मतिपूर्वममत्या च क्रमात्तनिष्कृतिं शृणु । कृत्वाग्निमुदकं स्नानं स्पर्शनं वहनं कथाम्
रज्जुच्छेदाश्रुपातञ्च तप्तकृच्छ्रेण शुध्यति । एषामन्यतमं प्रेतं यो वहेत्तु देहत वा
कटोदकक्रियां कृत्वा कृच्छ्र सान्तपनं चरेत् । निमित्ते लघुनि स्वल्पं महन्महति कल्पयेत्
गरुड उवाच । कृच्छ्रस्य तप्तकृच्छ्रस्य तथा सान्तपनस्य च । लक्षणं ब्रूहि मे स्वामिंस्त्रयाणामपि सुव्रत
श्रीकृष्ण उवाच । त्र्यहं प्रातस्त्र्यहं सायं त्र्यहमद्यादयाचितम् । उपवासस्त्र्यहञ्चैव एष कृच्छ्र उदाहृतः
तप्तक्षीरघृताम्बूनामेकैकं प्रत्यहं पिबेत् । एकरात्रोपवासश्च तप्तकृच्छ्र उदाहृतः
गोमूत्रं गोमयं क्षीरं दधि सर्पिः कुशोदकम् । जग्ध्वा परेऽह्न्युपवसेत्कृच्छ्रं सान्तपनञ्चरन्
मया तेऽयं समाख्यातो दुर्मृतस्य विधिः खग । तदा मृतं विजानीयाद्दीपनिर्वाणमागतः
अग्निदाहं ततः कुर्यात्सूतकञ्च दिनत्रयम् । दशाहं गर्तपिणाडञ्च कर्तव्यं प्रेतपूर्वकम्
एवं विधिं ततः कुर्यात्ततः प्रेतश्च मुक्तिभाक् । मृतभ्रान्त्या प्रतिकृतेः कृते दाहे स वै यदि
आयाति तेन कर्तव्यं मज्जनं घृकुण्डके । जातकर्मादिसंस्काराः कर्तव्याः पुनरेव तु
ऊढामेव स्वकां भार्यामुद्वहेद्विधिवत्पुमान् । वर्षे पञ्चदशे पक्षिन् द्वादशे वा गते सति
अज्ञातस्य प्रोषितस्य कृत्वा प्रतिकृतिं दहेत् । रजस्वलासूतिकयोर्विशेषं मरणे शृणु
सूतिकायां मृतायान्तु एवं कुर्वन्ति याज्ञिकाः । कुम्भे सलिलमादाय पञ्चगव्यं तथैव च
पुण्याभिरभिमन्त्र्यापो वाचा शुद्धिं लभेत्ततः । शतसूर्पोदकेनादौ स्नापयित्वा यथाविधि
तेनैव स्नापयित्वा तु दाहं कुर्यात्स्वगेश्वर । पञ्चभिः स्नापयित्वा तु गव्यैः प्रेतां रजस्वलाम्
वस्त्रान्तराकृतिं कृत्वा दाहयेद्विधिपूर्वकम् । मृतस्य पञ्चके दाहविधिं वच्मि शृणुष्व मे
आदौ कृत्वा धनिष्ठार्धमेतन्नक्षत्रपञ्चकम् । रेवत्यन्तं सदा दूष्यमशुभं सर्वदा भवेत्
दाहस्तत्र न कर्तव्यो विषादः सर्वजन्तुषु । न जलं दीयते तेषु अशुभं सर्वदा भवेत्
पञ्चकानन्तरं सर्वं कार्यं कर्तव्यमन्यथा । पुत्त्राणां गोत्रिणां तस्य सन्तापोऽप्युपजायते
गृहे हानिर्भवत्येव ऋक्षेष्वेषु मृतस्य च । अथ वा ऋक्षमद्ये च दाहस्तु विधिपूर्वकः
क्रियते मानुषाणान्तु स वा आहुतिपूर्वकः । विप्रैर्विधिरतः कार्यो मन्त्रैस्तु विधिपूर्वकम्
शवस्थानसमीपे तु क्षेप्तव्याः पुत्तलास्ततः । दर्भकॢप्तास्तु चत्वार ऋक्षमन्त्राभिमन्त्रिताः
ततो दाहः प्रकर्तव्यस्तैश्च पुत्तलकैः सह । सूतकान्ते तदा पुत्त्रैः कार्यं शान्तिकपौष्टिकम्
पञ्चकेषु मृतो योऽसौ न सतिं लभते नरः । तिलान् गाञ्च सुवर्णञ्च तमुद्दिश्य घृतं ददेत्
विप्राणां दापयेद्दानं सर्वविघ्नविनाशनम् । भोजनोपानहौच्छत्त्रं हेममुद्रा च वाससी
दक्षिणा दीयते विप्रे पातकस्य प्रमोचनः । मयातेऽयं समाख्यातो विधिः पञ्चहरः स्थितः । संयमिन्यां यथायानं यथावर्षं मृतक्रिया
श्रीगरुडमहापुराणम् ५ श्रीकृष्ण उवाच । एवं दग्ध्वा नरं प्रेतं स्नात्वा कृत्वा तिलोदकम् । अग्रतः स्त्रीजनो गच्छेद्व्रजेयुः पृष्ठतो नराः ॥ २,५.
प्राशयेन्निम्बपत्राणि रुदन्तो नामपूर्वकम् । विधातव्यं चाचमनं पाषाणोपरि संस्थिते ॥ २,५.
ते प्रविश्य गृहं सर्वे सुताद्याश्च सपिण्डकाः । भवेयुर्दशरात्रं वै यत आशौचकं खग ॥ २,५.