महावक्त्रा महादंष्ट्रा व्याघ्रा इव महाबलाः । ततश्च वनमालोक्य शिशिरच्छायमग्रतः ॥ २,३.
प्रयान्ति प्राणिनस्तत्र क्षुत्तापपरिपीडिताः । मातर्भ्रातस्तात इति क्रन्दमानाः सुदुः खिताः ॥ २,३.
दह्यमानाङ्घ्रियुगला धरणिस्थेन वह्निना । तेषां गतानां तत्रापि अति शीतिः समीरणः ॥ २,३.
प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि । छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसंचये ॥ २,३.
लेलिह्यमाने चान्यत्र तप्ताशेषमहीतले । सारमेयाश्च ते शीघ्रं शातयन्ति शरीरतः ॥ २,३.
तेषां खण्डान्यनेकानि रुदतामतिभीषणे । असिपत्रवनं तात मयैतत्परिकीर्तितम् ॥ २,३.
अतः परं भीमतरं तप्तकुंभं निबोध मे । समन्ततस्तप्तकुम्भा वह्निज्वालासमन्विताः ॥ २,३.
ज्वलदग्निचयास्तप्ततैलायश्चूर्णपूरिताः । एषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥ २,३.
क्वाथ्यन्ते विस्फुटद्गात्रा गलन्मज्जाजलान्विताः । स्फुटत्कपालेनत्रास्थिच्छिद्यमाना विभीषणैः ॥ २,३.
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः । पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च ॥ २,३.
द्रवीभूतैः शिरोगात्रैः स्नायुमांसत्वगास्थिभिः । ततो याम्यैर्नरैराशु दर्व्याघट्टनघट्टिताः ॥ २,३.
कृतावर्ते महातैले क्वाथ्यन्ते पापकर्मिणः । एष ते विस्तरेणोक्तस्तप्तकुम्भो मया खग ॥ २,३.
आदिमो रौरवः प्रोक्तो महारौरवकोऽपरः । अतिशीतस्तृतीयस्तु चतुर्थो हि निकृन्तनः ॥ २,३.
अप्रतिष्ठः पञ्चमः स्यादसिपत्रवनोऽपरः । सप्तमस्तप्तकुम्भस्तु सप्तैते नरका मताः ॥ २,३.
श्रूयन्तेन्यान्यपि तथा नरकाणि नराधमाः । कर्मणां तारतम्येन तेषुतेषु पतन्ति हि ॥ २,३.
तथा हि नरको रोधः शूकरस्ताल एव च । तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ॥ २,३.
क्रिमिश्च क्रिमभक्षश्च लालाभक्षो विषञ्जनः । अधः शिराः पूयवहो रुधिरान्धश्च विड्रभुजः ॥ २,३.
तथा वैतरणी सू (मू) मसिपत्रवनं तथा । अग्निज्वालो महाघोरः सन्दंशो वाप्यभोजनः ॥ २,३.
तमश्च कालसूत्रं च लोहश्चाप्यभिदस्तथा । अप्रतिष्ठोऽप्यवीचिश्च नरका एवमादयः ॥ २,३.
तामसा नरकाः सर्वे यमस्य विषये स्थिताः । येषु दुष्कृतकर्माणः पतन्ति हि पृथक्पृथक् ॥ २,३.
भूमेरधस्तात्ते सर्वे रौरवाद्याः प्रकीर्तिताः । रोघो गोघ्नो भ्रूणहा च अग्निदाता नरः पतेत् ॥ २,३.
सूकरे ब्रह्महा मज्जेत्सुरापः स्वर्णतस्करः । ताले पतेत्क्षत्त्रहन्ता हत्वा वैश्यं च दुर्गतिः ॥ २,३.
ब्रह्महत्यां च यः कुर्याद्यश्च स्याद्गुरुतल्पगः । स्वसृगामी तप्तकुम्भी तथा राजभटोऽनृती ॥ २,३.
तप्तलोहैश्च विक्रेता तथा बन्धनरक्षिता । माध्वी विक्रयकर्तां च यस्तु भक्तं परित्यजेत् ॥ २,३.
महाज्वाली दुहितरं स्नुषां गच्छति यस्तु वै । वेदो विक्रीयते यैश्च वेदं दूषयते तु यः ॥ २,३.
गुरुं चैवावमन्यन्ते वाक्शरैस्ताडयन्ति च । अगम्यागामी च नरो नरकं शबलं व्रजेत् ॥ २,३.
विमोहे पतते शूरे मर्यादां यो भिनत्ति वै । दुरिष्टं कुरुते यस्तु कृमिभक्षं प्रपद्यते ॥ २,३.
देवब्राह्मणविद्वेष्टा लालाभक्षे पतत्यपि । कुण्डकर्ता कुलालश्च न्यासहर्ता चिकित्सकः ॥ २,३.
आरामेष्वग्निदाता च एते यान्ति विषञ्जने । असत्प्रतिग्रही यस्तु तथैवायाज्ययाजकः ॥ २,३.
न क्षत्त्रैर्जोवते यस्तु नरो गच्छेदधोमुखम् । क्षीरं सुरां च मासं लाक्षां गन्धं रसं तिलान् ॥ २,३.