व्रजन्नेवं प्रलपते कृपाणत्सरुताडितः । पराधानमभूत्सर्वंमम मूर्खशिरोमणेः ॥ २,५.
महता पुण्ययोगेन मानुष्यं लब्धवानहम् । तृतीये मासि सम्प्राप्ते गन्धर्वनगरे शुभम् ॥ २,५.
तृतीयमासिकं पिण्डं तत्र भुक्त्वा ब्रजत्यसौ । व्रजन्नेवं विलपते तदग्रेणाहतः पथि ॥ २,५.
मया न दत्तं न हुतं हुताशने तपो न तप्तं हिमशैलगह्वरे । न सेवितं गाङ्गमहो महाजलं शरीर हे निस्तर यत्त्वया कृतम् ॥ २,५.
तुर्ये शैलागमं मासि प्राप्नुयात्तत्र वर्षणम् । तस्योपरि भवेत्पक्षिन्पाषाणानां निरन्तरम् ॥ २,५.
चतुर्थमासिकं श्राद्धं भुक्त्वा तत्र प्रसर्पति । स पतन्नेव विलपन्पाषाणाद्यतिपीडितः ॥ २,५.
न ज्ञानमार्गो न च योगमार्गो न कर्ममार्गो न च भक्तिमार्गः । न साधुसङ्गात्किमपि श्रुतं मया शरीर हे निस्तर यत्त्वया कृतम् ॥ २,५.
ततः क्रूरपुर मासि पञ्चमे याति काश्यप । भुवि दत्तं पिण्डजलं भुक्त्वा क्रूरपुरं व्रजेत् ॥ २,५.
व्रजन्नेवं विलपते पट्टिशैः पातितः पथि । हा मातर्हापितर्भ्रातः सुता हा हा मम स्त्रियः ॥ २,५.
युष्माभिर्नोपदिष्टोऽहमवस्थां प्राप्त ईदृशीम् । एवं लालप्यमानं ते यमदूता वदन्तिहि ॥ २,५.
क्व माता क्व पिता मूढ क्व जाया क्व सुतः सुहृत् । स्वकर्मोपार्जिते भुङ्क्ष्वं मूर्ख याताश्चिरं पथि ॥ २,५.
जानासि शम्बलमलं बलमध्वगानां नोऽशम्बलः प्रयतते परलोकगत्यै । गन्तव्यमस्ति तव निश्चितमेव तेन मार्गेण येन न भवेत्क्रयविक्रयोऽपि ॥ २,५.
ऊनषाण्मासिके क्रौञ्चे भुक्त्वा पिण्डन्तु सोदकम् । घटीमात्रन्तु विश्रम्य विचित्रनगरं व्रजेत् ॥ २,५.
व्रजन्नेवं विलपते शूलाग्रेण विदारितः ॥ २,५.
कुत्र यामि न हि गामि जीवितं हा मृतस्य मरणं पुनर्न वै । इत्थमेव विलपन् प्रयात्यसौ यातनार्हधृतविग्रहः पति ॥ २,५.
विचित्रनगरे तत्र विचित्रो नाम पारिथिवः । तत्र षण्मासपिण्डेन तृप्तः सन् व्रजते पुरः ॥ २,५.
व्रजन्नेवं विलपते प्रासाग्रेण प्रपीडितः ॥ २,५.
माता भ्राता पिता पुत्रः कोऽपि मे वर्तते न वा । यो मामुद्धरते पापं पतन्तं दुः खसागरे ॥ २,५.
व्रजतस्तत्र मार्गे तु तत्र वैतरणी शुभा । शतयोजनविस्तीर्णा पूयशोणितसंकुला ॥ २,५.
आयाति तत्र दृश्यन्ते नाविका धीवरादयः । ते वदन्ति प्रदत्ता गौर्यदि वैतरणी त्वया । नावमेनां समारोह सुकेनोत्तर वै नदीम् ॥ २,५.
तत्र येन प्रदत्ता गौः स सुखेनैव तां तरेत् । अदायी तत्र घृष्येत करग्राहन्तु नाविकैः ॥ २,५.
उखैः काकैर्बकोलूकैस्तीक्ष्णतुण्डैर्वितुद्यते । मनुजानां हितं दानमन्ते वैतरणी खग ॥ २,५.
दत्ता पापं दहेत्सर्वं मम लोकन्तु सा नयेत् । मप्तमे मासि सम्प्राप्ते पुरं बह्वापदं मृतः ॥ २,५.
व्रजेत्तु सोदकं भुक्त्वा पिण्डं वै सप्तमासिकम् । व्रजन्नेवं विलपते परिघाहतिपीडितः ॥ २,५.
न दत्तं न हुतं तप्तं न स्नातं न कृतं हितम् । यादृशं चरितं कर्म मूढात्मन् भुङ्क्ष्व तादृशम् ॥ २,५.
मास्यष्टमे दुः खदे तु परे भुक्त्वाथ सोदकम् । पिण्डं प्रयात्सयौ तार्क्ष्य नानाक्रन्दपुरं ततः ॥ २,५.
प्रयाणे च प्रवदते मुसलाघातपीडितः । क्व जायाचटुलैश्चाटुपटुभिर्वचनैर्मम ॥ २,५.
भोजनं भल्लभल्लीभिर्मुसलैश्च क्व मारणम् । नवमे मासि दत्तं वै नानाक्रन्दपुरे ततः ॥ २,५.
पिण्डमश्राति करुणं नानाक्रन्दान् करोत्यपि । दशमे मासि दत्तं वै सुतप्तभवनं ततः ॥ २,५.
सरन्नेवं विलपते हलाहतिहतः पथि । क्व सूनुपेशलकरैः पादसंवाहनं मम ॥ २,५.