विभ्रान्तमनसं गृह्य प्रत्यग्जग्मुर्विहायसा । बहुवृक्षसमाकीर्णं गिरिदुर्गभयानकम् ॥ २,६.
वनाद्वनान्तरं निन्युर्नदीनदसमाकुलम् । स तत्र नगरं राजन् ददर्श बहुविस्तरम् ॥ २,६.
गोपुरद्वाररचितं सौधप्रासादमण्डितम् । चत्वरापणपण्यादिनरनारीसमाकुलम् ॥ २,६.
तूर्यद्वन्द्वाभिनिर्घोषवीणापटहनादितम् । कांश्चित्क्षुधार्दितान्दीनान्मलिनान्विगतौजसः ॥ २,६.
ततोऽतितुष्टान्मलिनान्वस्त्रखण्डसमावृतान् । अग्रतो हृष्टपुष्टांश्च स्वर्णवस्त्रोपशोभितान् ॥ २,६.
ततोऽपि सुरसंकाशान्स दृष्ट्वा विस्मितोऽभवत् । किं स्वप्न उत माया वै मदीयो मानसो भ्रमः ॥ २,६.
सन्दिहानं द्विजं निन्युः पुरुषा राजसन्निधिम् । सतद्ददर्श विप्रस्तु स्वर्णप्रासादमन्दिरे ॥ २,६.
सिंहासनंमहादिव्यं छत्रचामरवीजितम् । तत्रोप विष्टं राजानं किरीटकनकोज्ज्वलम् ॥ २,६.
महत्या च श्रिया युक्तं स्तूयमानं सुवन्दिभिः । राजापि दृष्ट्वा तं विप्रं प्रत्युत्थाय कृताञ्जलिः ॥ २,६.
पूजयामास विधिवन्मधुपर्कास नादिभिः । सन्तुष्टमनसं देवमस्तौषीत्परया मुदा ॥ २,६.
अद्य मे सफलं जन्म पावितञ्च कुलं प्रभो । विष्णुभक्तस्य धर्मस्य यत्ते दृग्गोचरं गतः ॥ २,६.
नत्वा स्तुत्वा बहुविधमुवाचानुवसन्नृपः । यतः समागतो देवः पुनस्तत्रैव नीयताम् ॥ २,६.
इति श्रुत्वा वचो राज्ञः पप्रच्छ द्विजपुङ्गवः । ब्राह्मण उवाच । कोऽयं देश कुतो लोका उत्तमा मध्यमाधमाः ॥ २,६.
केन पुण्येन तु भवान्पारमेष्ट्यविभूषितः । किमर्थमहमानीतः पुनस्तत्रैव नीयते ॥ २,६.
अपूर्वमिव पश्यामि सर्वं स्वप्नगतो यथा । राजोवाच । स्वधर्मनिरतो यस्तु हरिभक्तिरतः सदा ॥ २,६.
विरक्त इन्द्रियार्थेभ्यः स मे पूज्यो न संशयः । तीर्थयात्रापरो नित्यं वृषोत्सर्गविशेषवित् ॥ २,६.
सत्यदानपरो यस्तु स नमस्यो दिवौकसाम् । दर्शनार्थमिहानीतः पूजार्हश्च परन्तप ॥ २,६.
अनुगृहाण मां देव क्षमस्व मम साहसम् । इत्युक्त्वा दर्शयामास मन्त्रिणां संज्ञया भ्रुवः ॥ २,६.
वदिष्यति समग्रं ते स्वयं वक्तुं न साम्प्रतम् । सामन्तः सर्ववेदज्ञो ज्ञात्वा हार्दं नृपस्य च ॥ २,६.
विपश्चिदुवाच । पूर्वजन्मनि वैश्योऽयं विश्वम्भर इति श्रुतः । विराधनगरे विप्र द्विजदेवविभूषिते ॥ २,६.
वैश्यवृत्त्या सदा जीवन्कुटुम्बपरिपालकः । गवां शुश्रूषको नित्यं ब्राह्मणानाञ्च पूजकः ॥ २,६.
पात्रदानपरो नित्यमातिथेयाग्निसेवकः । गार्हस्थ्यं विधिवच्चक्रे भार्यया सत्यमेधया ॥ २,६.
स्मार्तेन लोकानजयच्छ्रौतेन त हविर्भुजः । कदाचिद्बन्धुभिः साकं कृत्वा तीर्थानि भूरिशः ॥ २,६.
यावदायाति सदनं दृष्टवांल्लोमशं पथि । दण्डवत्प्रणिपत्याशु कृताञ्जलिपुटं स्थितम् ॥ २,६.
पप्रच्छ विनयोपेतं करुणावारिवारिधिः । ऋषिरुवाच । कुत आगम्यते साधो ब्राह्मणैर्बन्धुभिर्युतः ॥ २,६.
दृष्ट्वा त्वां धर्मनिलयं प्रक्लिन्नं मानसं मम । विश्वम्भर उवाच । शीर्यमाणं शरीरं हि ज्ञात्वा मृत्युं पुरः स्थितम् ॥ २,६.
भार्यया धर्मचारिण्या तीर्थयात्रां विनिर्गतः । कृत्वा तीर्थानि विधिवद्विश्राण्य विपुलं वसु ॥ २,६.
यावद्व्रजाम्यहं वेश्म भवान् दृष्टिपथं गतः । लोमश उवाच । तीर्थानि सन्ति भूरीणि वर्षैऽस्मिन् भारते शुभे ॥ २,६.
यत्त्वया ह्युपचीर्णानि तानि सर्वाणि मे वद । वैश्य उवाच । गङ्गा च सूर्य तनया महापुण्या सरस्वती ॥ २,६.
दशाश्वमेधैरयजद्यत्र ब्रह्मा सुरेश्वरः । तीर्थराजस्ततः काशी महादेवो दयानिधिः ॥ २,६.