छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति हि । एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः ॥ २,३.
तावद्यावदशेषं च तत्पापं संक्षयं गतम् । अप्रातष्ठं च नरकं शृणुष्व गदतो मम ॥ २,३.
तत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते । तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥ २,३.
दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् । चक्रेष्वारोपिताः केचिद्भाम्यन्ते तत्र मानवाः ॥ २,३.
यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा । घटीयन्त्रेषु बद्वा ये बद्धा तोयवटी यथा ॥ २,३.
भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः । अन्त्रैर्मुखविनिष्क्रान्तैर्नेत्रैरन्त्रावलम्बिभैः ॥ २,३.
दुः खानि प्राप्नुवन्तीह यान्यसह्यानि जन्तुभिः । असिपत्रवनं नाम नरकं शृणु चापरम् ॥ २,३.
योजनानां सहस्रं यो ज्वलत्यग्न्याशृतावनिः । सप्ततीव्रकराश्चैण्डर्यत्र तीव्र सुदारुणे ॥ २,३.
प्रतपन्ति सदा तत्र प्राणिनो नरकौकसः । तन्मध्ये चरणं शीतस्निग्धपत्रं विभाष्यते ॥ २,३.
पत्राणि यत्र खण्डानि फलानां पक्षिसत्तम । श्वानश्च तत्र सुबलाश्चरन्त्यामिषभोजनाः ॥ २,३.
महावक्त्रा महादंष्ट्रा व्याघ्रा इव महाबलाः । ततश्च वनमालोक्य शिशिरच्छायमग्रतः ॥ २,३.
प्रयान्ति प्राणिनस्तत्र क्षुत्तापपरिपीडिताः । मातर्भ्रातस्तात इति क्रन्दमानाः सुदुः खिताः ॥ २,३.
दह्यमानाङ्घ्रियुगला धरणिस्थेन वह्निना । तेषां गतानां तत्रापि अति शीतिः समीरणः ॥ २,३.
प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि । छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसंचये ॥ २,३.
लेलिह्यमाने चान्यत्र तप्ताशेषमहीतले । सारमेयाश्च ते शीघ्रं शातयन्ति शरीरतः ॥ २,३.
तेषां खण्डान्यनेकानि रुदतामतिभीषणे । असिपत्रवनं तात मयैतत्परिकीर्तितम् ॥ २,३.
अतः परं भीमतरं तप्तकुंभं निबोध मे । समन्ततस्तप्तकुम्भा वह्निज्वालासमन्विताः ॥ २,३.
ज्वलदग्निचयास्तप्ततैलायश्चूर्णपूरिताः । एषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥ २,३.
क्वाथ्यन्ते विस्फुटद्गात्रा गलन्मज्जाजलान्विताः । स्फुटत्कपालेनत्रास्थिच्छिद्यमाना विभीषणैः ॥ २,३.
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः । पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च ॥ २,३.
द्रवीभूतैः शिरोगात्रैः स्नायुमांसत्वगास्थिभिः । ततो याम्यैर्नरैराशु दर्व्याघट्टनघट्टिताः ॥ २,३.
कृतावर्ते महातैले क्वाथ्यन्ते पापकर्मिणः । एष ते विस्तरेणोक्तस्तप्तकुम्भो मया खग ॥ २,३.
आदिमो रौरवः प्रोक्तो महारौरवकोऽपरः । अतिशीतस्तृतीयस्तु चतुर्थो हि निकृन्तनः ॥ २,३.
अप्रतिष्ठः पञ्चमः स्यादसिपत्रवनोऽपरः । सप्तमस्तप्तकुम्भस्तु सप्तैते नरका मताः ॥ २,३.
श्रूयन्तेन्यान्यपि तथा नरकाणि नराधमाः । कर्मणां तारतम्येन तेषुतेषु पतन्ति हि ॥ २,३.
तथा हि नरको रोधः शूकरस्ताल एव च । तप्तकुम्भो महाज्वालः शबलोऽथ विमोहनः ॥ २,३.
क्रिमिश्च क्रिमभक्षश्च लालाभक्षो विषञ्जनः । अधः शिराः पूयवहो रुधिरान्धश्च विड्रभुजः ॥ २,३.
तथा वैतरणी सू (मू) मसिपत्रवनं तथा । अग्निज्वालो महाघोरः सन्दंशो वाप्यभोजनः ॥ २,३.
तमश्च कालसूत्रं च लोहश्चाप्यभिदस्तथा । अप्रतिष्ठोऽप्यवीचिश्च नरका एवमादयः ॥ २,३.
तामसा नरकाः सर्वे यमस्य विषये स्थिताः । येषु दुष्कृतकर्माणः पतन्ति हि पृथक्पृथक् ॥ २,३.