तावतो राजितांल्लोकानाप्नुवन्ति हि पुष्कलान् । चतुर्भिस्तुरगैर्युक्तं सर्वोपकरणैर्युतम्
रथं द्विजातये दत्त्वा राजसूयफलं लभ्त्
दुग्धाधिकां च महिषीं नवमेघवर्णां सन्तुष्टतर्णकवलीं जघनाभिरामाम् । दत्त्वा सुवर्णतिलकां द्विजपुङ्गवाय लोकोदयं स जयतीति किमत्र चित्रम्
तालवृन्तस्य दानेन वायुना वीज्यते पथि । कान्तियुक्सुभगः श्रीमान् भवत्यम्बरदानतः
रसान्नोपस्करयुतं गृहं विप्राय योर्ऽपयेत् । न हीयते तस्य वंशः स्वर्गं प्राप्नोत्यनुत्तमम्
भवत्यत्र खगश्रेष्ठ फलगौखलाघवम् । श्रद्धाश्रद्धाविभेदेन दानगौरवलाघवात्
ततो येनाम्बुदानानि कृतान्यत्र रसास्तथा । तदा खग तथाह्लादमापदि प्रतिपद्यते
अन्नानि येन दत्तानि श्रद्धापूतेन चेतसा । सोऽपि तृप्तिमवाप्नोति विनाप्यन्नेन वै तदा
आसन्ने मरणे कुर्यात्संन्यासं चेद्विधानतः । आवर्तेत पुनर्नासौ ब्रह्मभूयाय कल्पते
आसन्नमरणो मत्यश्चेत्तीर्थं प्रतिनयिते । तीर्थप्राप्तौ भवेन्मुक्तिर्म्रियते यदि मार्गगः । पदेपदे क्रतुसमं भवेत्तस्य न संशयः
गृह्णीयाच्चेदनशनं व्रतं विधिवदागते । मृत्यौ न सोऽपि संसारे भूयः पर्यटति द्विज
किं दानमिति तुर्यस्य प्रश्नस्योत्तरमीरितम् । दाहमृत्योरन्तरे किमितिप्रश्नोत्तरं शृणु
गतप्राणं ततो ज्ञात्वा स्नात्वा पुत्रादिराशु तम् । शवं जलेन शुद्धेन क्षालयेदविचारयन्
परिधाप्याहते वस्त्रे चन्दनैः प्रोक्षयेत्तनुम् । ततो मृतस्य स्थाने वै एकोद्दिष्टं समाचरेत्
प्रयोगपूर्वं दाहस्य योग्यतादिर्यथा भवेत् । आंसनं प्राक्षण च स्यान्न स्यादेतच्चतुष्टयम्
आवाहनार्चन चैव पान्त्रालम्भावगाहने । भवेद्दानान्नसङ्कल्पः पिण्डदानं सदा भवेत्
पदार्थपञ्चकं न स्याद्रेखा प्रत्यवनेजनम् । दद्यादक्षय्यमुदकं न स्यादेतत्त्रयं पुनः
स्वधावाचनमाशीश्च तिलकं च खगोत्तम । घटं दद्यात्समाषान्नं दद्याल्लोहस्य दक्षिणाम्
पिण्डस्य चालनं प्रोक्तं नैव प्रोक्तमिदं त्रिकम् । प्रच्छादनविसर्गौ च स्वस्तिवाचनकं तथा
एषु षट्सु विधिः प्रोक्तः श्राद्धेषु मलिनेषु ते । षडेव मरणस्थाने द्वारि चात्वरिके तथा
विश्रामे काष्ठचयने तथा सञ्चयने खग । मृतिस्थाने शवो नाम भूमिस्तुष्यति देवता
पान्थो द्वारि भवेत्तेन प्रीता स्याद्वास्तुदेवता । चत्वरे खेचरस्तेन तुष्येद्भृतादिदेवता
विश्रामे भूतसंज्ञोऽयं तुष्टस्तेन दिशो दश । चितायां साधक इति सञ्चितौ प्रेत उच्यते
तिलदर्भघृतेधांसि गृहीत्वा तु सुतादयः । गाथां यमस्य सूक्तं वाप्यधीयाना व्रजन्ति हि
अहरहर्नीयमानो गामश्वं पुरुषं वृषम् । वैवस्वतो न तृप्येत सुरया त्विव दुर्मतिः
इमां गाथमपेतेति सूक्तं वा पथि संपठेत् । दक्षिणस्यां दिश्यरण्यं व्रजेयुः सर्वबान्धवाः
पथि श्राद्धद्वयं कुर्यात्पूर्वोक्तविधिना खग । ततः शनैर्भूतले वै दक्षिणाशिरसं शवम्
स्थापयित्वा चिताभूमौ पूर्वोक्तं श्राद्धमाचरेत् । तृणकाष्ठतिलाज्यादि स्वयं निन्युः सुतादयः
शूद्रानीतैः कृतं कर्म सर्वं भवति निष्फलम् । प्राचीनावीतिना भाव्यं दक्षिणाभिमुकेन च
वेदी तत्र प्रकर्तव्या यथाशास्त्रमथाण्डज । प्रतेवस्त्रं द्विधा कृत्वार्धेन तं छादयेत्ततः