द्वितीयेन तु कर्णाक्षिनासिकं तु समासतः । गलांसभुजवक्षश्च तृतीयेन तथा क्रमात् ॥ २,५.
चतुर्थेन च पिण्डेन नाभिलिङ्गगुदं तथा । जानुजङ्घं तथा पादौ पञ्चमेन तु सर्वदा ॥ २,५.
सर्वमर्माणि षष्ठेन सप्तमेन तु नाडयः । दन्तलोमान्यष्टमेन वीर्यन्तु नवमेन च ॥ २,५.
दशमेन तु पूर्णत्वं तृप्तता क्षुद्विपर्ययः । मध्यमां षोडशीं वच्मि वैनतेय शृणुष्व मे ॥ २,५.
विष्णवादिविष्णुपर्यन्तान्येकादश तथा खग । श्राद्धानि पञ्च देवानामित्येषां मध्यषोडशी ॥ २,५.३८ निमित्तं दुर्मतिं कृत्वा यदि नारायणो बलिः । एकादशाहे कर्तव्यो वृषोत्सर्गोऽपि तत्र वै ॥ २,५.
एकादशाहे प्रेतस्य यस्योत्सृज्येत नो वृषः । प्रेतत्वं सुस्थिरं तस्य दत्तैः श्राद्धशतैरपि ॥ २,५.
अकृत्वा यद्वृषोत्सर्गं कृतं वै पिण्डपातनम् । निष्फलं सकलं विद्यात्प्रमीताय न तद्भवेत् ॥ २,५.
वृषोत्सर्गादृते नान्यत्किञ्चिदस्ति महीतले । पुत्रः पत्न्यथ दौहित्रः पिता वा दुहिताथ वा ॥ २,५.
मृतादनन्तरं तस्य ध्रुवं कार्यो वृषोत्सवः । चतुर्वत्सतरीयुक्तो यस्योत्सृज्येत वा वृषः ॥ २,५.
अलङ्कृतो विधानेन प्रेतत्वं तस्य नो भवेत् । एकादशेऽह्नि सम्प्राप्ते वृषालाभो भवेद्यदि ॥ २,५.
दर्भैः पिष्टैस्तु सम्पाद्य तं वृषं मोचयेद्वुधः । वृषोत्सर्जनवेलायां वृषाभाव (लाभ) कथञ्चन ॥ २,५.
मृत्तिकाभिस्तु दर्भैर्वा वृषं कृत्वा विमोचयेत् । यदिष्टं जीवतस्तस्य दद्यादेकादशेऽहनि ॥ २,५.
मृतमुद्दिश्य दातव्यं शय्याधेन्वादिकं तथा । विप्रान्बहून् भोजयीत प्रेतस्य क्षुद्विशान्तये ॥ २,५.
तृतीयां षोडशीं वच्मि वैनतेय शृणुष्व ताम् । द्वादश प्रतिमास्यानि आद्यं षाण्मासिकं तथा ॥ २,५.
सपिण्डीकरणं चैव तृतीया षोडशी मता । द्वादशाहे त्रिपक्षे च षण्मासे मासिकेऽब्दिके ॥ २,५.
तृतीयां षोडशीमेनां वदन्ति मतभेदतः । यस्यैतानि न दत्तानि प्रेतश्राद्धानि षोडश ॥ २,५.
पिशाचत्वं स्थिरं तस्य दत्तैः श्राद्धशतैरपि । एकादशे द्वादशे वा दिने आद्यं प्रकीर्तितम् ॥ २,५.
मासादौ प्रतिमासञ्च शुद्धं मृततिथौ खग । एकेनाह्ना त्रिभिर्वापि हीनेषु विनतासुत ॥ २,५.
मासषण्मासवर्षेषु त्रिपक्षेषु भवन्ति हि । श्राद्धान्यथस्यात्सापिण्ड्यं पूर्णे वर्षे तदर्धके ॥ २,५.
त्रिपक्षेऽभ्युदये वापि द्वादशाहेऽथ वा नृणाम् । आनन्त्यात्कुलधर्माणां पुंसाञ्चैवायुषः क्षयात् ॥ २,५.
अस्थिरत्वाच्छरीरस्य द्वादशाहे प्रशस्यते । सपिण्डीकरणेष्वेवं विधिं पक्षीन्द्र मे शृणु ॥ २,५.
एकोद्दिष्टविधानेन कार्यं तदपि काश्यप । तिलगन्धोदकैर्युक्तं कुर्यात्पात्रचतुष्टयम् ॥ २,५.
पात्रं प्रेतस्य तत्रैकं पित्र्यं पात्रत्रयं तथा । सेचयेत्पितृपात्रेषु प्रेतपात्रं खग त्रिषु ॥ २,५.
चतुरो निर्वपेत्पिण्डान्पूर्वन्तेषु समापयेत् । ततः प्रभृति वै प्रेतः पितृसामान्यमश्नुते ॥ २,५.
ततः पितृत्वमापन्ने तस्मिन्प्रेते खगेश्वर । श्राद्धधर्मैरशेषैस्तु तत्पूर्वानर्चयेत्पितॄन् ॥ २,५.
एकचित्यारोहणे च एकाह्नि मरणे तथा । सापिण्ड्यन्तु स्त्रिया नास्ति मृते भर्तुः स्त्रियो भवेत् ॥ २,५.
पाकैक्यमथ कालैक्यं कर्त्रैक्यञ्च भवेत्खग । श्राद्धादौ सह दाहे च पतिपत्न्योर्न संशयः ॥ २,५.
भर्तुर्मृततिथेरन्यतिथौ चितिमथारुहेत् । तांमृताहनि तु सम्प्राप्ते पृथक्पिण्डेन योजयेत् ॥ २,५.
प्रत्यब्दञ्च युगपत्तु समापयेत् ॥ २,५.
यस्य संवत्सरादर्वाक्सपिण्डीकरणं भवेत् । मासिकञ्चोदकुम्भञ्च देयं तस्यापि वत्सरम् ॥ २,५.