दद्यादेभिर्महामन्त्रैः समप्यार्थ जपेन्मनुम् 30.
ततो मुहूर्त्तमेकन्तुध्यायेद्देवं हृदि स्थितम् 30.
प्रसन्नवदनं सौम्यं स्फुरन्मकरकुण्डलम् 30.
परब्रह्मस्वरूपं च श्रीधरं चिन्तयेत्सुधीः 30.
श्रीनिवासाय देवाय नमः श्रीपतये नमः 30.
श्रीवल्लभाय शान्ताय श्रीमते च नमोनमः 30.
श्रेयसां पतये चैव ह्याश्रमाय नमोनमः 30.
शरण्याय वरेण्याय नमो भूयो नमोनमः 30.
इति रुद्रं समाख्यातां पूजां विष्णोर्महात्मनः 30.
यः पठतेऽध्यायं विष्णुपूजाप्रकाशकम् 30.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे श्रीधरा (विष्ण्व) र्चनविधिर्नाम त्रिंशोऽध्यायः
भूय एवं जगन्नाथ पूजां कथय मे प्रभो 31.
अर्च्चनं विष्णुदेवस्य वक्ष्यामि वृषभध्वज 31.
कृत्वा स्नानं ततः सन्ध्यां ततो यागगृहं व्रजेत् 31.
मूलमन्त्रं समस्तं तु हस्तयोर्व्यापकं न्यसेत् 31.
ॐ श्रीं ह्रीं श्रीधराय विष्णवे नमः 31.
सर्वव्याधिहरश्चैव सर्वग्रहहरस्तथा 31.
अङ्गन्यासं ततः कुय्यांदेभिर्मन्त्रौर्विचक्षणः ॐ हीं शिरसे स्वाहा ॐ हैं कवचाय हुं ॐ हः अस्त्राय फट् ।। 31.
इति मन्त्रः समाख्यातो मया ते प्रभविष्णुना 31.
ततो ध्यायेत्परं विष्णु ह्रृत्कोटरसमाश्रितम् 31.
श्रीवत्सकौस्तुभयुतं वनमालासमन्वितम् 31.
अहं विष्णुरिति ध्यात्वा कृत्वा वै शोधनादिकम् 31.
अण्डमुत्पाद्य च ततः प्रणवेनैव भेदयेत् 31.
आत्मपूजां ततः कुर्य्याद्रन्धपुष्पादिभिः शुभैः 31.
मन्त्रैरेभिर्महादेव तन्मन्त्रं श्रृणु शंकर 31.
ॐ समस्तपरिवारायाच्युताय नमः ॐ विधात्रे नमः ॐ यमुनायै नमः ॐ पद्मनिधये नमः ॐ प्रचण्डाय नमः ॐ आधारशक्त्यै नमः ॐ अनन्ताय नमः ॐ धर्म्माय नमः ॐ वैराग्याय नमः ॐ अधर्म्माय नमः ॐ अवैराग्याय नमः ॐसं सत्त्वाय नमः ॐ तं तमसे नमः ॐ नं नालाय नमः ॐ अं अर्कमण्डलाय नमः ॐ वं वह्निमण्डलाय नमः ॐ उत्कर्षिण्यै नमः ॐ क्रियायै नमः ॐ प्रह्व्यै नमः ॐ ईशानायै नमः 31.
गन्धपुष्पादिभिस्त्वेतैर्मन्त्रैरेतास्तु पूजयेत् 31.
आवाह्य मण्डले रुद्र पूजयेत्परमेश्वरम् 31.
यथात्मनि तथा देवे न्यासं कुर्वीत चादितः 31.
स्नानां कुर्य्यात्ततो वस्त्रं दद्यादाचमनं ततः 31.