शङ्खे वा ताम्रपात्रे वा अलाभे मृन्मये पि वा । तिलोदकं समादाय सर्वोषधिमसन्वितम्
ताम्रपात्रं तिलैः पूर्णं सहिरण्यं सदक्षिणम् । दद्याद्ब्राह्मणमुख्याय पददानं तथैच
यमोद्देशेतिलांल्लौहं ततो दद्याच्च दक्षिणाम् । एवं विष्णुबलिं दत्त्वा यथाशक्त्या विधानतः
समुद्धरति तत्क्षिप्रं नात्र कार्या विचारण नागदंशान्मृतो यस्तु विशेषस्तन्तु मे शृणु
सुवर्णभारनिष्पन्नं नागं कृत्वा तथैव गाम् । विप्राय दत्त्वा विधिवत्पितुरानृण्यमाप्नुयात्
एवं सर्पबलिं दत्त्वा सर्पदोषाद्विमुच्यते । पश्चात्पुत्तलकं कार्यं सर्वोषधिसमन्वितम्
पलाशस्य च वृन्तानां विभागं शृणु काश्यप । कृष्णाजिनं समास्तीर्य कुशैश्च पुरुषाकृतिम्
शतत्रयेण षष्ट्या च वृन्तैः प्रोक्तोऽस्थिसञ्चयः । विन्यस्य तानि वृन्तानि अङ्गेष्वेषु पृथक्पृथक्
चत्वारिंशच्छिरोभागे ग्रीवायां दश विन्यसेत् । विंशत्युरः स्थले दद्याद्विंशतिञ्जठरे तथा
बाहुद्वये शतं दद्यात्कटिदेशे च विंशतिम् । ऊरुद्वये शतञ्चापि त्रिंशज्जङ्घाद्वये न्यसेत्
दद्याच्चतुष्टयं शिश्ने षड्दद्याद्वृषाणद्वये । दश पादाङ्गुलीभागे एवमस्थीनि विन्यसेत्
नारिकेलं शिरः स्थानें तुम्बं दद्याच्च तालुके । पञ्चरत्नं मुखे दद्याज्जिह्वायां कदलीफलम्
अन्त्रेषु नालिकं तद्याद्वालुकाङ्घ्राणे एव च । वसायां मृत्तिकां दद्याद्धरितालमनः शिलाः
पारदं रेतसः स्थाने पुरीषे पित्तलं तथा । मनः शिला तथा गात्रे तिलपक्वन्तु सन्धिषु
यवपिष्टं यथा मांसे मधु शोणितमेव च । केशेषु च जटाजूटं त्वचायाञ्च मृगत्वचम्
कर्णयोस्तालपत्रञ्च स्तनयोश्चैव गुञ्जिकाः । नासायां शतपत्रञ्च कमलं नाभिमण्डले
वृन्ताकं वृषणद्वन्द्वे लिङ्गे स्याद्गृञ्जनं शुभम् । घृतं नाभ्यां प्रदेयं स्यात्कौ पीने च त्रपुस्मृतम्
मौक्तिकं स्तनयोर्मूर्ध्नि कुङ्कुमेव विलेपनम् । कर्पूरागुरुधूपैश्च शुभैर्माल्यैः सुगन्धिभिः
परिधानं पट्टसूत्रंहृदये चैव विन्यसेत् । ऋद्धिवृद्धी भुजौ द्वौ च चक्षुर्भ्याञ्च कपर्दकम्
दन्तेषु दाडिमीबीजान्यङ्गुलीषु च चम्पकम् । सिन्दूरं नेत्रकोणे च ताम्बूलाद्युपहारकम्
सर्वौषदियुतं प्रेतं कृत्वा पूजां यथोदिताम् । साग्निके चापि विधिना यज्ञपात्रं न्यस्येत्क्रमात्
स्त्रियः पुनन्तु म शिर इमं मे वरुणेन च । प्रेतस्य पावनं कृत्वा शालग्रामशिलोदकैः
विष्णुमुद्दिश्य दातव्या सुशीला गौः पयस्विनी । तिला लौहं हिरण्यञ्च कर्पासं लवणं तथा
सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम् । तिलपात्रं ततो दद्यात्पददानं तथैव च
कर्तव्यं वैष्णवं श्राद्धं प्रेतमुक्त्यर्थमात्मनः । प्रेतमोक्षं ततः कुर्याद्धृदि विष्णुं प्रकल्प्यच
एवं पुत्तलकं कृत्वा दाहयेद्विधिपूर्वकम् । तच्छ्रुद्धये तु संस्कर्ता पुत्रादिर्निष्कृतिं चरेत्
त्रीन्कृच्छ्रान्षड्द्वादश च तथा पञ्चदशापि च । प्रायश्चित्तनिमित्तानुसारेण विप्रवत्स्मृतः
अशक्तौ गोहिरण्यादि प्रत्याम्नायं चरेदपि । आत्मनोऽनधिकारित्वे शुद्धिमेवं चरेद्वुन्धः
अशुद्धेन तु यद्दत्तमुद्दिश्याशुद्धिमेव च । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति
शुद्धिं सम्पाद्य कर्तव्यं दहनाद्यौर्ध्वदेहिकम् । अकृत्वा निष्कृतिं यस्तु कुरुते दहनादिकम्