अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते । सपिण्डीकरणेष्वेवं विधिं पक्षीन्द्र मे शृणु ॥ २,५.
एकोद्दिष्टविधानेन कार्यं तदपि काश्यप । तिलगन्धोदकैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥ २,५.
पात्रं प्रेतस्य तत्रैकं पित्र्यं पात्रत्रयं तथा । सेचयेत्पितृपात्रेषु प्रेतपात्रं खग त्रिषु ॥ २,५.
चतुरो निर्वपेत्पिण्डान्पूर्वन्तेषु समापयेत् । ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते ॥ २,५.
ततः पितृत्वमापन्ने तस्मिन्प्रेते खगेश्वर । श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ २,५.
एकचित्यारोहणे च एकाह्नि मरणे तथा । सापिण्ड्यन्तु स्त्रिया नास्ति मृते भर्तुः स्त्रियो भवेत् ॥ २,५.
पाकैक्यमथ कालैक्यं कर्त्रैक्यञ्च भवेत्खग । श्राद्धादौ सह दाहे च पतिपत्न्योर्न संशयः ॥ २,५.
भर्तुर्मृततिथेरन्यतिथौ चितिमथारुहेत् । तांमृताहनि तु सम्प्राप्ते पृथक्पिण्डेन योजयेत् ॥ २,५.
प्रत्यब्दञ्च युगपत्तु समापयेत् ॥ २,५.
यस्य संवत्सरादर्वाक्सपिण्डीकरणं भवेत् । मासिकञ्चोदकुम्भञ्च देयं तस्यापि वत्सरम् ॥ २,५.
नवश्राद्धं सपिण्डत्वं श्राद्धान्यपि च षोडश । एकेनैव तु कार्याणि संविभक्तधनेष्वपि ॥ २,५.
पितामहीभिः सापिण्ड्यं तथा मातामहैः सह । उक्तं भर्त्रापि सापिण्ड्यं स्त्रिया वेषयभेदतः ॥ २,५.
नवश्राद्धस्य ते कालं वक्ष्यामि शृणु काश्यप । मरणाह्नि मृतिस्थाने श्राद्धं पक्षिन्प्रकल्पयेत् ॥ २,५.
द्वितीयञ्च ततो मार्गे विश्रामो यत्र कारितः । ततः सञ्चयनस्थाने तृतीयं श्राद्धमुच्यते ॥ २,५.
पञ्चमे सप्तमे तद्वदष्टमे नवमे तथा । दशमैकादशे चैव नव श्राद्धानि वै खग ॥ २,५.
श्राद्धानि नव चैतानि तृतीया षोडशी स्मृता । एकोद्दिष्टविधानेन कार्याणि मनुजैस्तथा ॥ २,५.
प्रथमेऽह्नि तृतीये वा पञ्चमे सप्तमे तथा । नवमैकादशे चैव नवश्राद्धं प्रकीर्तितम् ॥ २,५.
उच्यन्ते षडिमानीह नव स्युरपि यागेतः । उक्तानि ते मया तानि ऋषीणां मतभेदतः ॥ २,५.
रूढिपक्षो ममाभीष्टो योगः कैश्चिदिहेष्यते । आद्ये द्वितीये दातव्यस्तथैवैकं पवित्रकम् ॥ २,५.
प्रेताय पिण्डो दातव्यो भुक्तवत्सु द्विजातिषु । प्रश्रस्तत्राभिरण्येति यजमानद्विजन्मना ॥ २,५.
अक्षय्यममुकस्येति वक्तव्यं विरतौ तथा । एकोद्दिष्टं मे निबोध चेत्थमावत्सरं स्मृतम् ॥ २,५.
सपिण्डीकरणादूर्ध्वं यानि श्राद्धानि षोडश । एकोद्दिष्टविधानेन चरेद्वा पार्वणादृते ॥ २,५.
प्रत्यब्दं यो यथा कुर्यात्तथा कुर्यात्स तान्यपि । एकादशे द्वादशेऽह्नि प्रेतो भुङ्क्ते दिनद्वयम् ॥ २,५.
योषितः पुरुषस्यापि पिण्डं प्रेतेति निर्वपेत् । सापिण्ड्ये तु कृते तस्य प्रेतशब्दो निवर्तते ॥ २,५.
दीपदानं प्रकर्तव्यमावर्षन्तु गृहाद्बहिः । अन्नं दीपो जलं वस्त्रमन्यद्वादीयते च यत् ॥ २,५.
तृप्तिदं प्रेतशब्देन सपिण्डीकरणावधि । अब्दकृत्यं मयोक्तन्ते समासाद्विनतासुत ॥ २,५.
वैवस्वतगृहे यानं यथा तत्तु निबोधमेः । त्रयोदशेऽह्नि श्रवणाकर्मणोनन्तरन्तु सः ॥ २,५.
त्वग्गृहीताहिवत्तार्क्ष्य गृहीतो यमकिङ्करैः । तस्मिन्मार्गे व्रजत्येको गृहीत इव मर्कटः ॥ २,५.
वाय्वग्रसारिवद्रूपं देहमन्यत्प्रपद्यते । तत्पिण्डजं पातनार्थमन्यत्तु पितृसम्भवम् ॥ २,५.
तत्प्रमाणवयोऽवस्थासंस्थानां प्रग्भवो यथा । षडशीति सहस्राणि योजनानां प्रमाणतः ॥ २,५.