स ददर्श तदा गुल्मैर्वोरुद्वृक्षशतैश्चितम् । त्वक्सारैः शाखिशाखाभिः संकुलं गहनंवनम् ॥ २,७.
तत्र तालास्तमालाश्च प्रियालाः पनसास्तथा । श्रीपर्णो शालशाखोटस्यन्दनास्तिन्दुकास्तथा ॥ २,७.
सर्जार्जुनाम्रातकाश्च श्लेष्मा तकभिभीतकौ । पिचुमर्दश्चिञ्चिणी च कर्कन्धूकर्णिकारकाः ॥ २,७.
एते चान्ये च बहवो वृक्षास्तेषु न दृश्यते । पक्षिणामपि वै पन्था मनुष्यस्य कुतः पुनः ॥ २,७.
तस्मिन् वने महाघोरे सिंहव्याघ्रसमाकुले । तरक्षुगवयैरृक्षैर्महिषैश्च निषेविते ॥ २,७.
कुञ्ज रैरुरुभिर्नागैर्मर्कटैश्च तथामृगैः । श्वापदैश्च तथा चान्यैः पिशाचै राक्षसैर्वृते ॥ २,७.
सन्तप्तको द्विजः किञ्चिद्भयसन्त्रस्तमानसः । कान्दिशीकः समभवढ्यद्भविष्यो ययौ पुनः ॥ २,७.
झङ्कारेषु च झिल्लीनां घूकानां घूत्कृतेष्वपि । दत्तकर्णः कुनीलाङ्गश्चचाल पदपञ्चकम् ॥ २,७.
स तत्र वटवृक्षाग्रे स्नायुबद्धं शवं तथा । ददर्श तद्भुजश्चैव पञ्च प्रेतान् सुदारुणान् ॥ २,७.
शिरास्थिचर्मशेषाङ्गान् पृष्ठलग्नोदरान् खग । त्यक्तान्नासिकया नेत्रकूपपातभयादिव ॥ २,७.
सूचीक्रककचकव्रातघातपातितकीकसान् । वसाक्तनवमस्तिष्कस्वादनित्यमहोत्सवान् ॥ २,७.
रणत्कोटिमहादंष्ट्रानस्थिग्रन्थ्यवघट्टितान् । तान्दृष्ट्वा त्रस्तहृदयो गतिमाकुञ्च्य संस्थितः ॥ २,७.
ते विलोक्यागतं विप्रमटवीं जनवर्जिताम् । अहं पूर्वमहं पूर्वं यामीत्याक्त्वा प्रदुद्रुवुः ॥ २,७.
तेषु द्वौद्वावगृह्णीतामस्य हस्तावथापरे । द्वौद्वौ पादावगृह्णीतां मूर्धानं पञ्चमोऽग्रहीत् ॥ २,७.
स्वजात्युचितवाक्येन स्फुटवर्णवताब्रुवन् । अहं जक्षाम्यहं भक्षामीति कर्षणतत्पराः ॥ २,७.
सहसैव सहैवामुं गृहीत्वा व्यगमन्वियत् । कियत्स्थितं वटौ मांसं क्रियन्नेति न्यभालयन् ॥ २,७.
तेऽपश्यन्निजदंष्ट्रायः पाटितान्त्रमिमं शवम् । अवतीर्य ततो व्योम्नो गृहीत्वा चरणैः शवम् ॥ २,७.
स्वखण्डितशरीरन्तु पुनर्व्योमैव चक्रमुः । स नीयमानमात्मानं विलोक्य वियति द्विजः ॥ २,७.
जगाम मनसा मां स शरणं भयविह्वलः । नमश्चक्रे चक्रधरं चेतसा चिन्मयं समम् ॥ २,७.
वक्रं नक्रं चक्रपातेन दूरे कृत्वा हृत्वा तस्य दुःखं मुकुन्दः । मातङ्गं योऽमूमुचन्नक्रवक्त्रात्पाशं सोऽसौ कर्मणां मे लुनातु ॥ २,७.
रुद्धाञ्शुद्धान् भूपतीन्मागधेन भीमेनैनं घातयित्वा मुरारिः । निर्बद्धान्यो भर्गयज्ञाय मुक्तश्चक्रो मेऽसौ कर्मपाशं लुनातु ॥ २,७.
मनसैवैह मामस्तौत्स्तूयमानोऽहमुत्थितः । अगच्छं सहसा तत्र यत्र प्रेतैः स नीयते ॥ २,७.
दृष्ट्वा तैर्नीयमानन्तु कौतुकं मेऽभवत्खग । पप्रच्छ न कियन्तं वै कालं तान्पृष्ठतोऽन्वगाम् ॥ २,७.
मम सन्निधिमात्रेण द्विजातिं तञ्च सर्पहन् । तत्कालं शिविकासुप्तभूपालसुखमाविशत् ॥ २,७.
मणिभद्रस्ततो मेरुं गच्छन्दृष्टो मया पथि । निकोच्याक्षि स्वपार्श्वं स नीतो वै यक्षराण्मया ॥ २,७.
तमवोचं महायक्षं त्वं हि प्रतिभटो भव । प्रेतान्नाशय तद्भूयः शवञ्च हर तद्गतम् ॥ २,७.
इत्युक्तः स महाघोरं कृत्वा रोषं सुदुःसहम् । जग्राह प्रेतरूपं तत्प्रेतानामपि दुःखदम् ॥ २,७.
स विवृत्य स्वकौ बाहू सृक्किणी परिलेलिहन् । भेदयन्नुरुवातेन प्रेतांस्तान्संमुखो ययौ ॥ २,७.
बाहुभ्यां द्वौ द्वौ च पद्भ्यां मूर्ध्नैकं च समाहरत् । प्रेतानथापि सहसा जघान दृढमुष्टिना ॥ २,७.
ते विवर्णमुखाः सर्वे तं द्विजञ्च शवं तथा । एकैकं हस्तपादैश्च गृहीत्वा युद्धमारभन् ॥ २,७.