प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग । ततः प्रदक्षिणं कृक्त्वा चिताप्रस्थानवीक्षकाः
कनिष्ठपूर्वाः स्नानार्थं गच्छेयुः सूक्तजापकाः । ततो जालसमीपे तु गत्वा प्रक्षाल्य चांशुकम्
परिधाय पुनस्तच्च ब्रृयुस्तं पुरुषं प्रति । उदकं तु करिष्यामः सचैलं पुरुषास्ततः
कुरुध्वमित्येव वदेच्छतवर्षावरे मृते । पुत्राद्या वृद्धपूर्वास्ते एकवस्त्राः शिखां विना
प्राचीनावीतिनः सर्वे विशेयुर्मौनिनो जलम् । अपनः शोशुचदघमनेन पितृदिङ्मुखाः
जलावघट्टनं चव न कुर्युः स्नानकारकाः । ततस्तटे समागत्य शिखां बद्ध्वा ऋजून् कुशान्
दक्षिणाग्रहस्तयोस्तु कृत्वाथ सतिलं जलम् । आदायाञ्जलिना याम्यां दुः खी पैतृकतीर्थतः
एकवारं त्रिवारं वा दशवारमथापि वा । भूमावश्मनि वा सर्वे क्षिपेयुर्वाग्यताः खग
तृप्यन्तु तृप्यतां वापि तर्पयाम्युपतिष्ठताम् । प्रेतैतदमुकगोत्रेत्युक्तेष्वेवं समुच्चरेत्
जलाञ्जलौ कृते पश्चाद्विधेयं दन्तधावनम् । त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप
तत उत्तीर्योदकाद्वै वस्त्राणि परिधाय च । स्नानवस्त्रं सकृत्पीड्य विशेयुः शुचिभूतले
अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम् । श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः । ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः
शोकापनोदं कुर्वीत संसारानित्यतां ब्रुवन् । मानुष्ये कदलीस्तन्भे असारे सारमार्गणम्
करोति यः स संमूढो जलबुद्वद्रसन्निभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । एवं संश्रावयेत्तत्र मृदुशाद्वलसंस्थितान्
तेऽयि संश्रुत्य गच्छेयुर्गृहं बालपुरः सराः । विदश्य र्निबपत्राणि नियता द्वारि वेश्मनः
आचम्य वह्निसलिलं गोमयं गौरसर्षपान् । दूर्वाप्रवालं वृषभमन्यदप्यथ मङ्गलम्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः । श्रौतेन तु विधानेन आहिताग्निं देहद्वधः
ऊनद्विवर्षं निखनेन्न कुर्यादुदकं ततः । योषित्पतिव्रता या स्याद्भर्तारं यानुगच्छति
प्रयोग पूर्वं भर्तारं नमस्कृत्यारुहेच्चितिम् । चितिभ्रष्टा तु या मोहात्सा प्राजापत्यमाचरेत्
तिस्रः कोट्योर्धकोटी य यानि लोमानि मानुषे । तावत्कालं वसेत्स्वर्गे भर्तारं यानुगच्छति
व्यालग्राही यथा व्यालं बिलादुद्धरते बलात् । तद्वदुद्धृत्य सा नारी तेनैव सह मोदते
तत्र सा भर्तृपरमा स्तूयमानाप्सरोगणैः । क्रीडते पतिना सार्धं यावदिन्द्राश्चतुर्दश
ब्रह्मघ्नो वा कृघ्नो वा मित्त्रिघ्नो वा भवेत्पतिः । पुनात्यविधवा नारी तमादाय मृता तु या
मृते भर्तरि या नारी समारोहेद्धुताशनम् । सारन्धतीसमाचारा स्वर्गलोके महीयते
यावच्चाग्नौ मृते पत्यौ स्त्री नात्मानं प्रदाहयेत् । तावन्न मुच्यते सा हि स्त्रीशरीरात्कथञ्चन
मातृकं पैतृकं चैव यत्र चैव प्रदीयते । कुलत्रयं पुनात्येषा भर्तारं यानुगच्छति
आर्तार्ते मुदिते हृष्टा प्रोषिते मलिना कृशा । मृते म्रियेत या पत्यौ सा स्त्री ज्ञेया पतिव्रता