दह्यमानो गतमतिर्भ्रान्तस्तातेति चाकुलः । वदत्यसकृदुद्वग्नो न शान्तिमधिगच्छति ॥ २,३.
एवं तस्मान्नरैर्मोक्षस्त्वतिक्रान्तैरवाप्यते । वर्षायुतायुतैः पापं यैः कृतं दुष्टबुद्धिभिः ॥ २,३.
तथान्यस्तु ततो नाम सोऽतिशीतः स्वभावतः । महारौरववद्दीर्घस्तथान्धतमसा वृतः ॥ २,३.
शीतार्तास्तत्र बध्यन्ते नरास्तमसि दारुणे । परस्परं समासाद्य परिरभ्याश्रयन्ति ते ॥ २,३.
दन्तास्तेषां च भज्यन्ते शीतार्तिपरिकम्पिताः । क्षुतृषातिबलाः पक्षिन्नथ तत्राप्युपदवाः ॥ २,३.
हिमखण्डवहो वायुभिनत्त्यस्थीनि दारुणः । मज्जासृगस्थिगलितमश्रन्त्यत्र क्षुधान्विताः ॥ २,३.
आलिङ्ग्यमाना भ्राम्यन्ते परस्परसमागमे । एवं तत्रापि सुमहान्क्लेशस्तमसि मानवैः ॥ २,३.
प्राप्यते शकुनिश्रेष्ठ यो बहूकृतसञ्चयः । निकृन्तन इति ख्यातस्ततोऽन्यो नरकोत्तमः ॥ २,३.
कुलालचक्राणि तत्र भ्राम्यन्त्यविरतं खग । तेष्वापाष्ये निकृष्यन्ते कालसूत्रेण मानवाः ॥ २,३.
यमानुमाङ्गुलिस्थेन आपादतलमस्तकम् । न चैषां जीवितभ्रंशो जायते पक्षिसत्तम ॥ २,३.
छिन्नानि तेषां शतशः खण्डान्यैक्यं व्रजन्ति हि । एवं वर्षसहस्राणि भ्राम्यन्ते पापकर्मिणः ॥ २,३.
तावद्यावदशेषं च तत्पापं संक्षयं गतम् । अप्रातष्ठं च नरकं शृणुष्व गदतो मम ॥ २,३.
तत्रस्थैर्नारकैर्दुः खमसह्यमनुभूयते । तान्येव तत्र चक्राणि घटीयन्त्राणि चान्यतः ॥ २,३.
दुः खस्य हेतुभूतानि पापकर्मकृतां नृणाम् । चक्रेष्वारोपिताः केचिद्भाम्यन्ते तत्र मानवाः ॥ २,३.
यावद्वर्षसहस्राणि न तेषां स्थितिरन्तरा । घटीयन्त्रेषु बद्वा ये बद्धा तोयवटी यथा ॥ २,३.
भ्राम्यन्ते मानवा रक्तमुद्गिरन्तः पुनः पुनः । अन्त्रैर्मुखविनिष्क्रान्तैर्नेत्रैरन्त्रावलम्बिभैः ॥ २,३.
दुः खानि प्राप्नुवन्तीह यान्यसह्यानि जन्तुभिः । असिपत्रवनं नाम नरकं शृणु चापरम् ॥ २,३.
योजनानां सहस्रं यो ज्वलत्यग्न्याशृतावनिः । सप्ततीव्रकराश्चैण्डर्यत्र तीव्र सुदारुणे ॥ २,३.
प्रतपन्ति सदा तत्र प्राणिनो नरकौकसः । तन्मध्ये चरणं शीतस्निग्धपत्रं विभाष्यते ॥ २,३.
पत्राणि यत्र खण्डानि फलानां पक्षिसत्तम । श्वानश्च तत्र सुबलाश्चरन्त्यामिषभोजनाः ॥ २,३.
महावक्त्रा महादंष्ट्रा व्याघ्रा इव महाबलाः । ततश्च वनमालोक्य शिशिरच्छायमग्रतः ॥ २,३.
प्रयान्ति प्राणिनस्तत्र क्षुत्तापपरिपीडिताः । मातर्भ्रातस्तात इति क्रन्दमानाः सुदुः खिताः ॥ २,३.
दह्यमानाङ्घ्रियुगला धरणिस्थेन वह्निना । तेषां गतानां तत्रापि अति शीतिः समीरणः ॥ २,३.
प्रवाति तेन पात्यन्ते तेषां खड्गास्तथोपरि । छिन्नाः पतन्ति ते भूमौ ज्वलत्पावकसंचये ॥ २,३.
लेलिह्यमाने चान्यत्र तप्ताशेषमहीतले । सारमेयाश्च ते शीघ्रं शातयन्ति शरीरतः ॥ २,३.
तेषां खण्डान्यनेकानि रुदतामतिभीषणे । असिपत्रवनं तात मयैतत्परिकीर्तितम् ॥ २,३.
अतः परं भीमतरं तप्तकुंभं निबोध मे । समन्ततस्तप्तकुम्भा वह्निज्वालासमन्विताः ॥ २,३.
ज्वलदग्निचयास्तप्ततैलायश्चूर्णपूरिताः । एषु दुष्कृतकर्माणो याम्यैः क्षिप्ता ह्यधोमुखाः ॥ २,३.
क्वाथ्यन्ते विस्फुटद्गात्रा गलन्मज्जाजलान्विताः । स्फुटत्कपालेनत्रास्थिच्छिद्यमाना विभीषणैः ॥ २,३.
गृध्रैरुत्पाट्य मुच्यन्ते पुनस्तेष्वेव वेगितैः । पुनश्चिमचिमायन्ते तैलनैक्यं व्रजन्ति च ॥ २,३.