ॥ २,७.
अद्य नः क्षन्तुमर्होऽसीत्युक्त्वा ते सुरदाम्भिकाः । गिरेरिव परावर्तं समुद्रस्येव शोषणम् ॥ २,७.
तेषां तद्वचनं श्रुत्वापृच्छत्के यूयमित्यथ । किं माया किमु वा स्वप्न उताहो चित्तविभ्रमः ॥ २,७.
प्रेता ऊचुः । अवेहि तत्त्वमेवैतत्प्रेता वै कर्मजा वयम् । ब्राह्मण उवाच । किंनामानः किमाचाराः कथञ्चेमां दशां गताः ॥ २,७.
अविनीताः कथं पूर्वं विनीताः साम्प्रतं कथम् । प्रेता ऊचुः । शृणु विप्रेन्द्र वक्ष्यामः प्रश्नानामनुपूर्वशः ॥ २,७.
उत्तराणि महायोगिंस्त्वद्दर्शनगतांहसः । अहं पर्युषितो नाम्ना एष सूचीमुखः स्मृतः ॥ २,७.
तृतीयः शीघ्रगस्तुर्यो रोधको लेखकः परः । ब्राह्मण उवाच । प्रेतानां कर्मजातानां कुतो नाम निरर्थकम् ॥ २,७.
निरुक्तिमेषां नाम्नां वै प्रेता वदत मा चिरम् । श्रीकृष्ण उवाच । एवमुक्तास्तु विप्रेण पृथगुत्तरमब्रुवन् ॥ २,७.
पर्युषित उवाच । कदाचिच्छ्राद्धकाले वै मया विप्रो निमन्त्रितः ॥ २,७.
स च कृत्वा विलम्बेन वृद्धो मद्गृहमागतः । अकृतश्राद्धकर्माहं तं पाकं भुक्तवान् क्षुधा ॥ २,७.
अददामन्नमाकृष्य विप्रे पर्युषितं कियत् । तस्मात्पापान्मृतः पापो योनिं वै कुत्सितां गतः ॥ २,७.
यतः पर्युषितं दत्तं ततः पर्युषितः स्मृतः । सूचीमुख उवाच । कदाचिद्ब्राह्मणी काचित्तीर्थं भद्रवटं ययौ ॥ २,७.
पञ्चवर्षसुता वृद्धा पुत्रमात्रैकजीविता । अहं क्षत्त्रियदायादस्तस्या रोधमकारिषम् ॥ २,७.
वने तु विजने तत्र पापाध्वगगतिं गतः । तस्याः सवस्त्रं पाथेयं तत्सूनोर्वसनानि च ॥ २,७.
गृहीतानि मया विप्र शिरस्यापीड्य मुष्टिना । तृषार्तस्तत्क्षणं बालः पात्रसंस्थं जलं पिबन् ॥ २,७.
तावन्मात्रोदके देशे मया हुङ्कृत्य वारितः । मयाथ सकलं पीतं जलं पात्रात्तृषावता ॥ २,७.
बालोऽपि भयसन्त्रस्तः पिपासुर्व्यसुरापतत् । पुत्रशोकान्मृता माता कूपे प्रास्य निजं वपुः ॥ २,७.
एतस्मात्पातकाद्विप्र प्रेतत्वं प्राप्तवानहम् । सूच्यग्रप्रायविवरमुखः पर्वतदेहवान् ॥ २,७.
यद्यपि प्राप्नुयां भक्ष्यं भक्षितुन्तु न शक्यते । मया क्षुधानलेनापि ज्वलतास्यं निकोचितम् ॥ २,७.
अत आस्ये तु विवरं सूच्यग्रेण समं मम । एतस्मात्कारणाद्विप्र नाम्ना सूचीमुखोऽस्म्यहम् ॥ २,७.
शीघ्रग उवाच । पुराहं वैश्यजातीयः साकं सख्या च केनचित् । वाणिज्यं कर्तुमगमं देशमन्यं महाधनः ॥ २,७.
मित्रं च मे बहुधनं तस्य लोभो महांस्ततः । जातोऽप्यदृष्टवैमुख्यान्मे नष्टं मूलमप्युत ॥ २,७.
ततस्तस्मात्तु निष्क्रान्तावावां नावाथ निम्नगाम् । मार्गगां तर्तुमारब्धौ लोहितायति भास्करे ॥ २,७.
सखा स च मदुत्सङ्गे सुष्वापाध्वक्लमाकुलः । अभूत्तदाति पापस्य क्रूरा मतिरतीव मे ॥ २,७.
तमुत्सङ्गगतं सूरे नष्टे पूरेऽक्षिपं तदा । तत्कृत्यं कुर्वतो नावि लोकैस्तु ज्ञातमेव न ॥ २,७.