अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा । एकोद्दिष्टं मे निबोध चेत्थमावत्सरं स्मृतम् ॥ २,५.
सपिण्डीकरणादूर्ध्वं यानि श्राद्धानि षोडश । एकोद्दिष्टविधानेन चरेद्वा पार्वणादृते ॥ २,५.
प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि । एकादशे द्वादशेऽह्नि प्रेतो भुङ्क्ते दिनद्वयम् ॥ २,५.
योषितः पुरुषस्यापि पिण्डं प्रेतेति निर्वपेत् । सापिण्ड्ये तु कृते तस्य प्रेतशब्दो निवर्तते ॥ २,५.
दीपदानं प्रकर्तव्यमावर्षन्तु गृहाद्बहिः । अन्नं दीपो जलं वस्त्रमन्यद्वादीयते च यत् ॥ २,५.
तृप्तिदं प्रेतशब्देन सपिण्डीकरणावधि । अब्दकृत्यं मयोक्तन्ते समासाद्विनतासुत ॥ २,५.
वैवस्वतगृहे यानं यथा तत्तु निबोधमेः । त्रयोदशेऽह्नि श्रवणाकर्मणोनन्तरन्तु सः ॥ २,५.
त्वग्गृहीताहिवत्तार्क्ष्य गृहीतो यमकिङ्करैः । तस्मिन्मार्गे व्रजत्येको गृहीत इव मर्कटः ॥ २,५.
वाय्वग्रसारिवद्रूपं देहमन्यत्प्रपद्यते । तत्पिण्डजं पातनार्थमन्यत्तु पितृसम्भवम् ॥ २,५.
तत्प्रमाणवयोऽवस्थासंस्थानां प्रग्भवो यथा । षडशीति सहस्राणि योजनानां प्रमाणतः ॥ २,५.
अध्वान्तरालिको ज्ञेयो यममानुषलोकयोः । साधिकार्धक्रोशयुतं योजनानां शतद्वयम् ॥ २,५.
चत्वारिं शत्तथा सप्त प्रत्यहं याति तत्र सः । अष्टाचत्वारिंशता च त्रैंशता दिवसैरिति ॥ २,५.
वैवस्वतपुरं याति कृष्यमाणो यमानुगैः । एवं क्रमेण यातब्ये मार्गे पापरतैस्तु यत् ॥ २,५.
जायते सप्रपञ्चं तच्छृणु त्वमरुणानुज । त्रयोदशदिने दत्तः पाशैर्बद्ध्वातिदारुणैः ॥ २,५.
यमस्याङ्कुशहस्तो वै भृकुटीकुटिलाननः । दण्डप्रहारसम्भ्रान्तः कृष्यते दक्षिणां दिशम् ॥ २,५.
कुशकण्टकवल्मीकशङ्कुपाषाणकर्कशे । तथा प्रदीप्तज्वलने क्वचिच्छ्वभ्रशतोत्कटे ॥ २,५.
प्रदीप्तादित्यतप्ते च दह्यमानः सदंशके । कृष्यते यमदूतैश्च शिवावन्नादभीषणैः ॥ २,५.
प्रयातिः दारुणे मार्गे पापकर्मा यमालये । कलेवरे दह्यमाने महान्तं क्षयमृच्छति ॥ २,५.
भक्ष्यमाणे तथैवाङ्गे भिद्यमाने च दारुणम् । छिद्यमाने चिरतरं जन्तुर्दुः खमवाप्नुते ॥ २,५.
स्वेन कर्मवि पाकेन देहान्तरगतोऽपि सन् । पुराणि षोडशामुष्मन्मार्गे तानि च मे शृणु ॥ २,५.
याम्यं सौरिपुरं नगेद्वभवनं गन्धर्वशैलागमौ क्रौञ्चं क्रूरपुरं विचित्रभवनं बह्वापदं दुः खदम् । नानाक्रन्दपुरं सुतप्तभवनं रौद्रं पयोवर्षणं शीताढ्यं बहुभीतिषोडशपुराण्येतान्यदृष्टनि ते ॥ २,५.
तत्र याम्य पुरं गच्छन्पुत्रपुत्रेति च ब्रुवन् । हाहेति क्रन्दते नित्यं स्वकृतं दुष्कृतं स्मरन् ॥ २,५.
अष्टादशोदिने तार्क्ष्य तत्पुर प्राप्नुयादसौ । पुष्पभद्रा नदी यत्र न्यग्रोधः प्रियदर्शनः ॥ २,५.
विश्रामेच्छां करोत्यत्र कारयन्ति न ते भटाः । क्षितौ दत्तं सुतैस्तस्य स्नेहाद्वा कृपया तथा ॥ २,५.
मासिकं पिण्डमश्नाति ततः सौरिपुरं व्रजेत् । व्रजन्नेवं प्रलपते मुद्गराहतिपीडितः ॥ २,५.
जलाशयो नैव कृतो मया तदा मनुष्यतृप्त्यै पशुपक्षितृप्तय । गोतृप्तिहेतोर्न च गोचरः कृतः शरीर हे निस्तर यत्त्वया कृतम् ॥ २,५.
तत्र नाम्ना तु राजासौ जङ्गमः कामरूपधृक् । भयात्तद्दर्शनाज्जाताद्भुङ्क्ते पिण्डं स शङ्कितः ॥ २,५.
त्रिपक्षे जलसंयुक्तं क्षितौ दत्तं ततो व्रजेत् । व्रजन्नेवं प्रलपते खड्गाघातप्रपीडितः ॥ २,५.
न नित्यदानं न गवाह्निकं कृतं पुस्तं च दत्तं न हि वेदशास्त्रयोः । पुराणदृष्टो न हि सेवितोऽध्वा शरीर हे निस्तर यत्त्वया कृतम् ॥ २,५.
नगेन्द्रनगरं गत्वा भुक्त्वा चान्नं तथाविधम् । मासि द्वितीये यद्दत्तं बान्धवैस्तु ततो व्रजेत् ॥ २,५.