पीठाम्बुजे तु ब्राहयादीर्ब्रह्माणी च महेश्वरी 24.
चामुण्डा चण्डिका पूज्या भैरवाख्यांस्ततो यजेत् 24.
कपाली भीषणश्चैव संहारश्चाष्ट भैरवाः 24.
वटुकं दुर्गया विघ्नराजो गुरुश्च क्षेत्रपः 24.
शुक्लां वरदाक्षसूत्रपुस्ताभयसमन्विताम् 24.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे त्रिपुरादिपूजानिरूपणं नम् चतुर्विशोऽध्यायः
ऐं क्रीं श्रीं स्फें क्षौं अनन्तशक्तिपादुकां पूजयामि नमः ।। 25.
ऐं श्रीं फ्रौं क्षौं आधारशक्तिपादुकां पूजयामि नमः 25.
ॐ ह्रीं हुं हाटकेश्वरदेवपादुकां पूजयामि नमः 25.
ॐ ह्रीं श्रीं पूथिवीतत्सवर्णभुवनद्वीपसमुद्रदिशामनन्ताख्यमासनं पद्मासनं पूजयामि नमः ।। 25.
ह्रीं श्रीं निवृत्त्यादि कला पृथिव्यादितत्त्व मनन्तादिभुवनमोङ्कारादिवर्णम् एवं मन्त्रमहेश्वर सिद्धविद्यात्मकः परामृतार्णवः सर्वभूतो दिक्समस्तषडंगः सदाशिवार्णवपयः पूर्णोदधिपक्षश्रीमानास्पदात्मकः विद्योमापूर्णज्ञत्वकर्त्तृत्वलक्षणज्येष्ठाचक्ररुद्रशक्त्यात्मककर्णिकः 25.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे आसनपूजानिरूपणं नाम पंचविंशोऽध्यायः
अनन्तरं करन्यासः पद्ममुद्रां बद्ध्वा मन्त्रन्यासं कुर्य्यात् नौं अनामिकायै नमः तौं तर्जन्यै नमः लां करतलायै नमः 26.
अथ देहन्यासः ऐं ह्रीं श्रीं करास्फालाय नमः 26.
ऐं ह्रीं श्रीं ह्रीं स्फैं नमो भगवते स्फैं कुब्जीकायै नमः स्फौं कुब्जिकायै पूर्ववक्त्राय नमः ॐ ह्रीं श्रीं किलिकिलि पश्चिमवक्त्राय नमः ॐ नमो भगवते हृदयाय नमः क्षौं (क्षें ऐं) कुब्जिकायै शिरसे स्वाहा अघोरामुखि कवचाय हुं किलिकिलि विच्चे अस्त्राय फट् ।। 26.
ऐं ह्रीं श्रीं अखण्डमण्डलाकारमहाशूलमण्डलमाय नमः ऐं ह्रीं श्रीं सोममण्डलाय नमः ऐं ह्रीं श्रीं महाकौलमण्डलाय नमः ऐं ह्रीं श्रीं साममण्डलाय नमः एवं मण्डलानां द्वादशकं क्रमेण पूज्यम् ।। 26.
इति श्रीगारुडे महापुराणे पूर्वखण्डे आचारकाण्डे करन्यासादिनिरूपणं नाम षड्विंशोऽध्यायः
ॐ कणिचिकीणिकक्राणी चर्वाणी भूतहारिणि फणिविषिणि विरथनाराययणि उमे दहदह हस्ते चण्डे रौद्रे माहेश्वरि महामुखि ज्वालामुखि शङ्कुकर्णि शुकमुण्डे शत्रुं हनहन सर्वनाशिनि स्वेदय सर्वांगशोणितं तन्निरीक्षासि मनसा देवि सम्मोहयसम्मोहय रुद्रस्य हृदये जाता रुद्रस्य ह्रृदये स्थिता 27.
इति श्रीगारुडे महापुराणे पूर्वखण्डे प्रथमांशाख्ये आचारकाण्डे नागादिविविधविषहर मन्त्रनिरूपणं नाम सप्तविंशोऽध्यायः
गोपालपूजां वक्ष्यामि भुक्तिमुक्तिप्रदायिनीम् 28.
शङ्खपद्मनिधी चैव सारङ्गः शरभः श्रिया 28.
पश्चिमे बलप्रबलौ जयश्च विजयो यजेत् 28.
क्षेत्रस्याग्न्यादिकोणेषु दिक्षु नारदपूर्वकम् 28.
पूर्वे विष्णुं विष्णुतपो विष्णुशक्तिं समर्चयेत् 28.
अनन्तं पृथिवीं धर्मं ज्ञानं वैराग्यमग्नितः 28.
सत्त्वाय प्रकृतात्मने रजसे मोहरूपिणे 28.
विद्यातत्त्वं परं तत्त्वं सूर्य्येन्दुवह्निमण्डलम् 28.
गोपीजनवल्लभाय स्वाहान्तो मनुरुच्यते 28.
त्रैलोक्यरक्षकं चक्रमसुरारिसुदर्शनम् 28.
रुक्मिणी सत्यभामा च सुनन्दा नाग्नजित्यपि 28.