भक्तियोगेन सन्तुष्ट आत्मानं दर्शयेदजः । ततः कृतार्थो भवति सदा सर्वत्र निः स्पृहः ॥ २,६.
अतोऽहङ्कारमुत्सृज्य सानुबन्धे कलेवरे । चरेदसंगो लोकेषु स्वप्नप्रायेषु निर्ममः ॥ २,६.
क्व स्वप्ने नियतं धैर्यमिन्द्रजाले क्व सत्यता । क्व नित्यता शरन्मेघे क्व वा सत्यं कलेवरे ॥ २,६.
अविद्याकर्मजनितं दृश्यमानं चरा चरम् । ज्ञात्वाचारवशी योगी ततः सिद्धिमवाप्स्यसि ॥ २,६.
इत्युक्त्वा ते गताः सर्वे साधवो दीनवत्सलाः । सोऽहं तदुक्तमार्गेण तथैवाचरमन्वहम् ॥ २,६.
ततोऽचिरेणात्मनीदं दृष्टवानहमद्भुतम् । ज्योतिर्मयं सदानन्दं शरच्छीतांशुनिर्मलम् ॥ २,६.
निषिच्य सुखसन्दोहैर्मां कृत्वाधिकसस्पृहम् । अन्तर्हितं महतेजो यथा सौदामिनी दिवि ॥ २,६.
भक्त्या तदेव मनसि भावयन्नहमद्भुतम् । काले कलेवरं त्यक्त्वा गतवान् हरिमव्ययम् ॥ २,६.
तस्येच्छया पुनर्ब्रह्मन् ब्रह्मणो मेऽभवज्जनिः । अनुग्रहाद्भगवतस्त्रिषु लोकेषु निः स्पृहः ॥ २,६.
आपीडयन्मुहुर्वोणां गायमानश्चराम्यहम् । इत्युक्त्वा मे स्वानुभवं ययौ यादृच्छिको मुनिः ॥ २,६.
ममापि परमाश्चर्यं सन्तोषश्च महानभूत् । अतस्ते साधुसङ्गत्या भक्त्या च परमात्मनः ॥ २,६.
विशुद्धं निर्मलं शान्तं मनो निर्वृतिमेष्यति । अनेकजन्मजनितं पातकं साधुसंगमे ॥ २,६.
क्षिप्रं नश्यति धर्मज्ञ जलानां शरदो यथा । वैश्य उवाच । पीत्वा ते वाक्यपीयूषं स्वान्तं मे शान्तिमागमत् ॥ २,६.
सर्वतीर्थफलं मेऽध्य सञ्जातं तव दर्शनात् । इति श्रुत्वा वचस्तस्य प्रोवाच ऋपिसत्तमः ॥ २,६.
लोमश उवाच । हिताय तव राजेन्द्र त्रिवर्गफलमिच्छतः । यत्त्वया सुकृतं भूरिवृषोत्सर्गं विना कृतम् ॥ २,६.
मन्येऽकिञ्चत्करं सर्वं नीहारसलिलं यथा । वृषोत्सर्गसमं किञ्चित्साधनं न महीतले ॥ २,६.
अनायासेन गच्छन्ति गतिं ते पुण्यकर्मणाम् । वृषोत्सर्गः कृतो येन अश्वमेधस्य याजकः ॥ २,६.
उभौ समौ मया दृष्टौ दिव्यौ तौ शक्रसन्निधौ । अतस्त्वं पुष्करं गत्वा वृषोत्सर्गं विधाय च ॥ २,६.
ततो याहि गृहं साधो येन सर्वं कृतं भवेत् । विपश्चिदुवाच । ततः स पुनरागत्य कार्तिक्यां पुष्करे वरे ॥ २,६.
वराहरूपी भगवान् यत्रास्ते यज्ञपूरकः । चकार विधिवत्सर्वं युद्कमृषिसत्तमैः ॥ २,६.
गतानि बहुतीर्थानि ततो लोमशसंगतिः । ततोऽधिकतरं जातं पुण्यं नीलविवाहजम् ॥ २,६.
सभुक्त्वा विषयान् दिव्यान् विमानवरमाश्रितः । तेन राजकुले जन्म वीरसेनस्य धर्मतः ॥ २,६.
वीरपञ्चाननाख्यातञ्चतुर्वर्गैकसाधकम् । प्रकुर्वतो वृषोत्सर्गं तत्र ये परिचारकाः ॥ २,६.
दिव्यरूपाभवन् स्पृष्टा गोपुच्छोदकशीकरैः । सुरूपाः पुष्टवपुषः पश्यन्तो दूरसंस्थिताः ॥ २,६.
ततो दूरतरा ये च दृश्यन्ते मलिना जनाः । दुर्भगा मलिना रूक्षाः कृशा विगतवाससः ॥ २,६.
वृषयज्ञमपश्यन्तो ये चासूयां प्रकुर्वते । सर्वं निवेदितं राज्ञश्चरितं पूर्वजन्मनः ॥ २,६.
धर्म्यं विचित्रमाख्यानं श्रुतं मे यत्पराशरात् । अतस्त्वं स्वगृहं गच्छ कृपां कृत्वा ममोपरि ॥ २,६.
श्रुत्वा विपश्चिद्वाक्यं स विस्मयं परमं गतः । गृहं जगाम विप्रोऽसौ प्रापितो राजसेवकैः ॥ २,६.
वसिष्ठ उवाच । तस्माद्राजन् वृषोत्सर्गं वरिष्ठं सर्वकर्मणाम् । समाचर विधानेन यदि भीतो यमादपि ॥ २,६.
वृषोत्सर्गसमं किञ्चित्साधनं नदिवः परम् । मया धर्मरहस्यं ते कथितं राजसत्तम ॥ २,६.