क्रीतलब्धाशनाः सर्वे स्वपेयुस्ते पृथक्पृथक् । अक्षारलवणान्नाः स्युर्निमज्जेयुश्च ते त्र्यहम् ॥ २,५.
अमांसभोजनाश्चाधः शयीरन्ब्रह्मचारिणः । परस्परं न संस्पृष्टा दानाध्ययनवर्जिताः ॥ २,५.
मलिनाश्चाधोमुखाश्च दीना भोगविवर्जिताः । अङ्गसंवाहनं केशमार्जनं वर्जयन्ति ते ॥ २,५.
मृन्मये पत्रजे वापि भुञ्जीरंस्ते च भाजने । उवासन्तु ते कुर्युरेकाहमथ वा त्र्यहम् ॥ २,५.
गरुड उवाच । आशौचिन इति प्रोक्तमाशौचस्य च वै प्रभो । लक्षणं किं कियत्कालं भाव्यं वा तद्युतैर्नरैः ॥ २,५.
श्रीकृष्ण उवाच । अपनोद्यन्त्विदं कालादिभिराशु निषेधकृत् । पिण्डाध्ययनदानादेः पुङ्गतोऽतिशयो हि तत् ॥ २,५.
दशाहं शावमाशौचं सपिण्डेषु विधीयते । जननेऽप्येवमेव स्यान्निपुणं शुद्धिमिच्छताम् ॥ २,५.
जन्मन्येकोदकानान्तुत्रिरात्राच्छुद्धिरिष्यते । शावस्य शेषाच्छुध्यन्ति त्र्यहादुदकदायिनः ॥ २,५.
आदन्तजननत्सद्य आ चौलान्नैशिकी स्मृता । त्रिरात्रमा व्रतादेशाद्दशरात्रमतः परम् ॥ २,५.
आशौचं ते समाख्यातं संक्षेपात्प्रकृतं ब्रुवे । जलं त्रिदिवमाकाशे स्थाप्यं क्षीरञ्च मृन्मये ॥ २,५.
अत्र स्नाहि पिबात्रेति मन्त्रेणानेन काश्यप । काष्ठत्रये गुणैर्बद्धे प्रीत्यै रात्रौ चतुष्पथे ॥ २,५.
प्रथमेऽह्नि तृतीये वा सप्तमे नवमे तथा । अस्थिसंचयनं कार्यं दिने तद्गोत्रजैः सह ॥ २,५.
तदूर्ध्वमङ्गसंस्पर्शः सपिण्डानां विधीयते । योग्याः सर्वक्रियाणां च समानसलिलास्तथा ॥ २,५.
प्रेतपिण्डं बहिर्दद्याद्दर्भमात्रविवर्जितम् । प्रागुदीच्यां चरुं कृत्वा स्नात्वा प्रयतमानसः ॥ २,५.
भूमावसंस्कृतानां च संस्कृतानां कुशेषु च । नवभिर्दिवसैः पिण्डान्नव दद्यात्समाहितः ॥ २,५.
दशमं पिण्डमुत्सृज्य रात्रिशेषे शुचिर्भवेत् । असगोत्रः सगोत्रो वा यदि स्त्री यति वा पुमान् ॥ २,५.
प्रथमेऽहनि यो दद्यात्स दशाहं समापयेत् । शालिना सक्तुभिर्वापि शाकैर्वाप्यथ निर्वपेत् ॥ २,५.
प्रथमेऽहनि यद्द्रव्यं तदेव स्याद्दशाहिकम् । यावदाशौचमेकैकस्याञ्जलेर्दानमुच्यते ॥ २,५.
यद्वा यस्मिन्दिने दानं तस्मिंस्तद्दिनसंख्यया । दशाहेऽञ्जलयः पक्षिन्पञ्चाशदन्तिमे ॥ २,५.
द्विवृद्ध्या वा भवेत्पक्षिन्नञ्जलीनां शतं पुनः । यदा हि त्र्यहमाशौचं तदा वाञ्जलयो दश ॥ २,५.
त्रयोऽञ्जलय एवं तु प्रथमेऽहनि वै तदा । चत्वारस्तु द्वितीयेऽह्नि तृतीये स्युस्त्रयस्तथा ॥ २,५.
शताञ्जलि यदा पक्षिन्नाद्ये त्रिंशत्तदाहनि । चत्वारिंशद्द्वितीयेऽह्नि त्रिंशदह्नि तृतीयके ॥ २,५.
एवं जलस्याञ्जलयो विभाज्याः पक्षयोर्द्वयोः । सर्वेषु पितृकार्येषु पुत्रो मुख्योऽधिकारवान् ॥ २,५.
पिण्डप्रसेकस्तूष्णीञ्च पुष्पधूपादिकं तथा । दशमेऽहनि सम्प्राप्ते स्नानं ग्रामाद्बहिश्चरेत् ॥ २,५.
तत्र त्याज्यानि वासांसि केशश्मश्रुनखानि च । विप्रः शुध्यत्यपः स्पृष्ट्वा क्षत्त्रियो वाहनं तथा ॥ २,५.
वैश्यः प्रतोदं रश्मीन्वा शूद्रो यष्टिं कृतक्रियः । मृतादल्पवयोभिश्च सपिण्डैः परिवापनम् ॥ २,५.
कार्यन्तु षोडशी षड्भिः पिण्डैर्दशभिरैव च । प्रथमा मलिना ह्येतैरादशाहं मृतेर्भवेत् ॥ २,५.
दिनानि दश यान्पिण्डान्कुर्वन्त्यत्र सुतादयः । प्रत्यहं ते विभज्यन्ते चतुर्भागैः खगोत्तम ॥ २,५.
भागद्वयेन देहः स्यात्तृतीयेन यमानुगाः । तृप्यन्ति हि चतुर्थेन स्वयमप्युपजीवति ॥ २,५.
अहोरात्रैस्तु नवभिर्देहो निष्पत्तिमाप्नुयात् । शिरस्त्वाद्येन पिण्डेन प्रेतस्य क्रियते तथा ॥ २,५.