श्रीगरुडमहापुराणम् ६ गरुड उवाच । अपि साधनयुक्तस्य तीर्थदानरतस्य च । अकृते तु वृषोत्सर्गे परलोकगतिर्न हि ॥ २,६.
तस्मात्कृष्ण वृषोत्सर्गः कर्तव्य इति मे श्रुतम् । किं फलं वृषयज्ञस्य पुरा केन कृतो हरे ॥ २,६.
अनड्वान् कीदृशः प्रोक्तः कस्मिन् काले विशेषतः । को विधिस्तस्य निर्दिष्टः सर्वं मे कृपया वद ॥ २,६.
श्रीकृष्ण उवाच । इतिहासं महापुण्यं प्रवक्ष्यामि खगेश्वर । ब्रह्मपुत्रेण यत्प्रोक्तं राजानं वीरवाहनम् ॥ २,६.
विराधनगरे राजा वीरवाहननामकः । धर्मात्मा सत्यसन्धश्च वदान्यो विप्रतुष्टिकृत् ॥ २,६.
स कदाचिद्वनं वीरो महात्माखेटकं गतः । किञ्चित्प्रष्टुमनास्तार्क्ष्य वसिष्ठस्याश्रमं ययौ ॥ २,६.
नमस्कृत्य मुनिं तत्र कृतासनपरिग्रहः । पश्रयावनतो राजा पप्रच्छ ऋषिसंसदि ॥ २,६.
राजोवाच । मुने मया कृतो धर्मो यथाशक्ति प्रयत्नतः । यमस्य शासनं श्रुत्वा बिभेमि नितरां हृदि ॥ २,६.
यमञ्च यमदूतांश्च निरयान् घोरदर्शनान् । न पश्यामि महाभाग तथा वद दयानिधे ॥ २,६.
वसिष्ठ उवाच । धर्मा बहुविधा राजन् वर्ण्यन्ते शास्त्रकोविदैः । सूक्ष्मत्वान्न विजानन्ति कर्ममार्गविमोहिताः ॥ २,६.
दानं तीर्थं तपो यज्ञाः संन्यासः पैतृको महः । धर्मेषु गृह्यमाणेषु वृषोत्सर्गो विशेषितः ॥ २,६.
एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाश्वमेधेन नीलं वा वृषमुत्सृजेत् ॥ २,६.
ब्रह्महत्यादिपापानि ज्ञानाज्ञानकृतानि च । नीलोद्वाहेन शुध्येत्तु समुद्रप्लवनेन वा ॥ २,६.
एकादशाहे राजेन्द्र यस्य नोत्सूज्यते वृषः । प्रेतत्वं निश्चलं तस्य कृतैः श्राद्धैस्तु किं भवेत् ॥ २,६.
यथाकथञ्चित्कर्तव्यस्तीर्थे वा पत्तनेऽथ वा । वृषयज्ञैः प्रमुच्यते नान्यथा साधनैः खग ॥ २,६.
वृषभं पञ्चकल्याणं युवानं कृष्णकंबलम् । गोयूथमध्ये नितरां विचरन्तं विधानतः ॥ २,६.
चतसृभिर्वत्सकाभिर्द्वाभ्याञ्चैवैकया खग । विवाह्य मङ्गलद्रव्यैर्मन्त्रवत्तं समुत्सृजेत् ॥ २,६.
इह रतीति षडृग्भिर्हेमं कुर्याद्विभावसोः । कार्तिक्यां माघवैशाख्यां संक्रमे पातपर्वसु ॥ २,६.
तीर्थे पित्र्येक्षयाहे च विशेषेण प्रशस्यते । लोहितो यस्तु वर्णेन मुखे पुच्छे च पाण्डुरः ॥ २,६.
पीतः खुरविषाणेषु स नीलो वृष उच्यते । श्वेतवर्णो भवेद्विप्रो लोहितः क्षत्त्र उच्यते ॥ २,६.
पीतवर्णो भवेद्वैश्यः शूद्रः कृष्णः स्मृतो बुधैः । यथावर्णं समुद्दिष्टो वर्णेषु ब्राह्मणादिषु ॥ २,६.
अथ वा रक्तवर्णस्तु सर्वेषामेव शस्यते । पिता पितामहश्चैव तथैव प्रपितामहः ॥ २,६.
आशासते सुतं जातं वृषोत्सर्गं करिष्यति । धर्मस्त्वं वृषरूपेण जगदानन्ददायकः ॥ २,६.
अष्टमूर्तेरधिष्ठानमतः शान्तिं प्रयच्छ मे । गङ्गायमुनयोः पेयमन्तर्वेदि तृणं चर ॥ २,६.
धर्मराजस्य पुरतो वाच्यं मे सुकृतं वृष । दक्षिणांसे त्रिशूलाङ्कं वामोरौ चक्रचिह्नितम् ॥ २,६.
इति संप्रार्थ्य वृषभं गन्धपुष्पाक्षतादिभिः । वृषं तत्सतरीयुक्तं पूजयित्वा समुत्सृजेत् ॥ २,६.
तस्माद्राजन् विधानेन वृषोत्सर्गं समाचर । बहुसाधनयुक्तस्य नान्यथा सद्गतिस्तव ॥ २,६.
आसीत्त्रेतायुगे पूर्वं विदेहनगरे नृप । ब्राह्मणो धर्मवत्सेति स्वकर्मनिरतः सुधीः ॥ २,६.
विष्णुभक्तोऽतितेजस्वी यथालाभेन तुष्टिकृत् । पितृपर्वणि संप्राप्ते कुशार्यो काननं ययौ ॥ २,६.
अटन्नितस्ततस्तत्र चिन्वन् कुशपलाशकम् । सहसोपेत्य पुरुषाश्चात्वारश्चारुदर्शनाः ॥ २,६.