दानं तीर्थं तपो यज्ञाः संन्यासः पैतृको महः । धर्मेषु गृह्यमाणेषु वृषोत्सर्गो विशेषितः ॥ २,६.
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २,६.
ब्रह्महत्यादिपापानि ज्ञानाज्ञानकृतानि च । नीलोद्वाहेन शुध्येत्तु समुद्रप्लवनेन वा ॥ २,६.
एकादशाहे राजेन्द्र यस्य नोत्सूज्यते वृषः । प्रेतत्वं निश्चलं तस्य कृतैः श्राद्धैस्तु किं भवेत् ॥ २,६.
यथाकथञ्चित्कर्तव्यस्तीर्थे वा पत्तनेऽथ वा । वृषयज्ञैः प्रमुच्यते नान्यथा साधनैः खग ॥ २,६.
वृषभं पञ्चकल्याणं युवानं कृष्णकंबलम् । गोयूथमध्ये नितरां विचरन्तं विधानतः ॥ २,६.
चतसृभिर्वत्सकाभिर्द्वाभ्याञ्चैवैकया खग । विवाह्य मङ्गलद्रव्यैर्मन्त्रवत्तं समुत्सृजेत् ॥ २,६.
इह रतीति षडृग्भिर्हेमं कुर्याद्विभावसोः । कार्तिक्यां माघवैशाख्यां संक्रमे पातपर्वसु ॥ २,६.
तीर्थे पित्र्येक्षयाहे च विशेषेण प्रशस्यते । लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ २,६.
पीतः खुरविषाणेषु स नीलो वृष उच्यते । श्वेतवर्णो भवेद्विप्रो लोहितः क्षत्त्र उच्यते ॥ २,६.
पीतवर्णो भवेद्वैश्यः शूद्रः कृष्णः स्मृतो बुधैः । यथावर्णं समुद्दिष्टो वर्णेषु ब्राह्मणादिषु ॥ २,६.
अथ वा रक्तवर्णस्तु सर्वेषामेव शस्यते । पिता पितामहश्चैव तथैव प्रपितामहः ॥ २,६.
आशासते सुतं जातं वृषोत्सर्गं करिष्यति । धर्मस्त्वं वृषरूपेण जगदानन्ददायकः ॥ २,६.
अष्टमूर्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे । गङ्गायमुनयोः पेयमन्तर्वेदि तृणं चर ॥ २,६.
धर्मराजस्य पुरतो वाच्यं मे सुकृतं वृष । दक्षिणांसे त्रिशूलाङ्कं वामोरौ चक्रचिह्नितम् ॥ २,६.
इति संप्रार्थ्य वृषभं गन्धपुष्पाक्षतादिभिः । वृषं तत्सतरीयुक्तं पूजयित्वा समुत्सृजेत् ॥ २,६.
तस्माद्राजन् विधानेन वृषोत्सर्गं समाचर । बहुसाधनयुक्तस्य नान्यथा सद्गतिस्तव ॥ २,६.
आसीत्त्रेतायुगे पूर्वं विदेहनगरे नृप । ब्राह्मणो धर्मवत्सेति स्वकर्मनिरतः सुधीः ॥ २,६.
विष्णुभक्तोऽतितेजस्वी यथालाभेन तुष्टिकृत् । पितृपर्वणि संप्राप्ते कुशार्यो काननं ययौ ॥ २,६.
अटन्नितस्ततस्तत्र चिन्वन् कुशपलाशकम् । सहसोपेत्य पुरुषाश्चात्वारश्चारुदर्शनाः ॥ २,६.
विभ्रान्तमनसं गृह्य प्रत्यग्जग्मुर्विहायसा । बहुवृक्षसमाकीर्णं गिरिदुर्गभयानकम् ॥ २,६.
वनाद्वनान्तरं निन्युर्नदीनदसमाकुलम् । स तत्र नगरं राजन् ददर्श बहुविस्तरम् ॥ २,६.
गोपुरद्वाररचितं सौधप्रासादमण्डितम् । चत्वरापणपण्यादिनरनारीसमाकुलम् ॥ २,६.
तूर्यद्वन्द्वाभिनिर्घोषवीणापटहनादितम् । कांश्चित्क्षुधार्दितान्दीनान्मलिनान्विगतौजसः ॥ २,६.
ततोऽतितुष्टान्मलिनान्वस्त्रखण्डसमावृतान् । अग्रतो हृष्टपुष्टांश्च स्वर्णवस्त्रोपशोभितान् ॥ २,६.
ततोऽपि सुरसंकाशान्स दृष्ट्वा विस्मितोऽभवत् । किं स्वप्न उत माया वै मदीयो मानसो भ्रमः ॥ २,६.
सन्दिहानं द्विजं निन्युः पुरुषा राजसन्निधिम् । सतद्ददर्श विप्रस्तु स्वर्णप्रासादमन्दिरे ॥ २,६.
सिंहासनंमहादिव्यं छत्रचामरवीजितम् । तत्रोप विष्टं राजानं किरीटकनकोज्ज्वलम् ॥ २,६.
महत्या च श्रिया युक्तं स्तूयमानं सुवन्दिभिः । राजापि दृष्ट्वा तं विप्रं प्रत्युत्थाय कृताञ्जलिः ॥ २,६.
पूजयामास विधिवन्मधुपर्कास नादिभिः । सन्तुष्टमनसं देवमस्तौषीत्परया मुदा ॥ २,६.