शङ्खचक्रगदापद्मं मुसलं शार्ङ्गमर्चयेत् 28.
मुकुटं वलमालां च ऐंद्राद्यान्ध्वजमुख्यकान् जप्याद्ध्यानात्पूजनाच्च सर्वान्कामानवान्पुयात्
त्रैलोक्यमोहिनीं वक्ष्ये पुरुषोत्तममुख्यकाम् 29.
ॐ ह्रीं श्रीं क्लीं ह्रूं ॐ नमः 29.
ॐ श्रीं (श्रीः) श्रीधराय त्रैलोक्यमोहनाय नमः 29.
ॐ विष्णवे त्रैलोक्यमोहनाय नमः 29.
त्रैलोक्यमोहना मंत्राः सर्वे सर्वार्थसाधकाः 29.
आसनं मूर्त्तिमंत्रं च होमाद्यंगषडंगकम् 29.
शरं पाशं चांकुशं च लक्ष्मीगरुडसंयुतम् 29.
इति श्रीगारुडे महापुराणे पूर्वखंडे प्रथमांशाख्ये आचारकाण्डे त्रैलोक्यमोहिनी(श्रीधर) पूजनविधिर्नामैकोनत्रिंशोऽध्यायः
विस्तरेण प्रवक्ष्यामि श्रीधरस्यार्चनं शुभम् 30.
ॐ श्रां हृदयाय नमः ॐ श्रू शिखायै वषटू ॐ श्रौं नेत्रत्रयाय वौषट् 30.
दर्शयेदात्मनो मुद्रां शङ्खचक्रगदादिकाम् 30.
ततस्तं पूजयेद्देवं मण्डले स्वस्तिकादिके एभिर्मन्त्रैर्महादेव तान्मत्राञ्छृणु शङ्कर ।। 30.
ॐ श्रीधरासनदेवताः आगच्छता 30.
ॐ धात्रे नमः ॐ गङ्गायै नमः ॐ आधारशक्तयै नमः ॐ अनन्ताय नमः ॐ धर्म्माय नमः ॐ वैराग्याय नमः ॐ अधर्म्माय नमः ॐ अवैराग्याय नमः ॐ कन्दाय नमः ॐ पद्माय नमः ॐ उत्कर्षिण्यै नमः ॐ क्रियायै नमः ॐ प्रह्व्यै नमः ॐ ईशानायै नमः 30.
अर्चयित्वा समं रुद्र हरिमावाह्य संयजेत् 30.
ॐ ह्रीं श्रीधराय त्रैलोक्यमोहनाय विष्णवे नमः आगच्छ ।। 30.
ॐ श्रियै नमः ॐ श्रीं शिरसे नमः ॐ श्रैं कवचाय नमः ॐ श्रः अस्त्राय नमः ॐ पद्माय नमः ॐ गदायै नमः ॐ कौस्तुभ्यै नमः ॐ पीताम्बराय नमः ॐ नारदाय नमः ॐ इन्द्राय नमः ॐ यमाय नमः ॐ वरुणाय नमः ॐ सोमाय नमः ॐ अनन्ताय नमः ॐ सत्त्वाय नमः ॐ तमसे नमः 30.
अभिषेकं तथा वस्त्रं ततो यज्ञोपवीतकम् 30.
दद्यादेभिर्महामन्त्रैः समप्यार्थ जपेन्मनुम् 30.
ततो मुहूर्त्तमेकन्तुध्यायेद्देवं हृदि स्थितम् 30.
प्रसन्नवदनं सौम्यं स्फुरन्मकरकुण्डलम् 30.
परब्रह्मस्वरूपं च श्रीधरं चिन्तयेत्सुधीः 30.
श्रीनिवासाय देवाय नमः श्रीपतये नमः 30.
श्रीवल्लभाय शान्ताय श्रीमते च नमोनमः 30.
श्रेयसां पतये चैव ह्याश्रमाय नमोनमः 30.
शरण्याय वरेण्याय नमो भूयो नमोनमः 30.
इति रुद्रं समाख्यातां पूजां विष्णोर्महात्मनः 30.
यः पठतेऽध्यायं विष्णुपूजाप्रकाशकम् 30.