उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः । एतत्ते सर्वमाख्यातं निरयस्य प्रपञ्चतः ॥ २,३.
अथयामि क्रमप्राप्तं प्रष्टु वा वर्तते स्पृहा ॥ २,३.
श्रीगरुडमहापुराणम् ४ श्रीकृष्ण उवाच । ज्ञानतोऽज्ञानतो वापियन्नरैः कलुषं कृतम् । तस्य पापस्य शुद्ध्यर्थं विधेया निष्कृतिर्नरैः
भस्मादिस्नानदशकमादौ कुर्याद्विचक्षणः । यथाशक्ति षडब्दादिप्रत्याम्नायाच्चरेदपि
तदर्धं वा तदर्धं वा तदर्धार्धमथापि वा । यथाशक्त्या ततः कुर्याद्दश दानानि वै शृणु
गोभूतिलहिरण्याज्यवासोधन्यगुडास्तथा । रजतं लवणं चैव दानानि दश वै विदुः
प्रायश्चित्ते त्वागता ये तेभ्यो दद्यान्नरो दश । ततो यमद्वारपथे पूयशोणितसंकुले
नदीं वैतरणीं तर्तुं दद्याद्वैतरणीं च गाम् । कृष्णस्तनी सकृष्णाङ्गी सा वै वैतरणी स्मृता
तिला लोहं हिरण्यं च कर्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम्
एतान्यष्टौ महादानान्युत्तमाय द्विजातये । आतुरेण तु देयानि पदरूपाणि मे शृणु
छत्रो पानहवस्त्राणि मुद्रिका च कमण्डलुः । आसनं भाजनं पदं चाष्टविधं स्मृतम्
तिलापात्रं सर्पिः पात्रं शय्या सोपस्करा तथा । एतत्सर्वं प्रदातव्यं यदिष्टं चात्मनोऽपि तत्
अश्वो रथश्च महीषी व्यञ्जनं वस्त्रमेव च । ब्राह्मणेभ्यः प्रदातव्यं ब्रह्मपूर्वमपि स्वयम्
दाना न्यन्यान्यपि खग तर्पयेत्स्वीयशक्तितः । प्रायाश्चित्तं कृतं येन दश दानान्यपि क्षितौ
दानं गोर्वैतरण्याश्च दानान्यष्टौ तथापि वा । तिलपात्रं सर्पिः पात्रं शय्यादानं तथैव च
पददानं च विधिवन्नासौ निरयगर्भगः । स्वातन्त्र्येणापि लवणदानमिच्छन्ति सूरयः
विष्णुदेहसमुत्पन्नो यतोऽयं लवणो रसः । आतुरस्य यदा प्राणा न यान्ति वसुधातले
लवणं च तदा देयं द्वारस्योद्वाटनं दिवः । यानिकानि च दानानि स्वयं दत्तानि मानवैः
तानितानि च सर्वाणि उपतिष्ठन्ति चाग्रतः । प्रायश्चित्तं कृतं येन साङ्गं खग स वै पुमान्
पापानि भस्मसात्कृत्वा स्वर्गलोके महीयते । अमृतं तु गवां क्षीरं यतः पतगसत्तम्
तस्माद्ददाति यो धेनुममृतत्वं स गच्छति । दानान्यष्टौ तु दत्त्वा वै गन्धर्वनिलये वसेत्
आलयस्तत्र रौद्रे हि दह्यते येन मानवः । छत्रदानेन सुच्छाया जायते पथि तुष्टिदा
असिपत्रवनं धारमतिक्रामति वै सुखम् । अश्वारूढश्च व्रजति ददते यद्युपानहौ
भोजनासनदानेन सुखं मार्गे भुनक्ति वै । प्रदेशे निर्जले दाता सुखी स्याद्वै कमण्डलोः
यमदूता महारौद्राः करालाः कृष्णपिङ्गलाः । न पीडयन्ति दाक्षिण्याद्वस्त्राभरणदानतः
तिलपात्रं तु विप्राय दत्तं पत्ररथ ध्रुवम् । नाशयेत्त्रिविधं षापं वाङ्मनः कायसम्भवम्
घृतपात्रप्रदाने रुद्रलोके वसेन्नरः । सर्वोपस्करसंयुक्तां शय्यां दत्त्वा द्विजातये
नानाप्सरोभिराकीर्णं विमानमधिरोहति । षष्टिवर्षसहस्राणि क्रीडित्वा शक्रमन्दिरे
इन्द्रलोकात्परिभ्रष्ट इह लोके नृपो भवेत् । सर्वोपस्करणोपेतं युवानं दोषवर्जितम्
योऽश्वं ददाति विप्राय स्वर्गलोके च तिष्ठति । यावन्ति रोमाणि हये भवन्ति हि खगेश्वर