पृथक्चितां समारुह्य न प्रिया गन्तुमर्हति । क्षत्त्रियाद्याः सवर्णाश्च आरोहेयुरपीह ताः
चाण्डालीमवधिं कृत्वा ब्राह्मणीतः समो विधिः । अगर्भिणीनां सर्वासामबालताक्मे(का)नामपि
दहनस्य विधिः प्रोक्तः सामान्येन मया खग । विशेषमपि तस्यास्य कञ्चित्किं श्रोतुमिच्छति
गरुड उवाच । प्रोषिते तु मृते स्वामिन्यस्थ्निनाशमुपेयुषि । कथं दाहः प्रकर्तव्यस्तन्मे वद जगत्पते
श्रीकृष्ण उवाच । अस्थीनि चेन्न लभ्यन्ते प्रोषितस्य नरस्य च । तेषाञ्च हि गतिस्थानं विधानं कथयाम्यहम्
शृणु तार्क्ष्य परं गोप्यं पत्युर्दुर्मरणेषु यत् । लङ्घनैर्ये मृता जीवां दंष्ट्रिभिश्चाभिघातिताः
कण्ठग्रहे विलग्नानां क्षीणानां तुण्डघातिनाम् । विषाग्निवृषविप्रेभ्यो विषूच्या चात्मघातकाः
पतनोद्बन्धनजलैर्मृतानां शृणु संस्थितिम् । सर्पव्याघ्रैः शृङ्गिभिश्च उपसर्गोपलोदकैः
ब्राह्मणैः श्वापदैश्चैव पतनैर्वृक्षवैद्युतैः । नखैर्लोहैर्गिरेः पातैर्भित्तिपातैर्भृगोस्तथा
कट्वायामन्तरिक्षे च चौरचाण्डालतस्तथा । उदक्याशुनकीशूद्ररजकादिविभूषिताः
ऊर्ध्वोचछिष्टाधरोच्छिष्टोभयोच्छिष्टास्तु ये मृताः । शस्त्रघातैर्मृता ये चास्यश्वस्पृष्टास्तथैव च
तत्तु दुर्मरणं ज्ञेयं यच्च जातं विधैं विना । तेन पापेन नरकान् भुक्त्वा प्रेतत्वभागिनः
न तेषां कारयेद्दाहं सूतकं नोदकक्रियाम् । न विधानं मृताद्यञ्च न कुर्या दौर्ध्वदैहिकम्
न पिण्डदानं कर्तव्यं प्रमादाच्चेत्करोति हि । नोपतिष्ठति तत्सर्वमन्तरिक्षे विनश्यति
अतस्तस्य सुतैः पौत्त्रैः सपिण्डैः शुभमिच्छुभिः । नारायणबलिः कार्यो लोकगर्हाभिया खग
तथा तेषां भवेच्छौचं नान्यथेत्यब्रवीद्यमः । कृते नारायणबलावौर्ध्वदेहिकयोग्यता
तस्य सुद्धिकरं कर्म तद्भवेन्न तदन्यथा । नारायणबलिं सम्यक्तीर्थे सर्वं प्रक्पयेत्
कृष्णाग्रे कारयेद्बिप्रैर्येन पूतो भवेन्नरः । पूर्वन्तु तर्पणं कार्यं विप्रैः पौराणवैदिकैः
सर्वौषध्यक्षतैर्मिश्रैर्विष्णुमुद्दिश्य तर्पयेत् । कार्यं पुरुषसूक्तेन मन्त्रैर्वा वैष्णवैरपि
दक्षिणाभिमुखो भूत्वा प्रेतं विष्णुमिति स्मरन् । अनादिनिधनो देवः शङ्खचक्रगदाधरः
अक्षयः पुण्डरीकाक्षः प्रेतमोक्षप्रदो भव । तर्पणस्यावसाने स्याद्वीतरागो विमत्सरः
जितेन्द्रियमना भूत्वा शुचिष्मान्धर्मतत्परः । भक्त्या तत्र प्रकुर्वीत श्राद्धान्येकादशैव तु
सर्वकर्मविधाने एकैकाग्रे समाहितः । तोयव्रीहियवान्दद्याद्गोधूमांश्च प्रियङ्गवः
हविष्यान्नं शुभं मुद्रां छत्रोष्णीषे च दापयेत् । दापयेत्सर्वसंस्यानि क्षीरं क्षौद्रसमान्वितम्
वस्त्रोपानहसंयुक्तं दद्यादष्टविधं पदम् । द्पयेत्सर्वपापेभ्यो न कुर्यात्पङ्क्तिवञ्चनम्
भूमौ स्थितेषु पिण्डेषु गन्धपुष्पाक्षतान्वितम् । दातव्यं सर्वंविप्रेभ्यो वेदशास्त्रविधानतः
शङ्खे खड्गेऽथ वा ताम्रे तर्पणञ्च पृथक्पृथक् । ध्यानधारणसंयुक्तो जानुभ्यामवनीं गतः
ऋचा वै दापयेदर्घमर्घोद्दिष्टं पृथक्पृथक् । ब्रह्मा विष्णुश्च रुद्रश्च यमः प्रेतश्च पञ्चमः
पृथक्कुम्भे ततः स्थाप्याः पञ्चरत्नसमन्विताः । वस्त्रयज्ञोपवीतानि पृथङ्मुद्गाः पदानि च
पञ्च श्राद्धानि कुर्वीत देवतानां यथाविधि । जलधारां ततः कुर्यात्पिण्डेपिण्डे पृथक्पृथक्