मृतानां यत्र जन्तूनां कर्णे जपति तारकम् । पुलहस्याश्रमं पुण्यं फल्गुतीर्थञ्च गण्डकी ॥ २,६.
चक्रतीर्थं नैमिषञ्च शिवतीर्थमनन्तकम् । गोप्रतारकनागेशमयोध्याबिन्दुसंज्ञितम् ॥ २,६.
यत्रास्त मुक्तिदः साक्षाद्रामो राजीवलोचनः । आग्नेयं वायुकौबेरं कौमारं भूरुहां पुनः ॥ २,६.
सौकरं मथुरा यत्र नित्यं सन्निहतो हरिः । पुष्करं सत्यतीर्थञ्च ज्वालतीर्थं दिनेश्वरम् ॥ २,६.
इन्द्रतीर्थं कुरुक्षेत्रं यत्र प्राची सरस्वती । तापी पयोष्णी निर्विन्ध्या मलयः कृष्णवेणिका ॥ २,६.
गोदावरी दण्डकञ्च ताम्रचूडं सदोदकम् । द्यावाभूमीश्वरं दृष्ट्वा श्रीशैलः पर्वतेश्वरः ॥ २,६.
असंख्यलिङ्गतीर्थानि यत्र सन्ति सदा मुने । वेङ्कटाद्रौ महातेजाः श्रीरङ्गाख्यः स्वयं हरिः ॥ २,६.
वेङ्कटी नाम तत्रैव देवी महिषमर्दिनी । चन्द्रतीर्थं भद्रवटः कावेरीकुटिलाचलौ ॥ २,६.
अवटोदा ताम्रपर्णो त्रिकृटः कोल्लको गिरिः । वासिष्ठं ब्रह्मतीर्थञ्च ज्ञानतीर्थं महोदधिः ॥ २,६.
हृषीकेशं विराजञ्च विशालं नीलपर्वतः । भीमकूटः श्वेतगिरी रुद्रतीर्थमुमावनम् ॥ २,६.
अवाप गिरिजा देवी तपसा यत्र शङ्करम् । वारुणं सूर्यतीर्थञ्च हंसतीर्थं महोदयम् ॥ २,६.
निमज्ज्य यत्र काकोला राजहंसत्वमाययुः । असुरो यत्र देवत्वमवाप स्नानमात्रतः ॥ २,६.
विश्वरूपं वन्दितीर्थं रत्नेशः कुहकाचलः । नरनारायणं दृष्ट्वा मुच्यते पापकोटिभिः ॥ २,६.
सरस्वतीदृषद्वत्यौ नर्मदा शर्मदा नृणाम् । नीलकण्ठं महाकालं पुण्यं चामरकण्टकम् ॥ २,६.
चन्द्रभागा वेत्रवती वीरभद्रं गणेश्वरम् । गोकर्णं बिल्वतीर्थञ्च कर्मकुण्डं सतारकम् ॥ २,६.
स्नानमात्रेण यत्राशु मुच्यते कर्मबन्धनात् । अन्यान्यपि च तीर्थानि कृतानि कृपया तव ॥ २,६.
उत्पद्यते शुभा बुद्धिः साधूनां यदनुग्रहः । एकतः सर्वतीर्थानि करुणाः साधवोऽन्यतः ॥ २,६.
अनुग्रहाय भूतानां चरन्ति चरितव्रताः । त्वं गुरुः सर्वर्णानां विद्यया वयसाधिकः ॥ २,६.
अतः पृच्छाम्यहं किञ्चिदाधिभूतं चिरन्तनम् । किं कुर्यां कं नु पृच्छेऽहं मनो मेऽतिचलं मुने ॥ २,६.
निःस्पृहं ब्रह्मविषये विषयेष्वतिलालसम् । मनागपि न सहते विरहं तिमिरं ब्रुवत् ॥ २,६.
मोहितं विविधैर्भावैः कर्मणां क्षेत्रमुत्तमम् । शान्तिं यथा समायाति सम्पन्नमिव भूसुर ॥ २,६.
विवेकप्रवणं शुद्धं यथा स्यात्कृपया वद । ऋषिरुवाच । मनस्तु प्रबलं नित्यं सविकारं स्वभावतः ॥ २,६.
वशं नयन्ति करिणं प्रमत्तमपि हस्तिपाः । तथापि साधुसङ्गत्या साधनैरप्यतन्द्रितः ॥ २,६.
तीव्रेण भक्तियोगेन विचारेण वशं नयेत् । इतिहासं प्रवक्ष्यामि तव प्रत्ययकारकम् ॥ २,६.
नारदोऽकथयन्मह्यं स्ववृत्तगतजन्मनः । नारद उवाच । कस्यचिद्द्विजमुख्यस्य दासीपुत्त्रः पुरा मुने ॥ २,६.
शिक्षितो बालभावेऽपि पाठितो नितरामहम् । तत्रापि सङ्गतिर्जाता महतां पुण्यकर्मणाम् ॥ २,६.
प्रावृट्काले मम गृहे स्थितानां भाग्ययोगतः । शुश्रूषणानुवृत्त्या च प्रश्रयेण दमेन च ॥ २,६.
सन्तोषं परमं प्राप्य कृपया त्विदमब्रुवन् । मनीषा निर्मला येन जाता मम शुभार्थिनी ॥ २,६.
यया विष्णुमयं सर्वम्त्मन्येव ददृशिवान् । मुनय ऊचुः । शृणु वत्स प्रवक्ष्या मो हिताय तव बालक ॥ २,६.
येन वै ध्रियमाणेन इहामुत्र सुखं भवेत् । देवतिर्यङ्मनुष्याश्च संसारे विविधा जनाः ॥ २,६.