ततश्चारोहिणीं योनिं शूद्रवैश्यनृपादिकम् । विप्रदेवेन्द्रतां चापि कदाचिदधिरोहति ॥ २,३.
एवं तु पापकर्माणो निरयेषु पतन्त्यधः । यथा पुण्यकृतो यान्ति तन्मे निगदतः शृणु ॥ २,३.
ते यमेन विनिर्दिष्टां योनिं पुण्यगतिं नराः । प्रगीतगन्धर्वगणा नृत्योत्सवसमाकुलाः ॥ २,३.
हारनूपुरमाधुर्यैः शोभितान्यमलानि तु । प्रयान्त्याशु विमानानि दिव्यगन्धस्रगुज्ज्वलाः ॥ २,३.
तस्माच्च प्रच्युता राज्ञामन्येषां च महात्मनाम् । जायन्ते नीरुजां गेहे स द्वृत्तिपीरपालकाः ॥ २,३.
भोगान्सम्प्राप्नुवन्त्युग्रांस्ततो यान्त्यूर्ध्वमन्यथा । अवरोहिणीं सम्प्राप्य पूर्ववद्यन्ति मानवाः ॥ २,३.
जातस्य मृत्युलोके वै प्राणिनो मरणं ध्रुवम् । पापिष्ठानामदोमार्गाज्जीवो निष्क्रमते ध्रुवम् ॥ २,३.
पृथिव्यां लीयते पृथ्वी आपश्चैव तथाप्सु च । तेजस्तेजसि लीयते समीरे च समीरणः ॥ २,३.
आकाशे च तथाकाशं सर्वव्यापि निशाकरे । तत्र कामस्तथा क्रोधः काये पञ्चेन्द्रियाणि च ॥ २,३.
एते तार्क्ष्य समाख्याता देहे तिष्ठन्ति तस्कराः । कामः क्रोधो ह्यहङ्कारो मनस्तत्रैव नायकः ॥ २,३.
संहारश्चैव कालोऽसौ पुण्यपापेन संयुतः । पञ्चेन्द्रियसमायुक्तः सकलैर्विबुधैः सह ॥ २,३.
प्रविशेत्स नवे देहे पृहे दरधे गुही यथा । शरीरे ये समासीनाः सर्वे वै सप्त धातवः ॥ २,३.
षाट्कौशिको ह्ययं कायः सर्वे वाताश्च देहिनाम् । मूत्रं पुरीषं तद्योगाद्ये चान्ये व्याधयस्तथा ॥ २,३.
पित्तं श्लेष्मा तथा मज्जा मांसं वै मेद एव च । अस्थि शुक्रं तथा स्नायुर्देहेन सह दह्यति ॥ २,३.
एष ते कथितस्तार्क्ष्य विनासः सर्वदेहिनम् । कथयामि पुनस्तेषां शरीरं च यथा भवेत् ॥ २,३.
एकस्तम्बंस्नायुबद्धं स्थूणात्रयविभूषणम् । इन्द्रियैश्च समायुक्तं नवद्वारं शरीरकम् ॥ २,३.
विषयैश्च समाक्रान्तं कामक्रोधसमाकुलम् । रागद्वेषसमाकीर्णं तृष्णादुर्गमतस्करम् ॥ २,३.
लोभजालपरिच्छिन्नं मोहवस्त्रेण वेष्टितम् । सुबद्धं मायया चैतल्लोभेनाधिष्ठितं पुरम् ॥ २,३.
एतद्गुणसमाकीर्णं शरीरं सर्वदेहिनाम् । आत्मानं ये न जानन्ति ते नराः पशवः स्मृताः ॥ २,३.
एवमेव समाख्यातं शरीरं ते चतुर्विधम् । चतुरशीतिलक्षाणि निर्मिता योनयः पुरा ॥ २,३.
उद्भिज्जाः स्वेदजाश्चैव अण्डजाश्च जरायुजाः । एतत्ते सर्वमाख्यातं निरयस्य प्रपञ्चतः ॥ २,३.
अथयामि क्रमप्राप्तं प्रष्टु वा वर्तते स्पृहा ॥ २,३.
श्रीगरुडमहापुराणम् ४ श्रीकृष्ण उवाच । ज्ञानतोऽज्ञानतो वापियन्नरैः कलुषं कृतम् । तस्य पापस्य शुद्ध्यर्थं विधेया निष्कृतिर्नरैः
भस्मादिस्नानदशकमादौ कुर्याद्विचक्षणः । यथाशक्ति षडब्दादिप्रत्याम्नायाच्चरेदपि
तदर्धं वा तदर्धं वा तदर्धार्धमथापि वा । यथाशक्त्या ततः कुर्याद्दश दानानि वै शृणु
गोभूतिलहिरण्याज्यवासोधन्यगुडास्तथा । रजतं लवणं चैव दानानि दश वै विदुः
प्रायश्चित्ते त्वागता ये तेभ्यो दद्यान्नरो दश । ततो यमद्वारपथे पूयशोणितसंकुले
नदीं वैतरणीं तर्तुं दद्याद्वैतरणीं च गाम् । कृष्णस्तनी सकृष्णाङ्गी सा वै वैतरणी स्मृता
तिला लोहं हिरण्यं च कर्पासं लवणं तथा । सप्तधान्यं क्षितिर्गाव एकैकं पावनं स्मृतम्
एतान्यष्टौ महादानान्युत्तमाय द्विजातये । आतुरेण तु देयानि पदरूपाणि मे शृणु