भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः । रोघो गोघ्नो भ्रूणहा च अग्निदाता नरः पतेत् ॥ २,३.
सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः । ताले पतेत्क्षत्त्रहन्ता हत्वा वैश्यं च दुर्गतिः ॥ २,३.
ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः । स्वसृगामी तप्तकुम्भी तथा राजभटोऽनृती ॥ २,३.
तप्तलोहैश्च विक्रेता तथा बन्धनरक्षिता । माध्वी विक्रयकर्तां च यस्तु भक्तं परित्यजेत् ॥ २,३.
महाज्वाली दुहितरं स्नुषां गच्छति यस्तु वै । वेदो विक्रीयते यैश्च वेदं दूषयते तु यः ॥ २,३.
गुरुं चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च । अगम्यागामी च नरो नरकं शबलं व्रजेत् ॥ २,३.
विमोहे पतते शूरे मर्यादां यो भिनत्ति वै । दुरिष्टं कुरुते यस्तु कृमिभक्षं प्रपद्यते ॥ २,३.
देवब्राह्मणविद्वेष्टा लालाभक्षे पतत्यपि । कुण्डकर्ता कुलालश्च न्यासहर्ता चिकित्सकः ॥ २,३.
आरामेष्वग्निदाता च एते यान्ति विषञ्जने । असत्प्रतिग्रही यस्तु तथैवायाज्ययाजकः ॥ २,३.
न क्षत्त्रैर्जोवते यस्तु नरो गच्छेदधोमुखम् । क्षीरं सुरां च मासं लाक्षां गन्धं रसं तिलान् ॥ २,३.
एवमादीनि विक्रीणन् घोरे पूयवहे पतेत् । यः कुक्कुटान्निबध्नाति मार्जारान् सूकरांश्च तान् । पक्षिणश्च मृगांश्छा गान्सोऽप्येवं नरकं व्रजेत् ॥ २,३.
आजाविको माहिषिकस्तथा चक्री ध्वजी च यः । रङ्गोपजीविको विप्रः शाकुनिर्ग्रामयाजकः ॥ २,३.
अगारदाही गरदः कुण्डाशी सोमविक्रयी । सुरापो मांसभक्षी च तथा च पशुघातकः ॥ २,३.
रुधिरान्धे पतन्त्येते पतन्त्येते एवमाहुर्मनीषिणः । उपविष्टन्त्वेकपङ्क्त्यां विषं सम्भोजयन्ति ये ॥ २,३.
पतन्ति निरये घोरे विड्भुजे नात्र संशयः । मधुग्राहो वैतरणीमाक्रोशी मूत्रसंज्ञके ॥ २,३.
असिपत्रवनेऽसौची क्रोधनश्च एतेदपि । अग्निज्वालां मृगव्याधो भोज्यते यत्र वायसैः ॥ २,३.
इज्यायां व्रतलोपाच्च सन्दंशे नरके पतेत् । स्कन्दन्ते यदि वा स्वप्ने यतिनो ब्रह्मचारिणः ॥ २,३.
पुत्रैरध्यापिता ये च पुत्रैराज्ञापिताश्च ये । ते सर्वे नरकं यान्ति निरयं चाप्यभोजनम् ॥ २,३.
वर्णाश्रमविरुद्धानि क्रोधहर्षसमन्विताः । कर्माणि ये तु कुर्वन्ति सर्वे निरयवासिनः ॥ २,३.
उपरिष्टात्स्थितो घोर उष्णात्मा रौरवो महान् । सुदारुणः सुशीतात्मा तस्या धस्तामसः स्मृतः ॥ २,३.
एवमादिक्रमेणैव सर्वेऽधोऽधः परिस्थिताः । दुः खोत्कर्षश्च सर्वेषु कर्मस्वपि निमित्ततः ॥ २,३.
सुखोत्कर्षश्च सर्वत्र धर्मस्येहनिमिततः । पश्यन्तिनरकान्देवा ह्यधोवक्त्रान्सुदारुणान् ॥ २,३.
नारकाश्चापि ते देवान्सर्वान्पश्यन्ति ऊर्ध्वगान् । एतान्यान्यानि शतशो नरकाणि वियद्गते ॥ २,३.
दिनेदिने तु नरके पच्यते दह्यतेन्यतः । शीर्यते भिद्यतेऽन्यत्र चूर्यते क्लिद्यतेन्यतः ॥ २,३.
क्वथ्यते दीप्यतेऽन्यत्र तथा वातहतोऽन्यतः । एकं दिनं वर्षशतप्रमाणं नरके भवेत् ॥ २,३.
ततः सर्वेषु निस्तीर्णः पापी तिर्यक्त्वमश्नते । कृमिकीटपतङ्गेषु स्थावरैकशफेषु च ॥ २,३.
गत्वा वनगजाढ्येषु गोष्वषु तथैव च । खरोऽश्वोऽश्वतरो गौरः शरभश्चमरी तथा ॥ २,३.
एते चैकशफाः षट्च शृणु पञ्चनखानतः । अन्यासु बहुपापासु दुः खदासु च यो निषु ॥ २,३.
मानुष्यं प्राप्यते कुब्जो कुत्सितो वामनोऽपि वा । चण्डालपुक्कसाद्यासु नरयोनिषु जायते ॥ २,३.
मुहुर्गर्भे वसन्त्येव म्रियन्ते च मुहुर्मुहुः । अवशिष्टेन पापेन पुण्येन च समन्वितः ॥ २,३.