गतानि बहुतीर्थानि ततो लोमशसंगतिः । ततोऽधिकतरं जातं पुण्यं नीलविवाहजम् ॥ २,६.
सभुक्त्वा विषयान् दिव्यान् विमानवरमाश्रितः । तेन राजकुले जन्म वीरसेनस्य धर्मतः ॥ २,६.
वीरपञ्चाननाख्यातञ्चतुर्वर्गैकसाधकम् । प्रकुर्वतो वृषोत्सर्गं तत्र ये परिचारकाः ॥ २,६.
दिव्यरूपाभवन् स्पृष्टा गोपुच्छोदकशीकरैः । सुरूपाः पुष्टवपुषः पश्यन्तो दूरसंस्थिताः ॥ २,६.
ततो दूरतरा ये च दृश्यन्ते मलिना जनाः । दुर्भगा मलिना रूक्षाः कृशा विगतवाससः ॥ २,६.
वृषयज्ञमपश्यन्तो ये चासूयां प्रकुर्वते । सर्वं निवेदितं राज्ञश्चरितं पूर्वजन्मनः ॥ २,६.
धर्म्यं विचित्रमाख्यानं श्रुतं मे यत्पराशरात् । अतस्त्वं स्वगृहं गच्छ कृपां कृत्वा ममोपरि ॥ २,६.
श्रुत्वा विपश्चिद्वाक्यं स विस्मयं परमं गतः । गृहं जगाम विप्रोऽसौ प्रापितो राजसेवकैः ॥ २,६.
वसिष्ठ उवाच । तस्माद्राजन् वृषोत्सर्गं वरिष्ठं सर्वकर्मणाम् । समाचर विधानेन यदि भीतो यमादपि ॥ २,६.
वृषोत्सर्गसमं किञ्चित्साधनं नदिवः परम् । मया धर्मरहस्यं ते कथितं राजसत्तम ॥ २,६.
पतिपुत्रवती नारी भर्तुरग्रे मृता यदि । वृषोत्सर्गं न कुर्वीत गां दद्याच्च पयस्विः नीम् ॥ २,६.
श्रीकृष्ण उवाच । श्रुत्वा वाक्यं वसिष्ठस्य राजा मधुपुरीं गतः । चकार विधिवत्सर्वं वृषोत्सर्गमहं खग ॥ २,६.
गृहं गत्वा स आत्मानं कृतकृत्यममन्यत । कालेन निधनं प्राप्तो नीतो वैवस्वतानुगैः ॥ २,६.
स कालनगरं हित्वा गतो दूरतरं पथि । श्राद्धदेवपुरं कुत्रेत्येवं दूतानपृच्छत ॥ २,६.
पापिनो यत्र पात्यन्ते याम्यै पापविशुद्धये । यत्र देवः स धर्माधर्मविचेतनः ॥ २,६.
गतं पापपुरं तत्तु न द्रष्टव्यं भवादृशैः । अग्रे दृष्ट्वा धर्मराजमूचुस्ते परमादरात् ॥ २,६.
दिव्यरूपस्तदा देवो देवगन्धर्वसंयुतः । आत्मानं दर्शया मास तस्य राज्ञो महात्मनः ॥ २,६.
प्रणम्य दण्डवद्राजा कृताञ्जलिः पुरः स्थितः । तुष्टाव बहुधा देवं हर्षपुरितमानसः ॥ २,६.
धर्मराजोऽपि राजानं प्रशस्येदमुवाच ह । नीयतां देवलोकाय यत्र भोगाः सुपुष्कलाः ॥ २,६.
तद्वीरवाहनः श्रुत्वा पप्रच्छसमवर्तिनम् । न जाने केन पुण्येन स्वर्गं नयसि मां विभो ॥ २,६.
धर्मराज उवाच । त्वया कृतानि पुण्यानि दानं यज्ञाः सविस्तराः । मथुरायां वृषोत्सर्गो वसिष्ठवचनात्किल ॥ २,६.
धर्मः स्वल्पोऽपि नृपते यदि सम्यगुपासितः । द्विजदेवप्रसादेन स याति बहुविस्तरम् ॥ २,६.
इत्युक्त्वा यमुनाभ्राता क्षणादन्तर्धिमाययौ । वीरबाहुर्दिवं गत्वा देवैः सह मुमोद ह ॥ २,६.
श्रीकृष्ण उवाच । मया ते कथितं पक्षिन् वृषयज्ञः सुविस्तरः । प्राणिनां कर्मनिर्हारं श्रुत्वा पापैः प्रमुच्यते ॥ २,६.
श्रीगरुडमहापुराणम् ७ गरुड उवाच । श्रुतं मे महादाख्यानं वृषोत्सर्गफलं हरे । पुनरन्यां कथां ब्रूहि यत्र ते महिमाद्भुतः ॥ २,७.
श्रीकृष्ण उवाच । अहं ते कथयाम्यद्य संवादं परमाद्भुतम् । सन्तप्तकस्य च प्रेतैस्तद्रूपज्ञापनाय वै ॥ २,७.
विप्रः सन्तप्तकः कश्चित्तपसादग्धकिल्बिषः । संसारासारतां ज्ञात्वारण्यष्वेव चचार ह ॥ २,७.
वैखानसमुनिव्रातैः प्राणिपातकृतेक्षणः । स कदाचित्तीर्थयात्रामुद्दिश्य स्माटतिद्विजः ॥ २,७.
प्रत्याकृष्टेन्द्रियत्वाच्च बहिर्वृत्तिनिरोधकः । संस्कारमात्रगमनो मार्गभ्रष्टो बभूव ह ॥ २,७.
चलन्नेवं स्नानकाले मध्याह्नेऽथाभिलाषुकः । जलस्योन्मील्य नयने दिशः सर्वा न्यभीलयत् ॥ २,७.