अर्धं श्मशानवासार्थं भूमावेव विनिः क्षिपेत् । ततः पूर्वोक्तविधिना पिण्डं प्रेतकरे न्यसेत्
आज्येनाभ्यञ्जनं कार्यं सर्वाङ्गेषु शवस्य च । दाहमृत्योरन्तराले विधिः पिण्डस्य तं शृणु
पूर्वोक्तैः पञ्चभिः पिण्डैः शवस्याहुतियोग्यता । अन्यथा चोपघाताच्च राक्षसाद्या भवन्ति हि
संमृज्य चोपलिप्याथ उल्लिख्योद्धृत्य वेदिकाम् । अभ्युक्ष्योपसमाधाय वह्निं तत्र विधानतः
पुष्पाक्षतैश्च संपूज्य देवं क्रव्यादसंज्ञकम् । श्रौतेन तु विधानेन ह्याहिताग्निं दहेद्वुधः
चण्डालाग्निं चिताग्निं च पतिताग्निं परित्यजेत् । त्वं भूतकृज्जगद्योनिस्त्वं लोकपरिपालकः
उपसंहर तस्मात्त्वमेनं स्वर्गं नयामृतम् । इति क्रव्यादमभ्यर्च्य शरीराहुतिमाचरेत्
अर्धदग्धे तथा देहे दद्यादाज्याहुतिं ततः । अस्मात्त्वमधिजातोऽसि त्वदयं जायतां पुनः
असौ स्वर्गाय लोकाय स्वाहेत्युक्त्वा तु नामतः । एवमाज्याहुतिं दत्त्वा तिलमिश्रां समन्त्रकम्
रोदितव्यं ततो गाढमेवं तस्य सुखं भवेत् । दाहस्यानन्तरं तत्र कृत्वा सञ्चयनिक्रियाम्
प्रेतपिण्डं प्रदद्याच्च दाहार्तिशमनं खग । ततः प्रदक्षिणं कृक्त्वा चिताप्रस्थानवीक्षकाः
कनिष्ठपूर्वाः स्नानार्थं गच्छेयुः सूक्तजापकाः । ततो जालसमीपे तु गत्वा प्रक्षाल्य चांशुकम्
परिधाय पुनस्तच्च ब्रृयुस्तं पुरुषं प्रति । उदकं तु करिष्यामः सचैलं पुरुषास्ततः
कुरुध्वमित्येव वदेच्छतवर्षावरे मृते । पुत्राद्या वृद्धपूर्वास्ते एकवस्त्राः शिखां विना
प्राचीनावीतिनः सर्वे विशेयुर्मौनिनो जलम् । अपनः शोशुचदघमनेन पितृदिङ्मुखाः
जलावघट्टनं चव न कुर्युः स्नानकारकाः । ततस्तटे समागत्य शिखां बद्ध्वा ऋजून् कुशान्
दक्षिणाग्रहस्तयोस्तु कृत्वाथ सतिलं जलम् । आदायाञ्जलिना याम्यां दुः खी पैतृकतीर्थतः
एकवारं त्रिवारं वा दशवारमथापि वा । भूमावश्मनि वा सर्वे क्षिपेयुर्वाग्यताः खग
तृप्यन्तु तृप्यतां वापि तर्पयाम्युपतिष्ठताम् । प्रेतैतदमुकगोत्रेत्युक्तेष्वेवं समुच्चरेत्
जलाञ्जलौ कृते पश्चाद्विधेयं दन्तधावनम् । त्यजन्ति गोत्रिणः सर्वे दिनानि नव काश्यप
तत उत्तीर्योदकाद्वै वस्त्राणि परिधाय च । स्नानवस्त्रं सकृत्पीड्य विशेयुः शुचिभूतले
अश्रुपातं न कुर्वीत दत्त्वा दाहजलाञ्जलिम् । श्लेष्माश्रु बान्धवैर्मुक्तं प्रेतो भुङ्क्ते यतोऽवशः
अतो न रोदितव्यं हि क्रियाः कार्याः स्वशक्तितः । ततस्तेषूपविष्टेषु पुराणज्ञः सुकृत्स्वकः
शोकापनोदं कुर्वीत संसारानित्यतां ब्रुवन् । मानुष्ये कदलीस्तन्भे असारे सारमार्गणम्
करोति यः स संमूढो जलबुद्वद्रसन्निभे । पञ्चधा संभृतः कायो यदि पञ्चत्वमागतः
कर्मभिः स्वशरीरोत्थैस्तत्र का परिदेवना । गन्त्री वसुमती नाशमुदधिर्दैवतानि च
फेनप्रख्यः कथं नाशं मर्त्यलोको न यास्यति । एवं संश्रावयेत्तत्र मृदुशाद्वलसंस्थितान्
तेऽयि संश्रुत्य गच्छेयुर्गृहं बालपुरः सराः । विदश्य र्निबपत्राणि नियता द्वारि वेश्मनः
आचम्य वह्निसलिलं गोमयं गौरसर्षपान् । दूर्वाप्रवालं वृषभमन्यदप्यथ मङ्गलम्
प्रविशेयुः समालभ्य कृत्वाश्मनि पदं शनैः । श्रौतेन तु विधानेन आहिताग्निं देहद्वधः