मूत्रकृच्छ्री दूषकस्तु कन्यायाः क्लीबतामियात् । द्वीपी स्याद्वेदविक्रेता वराहोऽयाज्ययाजकः ॥ २,२.
यतस्ततोऽश्रन्मार्जारो खद्योतो वहदाहकः । कृमिः पर्युषितादः स्यान्मत्सरी भ्रमरो भवेत् ॥ २,२.
अग्न्युत्सादी तु कुष्ठी स्याददत्ताऽदानतो वृषः । सर्पो गोहारकोऽन्नस्य हारकः स्यादजीर्णवान् ॥ २,२.
जलहारी तु मत्स्यः स्यात्क्षीरहारी बलाकिका । अन्नं पर्युषितं विप्रे प्रददत्कुब्जतां व्रजेत् ॥ २,२.
फलानि हरते यस्तु सन्ततिर्म्रियते खग । अदत्त्वा भक्ष्यमश्राति ह्यनपत्यो भवेन्नरः ॥ २,२.
प्रवज्यागमनाद्राजन् भवेन्मरुपिशाचकः । चातको जलहर्ता स्याज्जन्मान्धः पुंस्तकं हरन् ॥ २,२.
प्रतिश्रुत्य द्विजेभ्योर्ऽथमददज्जम्बुको भवेत् । परिवादादिजातीनां लभते काच्छपीं तनुम् ॥ २,२.
दुर्भगः फलविक्रेता वृकश्च वृषलीपतिः । मार्जारोऽग्निं पदा स्पृष्ट्वा रोगवान्परमांसभुक् ॥ २,२.
जलप्रस्त्रवणं यस्तु भिन्द्यान्मत्स्यो भवेन्नरः । हरेः कथां न शृण्वन्ति ये न साधुजनस्तवम् ॥ २,२.
तान्नरान्कर्णमूलोऽयं व्याप्नुयान्नेतराञ्जनान् । परस्याननसंस्थं यो ग्रासं हरि मन्दधीः ॥ २,२.
देवोपकरणान्येनं गण्डमालिनमीहते । दम्भेनाचरते धर्मं गजचर्मा भवेत्तु सः ॥ २,२.
शिरोऽर्तिप्रमुखा रोगा यान्ति विश्वासघातकम् । लिङ्गपीडी शिवस्वं च शिवनिर्माल्यमेव च ॥ २,२.
स्त्रियोऽप्यनेन मार्गेण हृत्वा दोषमवाप्नुयुः । एतेषामेव जन्तूनां भार्यात्वमुपजायते ॥ २,२.
भोगान्ते नरकस्यैतत्सर्वमित्यवधारय । खघ प्रदर्श्यमेतत्तु मयोक्तं ते समासतः । द्रव्यप्रकारा हि यथा तथैव प्राणिजातयः ॥ २,२.
एवं विचित्रैर्निजकर्मभिर्नृणां सुखस्य दुः खस्य च जन्मनामपि । वैचित्र्यमुक्तं शुभकर्मतः शुभं तथाशुभाच्चाशुभमीरयन्ति ॥ २,२.
एतत्ते सर्वंमाख्यातं यत्पृष्टोऽहमिह त्वया ॥ २,२.
श्रीगरुडमहापुराणम् ३ सूत उवाच । एवमुत्साहितः पक्षी स्वरूपं निरयस्य तु । पप्रच्छनरकाण्येवं श्रुत्वा चोत्कूलितान्तरः ॥ २,३.
गरुड उवाच । नरकाणां स्वरूपं मे वद येषु विकर्मिणः । पात्यन्ते दुः खभूयिष्ठास्तेषां भेदांश्च कीर्तय ॥ २,३.
श्रीभगवानुवाच । नरकाणां सहस्राणि वर्तन्ते ह्यरुणानुज । शक्यं विस्तरतो नैव वक्तुं प्राधान्यतो ब्रुवे ॥ २,३.
रौरवं नाम नरकं मुख्यं तद्वैनिबोध मे । रौरवे कूटसाक्षी तु याति यश्चानृती नरः ॥ २,३.
योजनानां सहस्रे द्वे रौरवो हि प्रमाणतः । जानुमात्रप्रमाणं तु तत्र गर्तं सुदुस्तरम् ॥ २,३.
तत्राङ्गारचयौघेन कृतं तद्धरणीसमम् । तत्राग्निना सुतीव्रेण तापिताङ्गारभूमिना ॥ २,३.
तन्मध्ये पापकर्माणं विमुञ्चन्ति यमानुगाः । स दह्यमानस्तीव्रेण वह्निना परिधावति ॥ २,३.
पदेपदे च पादोऽस्य स्फुट्यते शीर्यते पुनः । अहोरात्रेणोद्धरणं पादन्यासेन गच्छति ॥ २,३.
एवं सहस्रं विस्तीर्णं योजनानां विमुच्यते । ततोऽन्यत्पापशुद्ध्यर्थं तादृङ्निरयमृच्छति ॥ २,३.
रौरवस्ते समाख्यातः प्रथमो नरको मया । महारौरवसंज्ञं तु शृणुष्व नरकं खग ॥ २,३.
योजनानां सहस्राणि सन्ति पञ्च समन्ततः । तत्र ताम्रमयी भूमिरधस्तस्या हुताशनः ॥ २,३.
तया तपन्त्या सा सर्वा प्रोद्यद्विद्युत्समप्रभा । विभाव्यते महारौद्रा पापिनां दर्शनादिषु ॥ २,३.
तस्यां बद्धकराभ्यां च पद्भ्यां चैव यमानुगैः । मुच्यते पापकृन्मध्ये लुण्ठमानः स गच्छति ॥ २,३.
काकैर्बकैर्वृकोलूकैर्मशकैर्वृश्चिकैस्तथा । भक्ष्यमाणैस्तथा रौद्रैर्गतो मार्गे विकृष्यते ॥ २,३.