तत्र येन प्रदत्ता गौः स सुखेनैव तां तरेत् । अदायी तत्र घृष्येत करग्राहन्तु नाविकैः ॥ २,५.
उखैः काकैर्बकोलूकैस्तीक्ष्णतुण्डैर्वितुद्यते । मनुजानां हितं दानमन्ते वैतरणी खग ॥ २,५.
दत्ता पापं दहेत्सर्वं मम लोकन्तु सा नयेत् । मप्तमे मासि सम्प्राप्ते पुरं बह्वापदं मृतः ॥ २,५.
व्रजेत्तु सोदकं भुक्त्वा पिण्डं वै सप्तमासिकम् । व्रजन्नेवं विलपते परिघाहतिपीडितः ॥ २,५.
न दत्तं न हुतं तप्तं न स्नातं न कृतं हितम् । यादृशं चरितं कर्म मूढात्मन् भुङ्क्ष्व तादृशम् ॥ २,५.
मास्यष्टमे दुः खदे तु परे भुक्त्वाथ सोदकम् । पिण्डं प्रयात्सयौ तार्क्ष्य नानाक्रन्दपुरं ततः ॥ २,५.
प्रयाणे च प्रवदते मुसलाघातपीडितः । क्व जायाचटुलैश्चाटुपटुभिर्वचनैर्मम ॥ २,५.
भोजनं भल्लभल्लीभिर्मुसलैश्च क्व मारणम् । नवमे मासि दत्तं वै नानाक्रन्दपुरे ततः ॥ २,५.
पिण्डमश्राति करुणं नानाक्रन्दान् करोत्यपि । दशमे मासि दत्तं वै सुतप्तभवनं ततः ॥ २,५.
सरन्नेवं विलपते हलाहतिहतः पथि । क्व सूनुपेशलकरैः पादसंवाहनं मम ॥ २,५.
क्व दूतवज्रप्रतिमकैर्मत्पदकर्षणम् । दशमे मासि पिण्डादि तत्र भुक्त्वा प्रसर्पति ॥ २,५.
मासे चैकादशे पूर्णे पुरं रौद्रं स गच्छति । गच्छन्नेव विलपते यथा पृष्ठे प्रपीडितः ॥ २,५.
क्वाहं सतूलीशयने परिवर्तन् क्षणे क्षणे । भटहस्तभ्रष्टयष्टिकृष्टपृष्ठः क्व वा पुनः ॥ २,५.
क्षितौ दत्तञ्च पिण्डादि भुक्त्वा तत्र ततो व्रजेत् । पयोवर्षणमित्येतन्नामकं पुरमण्डज ॥ २,५.
व्रजन्नेवं विलपते कुठारैर्मूर्ध्नि ताडितः । क्व भृत्यकोमलकरैर्गन्धतैलावसेचनम् ॥ २,५.
क्व कीनाशानुगैः क्रोधात्कुठारैः शिरसि व्यथा । ऊनाब्दिकञ्च यच्छ्राद्धं तत्र भुङ्क्ते सुदुः खितः ॥ २,५.
संपूर्णे तु ततो वर्षे शीताढ्यं नगरं व्रजेत् । गच्छन्नेवं छुरिकया च्छिन्नजिह्वस्तु रोदिति ॥ २,५.
प्रियालापैः क्व च ससमधुरत्वस्य वर्णनम् । उक्तमात्रेऽसिपत्रादिजिह्वाच्छेदः क्व चैव हि ॥ २,५.
वार्षिकं पिण्डदानादि भुक्त्वा तत्र प्रसर्पति । बहुभीतिकरं तत्तत्पिण्डजं देवमास्थितः ॥ २,५.
प्रकाशयति पाप्पानमात्मानञ्च विनिन्दति । योषिदप्येवमेतस्मिन्मार्गे वै परिदेवति ॥ २,५.
ततो याम्यं नातिदूरे नगरं स हि गच्छति । चत्वारिंशद्योजनानि चतुर्युक्तानिविस्तृतम् ॥ २,५.
त्रयोदश प्रतीहाराः श्रवणा नाम तत्र वै । श्रवणाकर्मतस्तुष्यन्त्यन्यथा क्रोधमाप्नुयुः ॥ २,५.
ततस्तत्राशु रक्ताक्षं भिन्नाञ्जनचयोपमम् । मृत्युकालान्तकादीनां मध्ये पश्यति वै यमम् ॥ २,५.
दंष्ट्राकरालवदनं भृकुटीदारुणाकृतिम् । विरूपैर्भोषणैर्वक्त्रैर्वृतं व्याधिशतैः प्रभुम् ॥ २,५.
दण्डासक्तमहाबाहुं पाशहस्तं सुभैरवम् । तन्निर्दिष्टां ततो जन्तुर्गतिं याति शुभाशुभाम् ॥ २,५.
पापी पापां गतिं याति यथा ते कथितं पुरा । छत्रोपानहदातारो ये च वेश्मप्रदायकाः ॥ २,५.
ये तु पुण्यकृतस्तत्र ते पश्यन्ति यमं तदा । सौम्याकृतिं कुण्डलिनं मौलिमन्तं धृतश्रियम् ॥ २,५.
एकादशे द्वादशे हि षण्मासे आब्दिके तथा । विप्रान् बहून् भोजयेत्तत्र यन्महती क्षुधा ॥ २,५.
जीवन् पुत्रकलत्रादिप्रदिष्टमितरैः खग । यो न साधयति स्वार्थमेवं पश्चाद्धिखिद्यते ॥ २,५.
एतत्ते सर्वमाख्यातं संयमिन्यां यथागति । प्रोक्तमावर्षकृत्यं ते किमन्यच्छ्रोतुमिच्छसि ॥ २,५.