अवाप गिरिजा देवी तपसा यत्र शङ्करम् । वारुणं सूर्यतीर्थञ्च हंसतीर्थं महोदयम् ॥ २,६.
निमज्ज्य यत्र काकोला राजहंसत्वमाययुः । असुरो यत्र देवत्वमवाप स्नानमात्रतः ॥ २,६.
विश्वरूपं वन्दितीर्थं रत्नेशः कुहकाचलः । नरनारायणं दृष्ट्वा मुच्यते पापकोटिभिः ॥ २,६.
सरस्वतीदृषद्वत्यौ नर्मदा शर्मदा नृणाम् । नीलकण्ठं महाकालं पुण्यं चामरकण्टकम् ॥ २,६.
चन्द्रभागा वेत्रवती वीरभद्रं गणेश्वरम् । गोकर्णं बिल्वतीर्थञ्च कर्मकुण्डं सतारकम् ॥ २,६.
स्नानमात्रेण यत्राशु मुच्यते कर्मबन्धनात् । अन्यान्यपि च तीर्थानि कृतानि कृपया तव ॥ २,६.
उत्पद्यते शुभा बुद्धिः साधूनां यदनुग्रहः । एकतः सर्वतीर्थानि करुणाः साधवोऽन्यतः ॥ २,६.
अनुग्रहाय भूतानां चरन्ति चरितव्रताः । त्वं गुरुः सर्वर्णानां विद्यया वयसाधिकः ॥ २,६.
अतः पृच्छाम्यहं किञ्चिदाधिभूतं चिरन्तनम् । किं कुर्यां कं नु पृच्छेऽहं मनो मेऽतिचलं मुने ॥ २,६.
निःस्पृहं ब्रह्मविषये विषयेष्वतिलालसम् । मनागपि न सहते विरहं तिमिरं ब्रुवत् ॥ २,६.
मोहितं विविधैर्भावैः कर्मणां क्षेत्रमुत्तमम् । शान्तिं यथा समायाति सम्पन्नमिव भूसुर ॥ २,६.
विवेकप्रवणं शुद्धं यथा स्यात्कृपया वद । ऋषिरुवाच । मनस्तु प्रबलं नित्यं सविकारं स्वभावतः ॥ २,६.
वशं नयन्ति करिणं प्रमत्तमपि हस्तिपाः । तथापि साधुसङ्गत्या साधनैरप्यतन्द्रितः ॥ २,६.
तीव्रेण भक्तियोगेन विचारेण वशं नयेत् । इतिहासं प्रवक्ष्यामि तव प्रत्ययकारकम् ॥ २,६.
नारदोऽकथयन्मह्यं स्ववृत्तगतजन्मनः । नारद उवाच । कस्यचिद्द्विजमुख्यस्य दासीपुत्त्रः पुरा मुने ॥ २,६.
शिक्षितो बालभावेऽपि पाठितो नितरामहम् । तत्रापि सङ्गतिर्जाता महतां पुण्यकर्मणाम् ॥ २,६.
प्रावृट्काले मम गृहे स्थितानां भाग्ययोगतः । शुश्रूषणानुवृत्त्या च प्रश्रयेण दमेन च ॥ २,६.
सन्तोषं परमं प्राप्य कृपया त्विदमब्रुवन् । मनीषा निर्मला येन जाता मम शुभार्थिनी ॥ २,६.
यया विष्णुमयं सर्वम्त्मन्येव ददृशिवान् । मुनय ऊचुः । शृणु वत्स प्रवक्ष्या मो हिताय तव बालक ॥ २,६.
येन वै ध्रियमाणेन इहामुत्र सुखं भवेत् । देवतिर्यङ्मनुष्याश्च संसारे विविधा जनाः ॥ २,६.
निबद्धाः कर्मपशैस्ते भुञ्जन् भोगान् पृथग्विधान् । देवत्वं याति सत्त्वेन रजसा च मनुष्यताम् ॥ २,६.
तिर्यक्त्वं तमसा जन्तुर्वासनानुगतोऽबुधः । मातुर्लब्ध्वा पुनर्जन्म म्रियते च पुनः पुनः ॥ २,६.
एवं गत्वा ह्यसंख्याता योनीस्ताः कर्मभूरपि । मानुष्यं दुर्लभं लब्ध्वा कदाचिद्दैवयोगतः ॥ २,६.
अनुग्रहेण महतां हरिं ज्ञात्वा विमुच्यते । रोगग्राहं मोहजालमपारं भवसागरम् ॥ २,६.
न पश्यामि तितीर्षोरन्यद्रामस्मरणं विना । नवनीयं यथा दध्नो ज्योतिः काष्ठादपि क्वचित् ॥ २,६.
मन्थनैः साधनैरेवं परं ज्ञात्वा सुखी भवेत् । आत्मा नित्योऽव्ययः सत्यः सर्वगः सर्वभृन्महान् ॥ २,६.
अप्रमेयः स्वयञ्ज्योतिरग्राह्यो मनसापि यः । सच्चिदानन्दरूपोऽसौ सर्वप्राणिहृदि स्थितः ॥ २,६.
विनश्यत्स्वपि भावेषु न विनश्यति कर्हिचित् । आकाशः सर्वभूतेषु स्थितस्तेजोजले तथा ॥ २,६.
आत्मा सर्वत्र निर्लेपः पार्थिवेषु यथानिलः । भक्तानुकम्पी भगवान् साधूनां रक्षणाय च ॥ २,६.
आविर्भवति लोकेषुगुणीवाज्ञैः प्रतीयते । एवंविवेकत्वया यो बुद्ध्या संशीलयेद्धृदि ॥ २,६.