उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । भक्तानामबुभुक्षाणामधोगतिनिरोधकृत् ॥ २,२.
यैर्नानृतानि चोक्तानि प्रीतिभेदः कृतो न च । आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥ २,२.
यो न कामान्न संरंभान्न द्वेषाद्धर्ममुत्सृजेत् । यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २,२.
मोहज्ञानप्रदातारः प्राप्नुवन्ति महत्तमः । कूटसाक्षी मृषावादी ये च विश्वासघातकाः ॥ २,२.
ते मोहं मृत्युमृच्छन्ति तथा ये वेदनिन्दकाः । विभीषकाः पूतिगन्धा यष्टिमुद्गरपाणयः ॥ २,२.
आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा । प्राप्ते त्वीदृक्पथे घोरे जायते तस्य वेपथुः ॥ २,२.
क्रन्दत्यविरतं सोऽपि पितृमातृसुतानपि । सास्य वागस्फुटा यत्नेनैकवर्णा विभासते ॥ २,२.
दृष्टिर्वै भ्राम्यते त्रासाच्छ्वासाच्छुष्यति चाननम् । स ततो वेदनाविष्टस्तच्छरीरं विमुञ्चति ॥ २,२.
अस्पृश्यं कुत्सनीयं च तत्क्षणादेव जायते । उक्तं मृत्योः स्वरूपं तु प्रसङ्गादन्यदप्यथ ॥ २,२.
वैचित्र्यस्योत्तरं प्रश्रे द्वितीयस्य वदामि ते । कर्मणां प्राक्तनानां तु तदसत्त्वेनं भदेतः ॥ २,२.
भवेद्भोगस्य वैचित्र्यं भ्राम्यतां प्राणिनामिह । देवत्वमसुरत्वं च यक्षत्वादिसुखप्रदम् ॥ २,२.
मानुषत्वं पशुत्वं च पक्षित्वाद्यतिदुः खदम् । कर्मणां तारतम्येन भवतीह खगेश्वर ॥ २,२.
अत्र ते कीर्तयिष्यामि विपाकं कर्मणामहम् । वैचित्र्यस्य स्पुटत्वाययैर्जोवः संसरत्ययम् ॥ २,२.
महापातकजान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनः क्षितौ ॥ २,२.
जायन्ते लक्षणैर्यैस्तुतानि मे शृणु सत्तम । मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥ २,२.
कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मतात्वं च क्रमशो गुरुतल्पगः ॥ २,२.
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २,२.
यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते । संवत्सरेण पतति पतितेन सहाचरन् ॥ २,२.
संलापस्पर्शनिः श्वाससहयानाशनासनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥ २,२.
गत्वा दारान्परेषाञ्च ब्रह्मस्वमपहृत्य च । अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥ २,२.
हीनजातौ प्रजायेत रत्नानामपहारकः । पत्रं च शाखिनो हृत्वा गन्धांश्छुच्छुन्दरी पुमान् ॥ २,२.
मूषको धान्यहारी स्याद्यानमुष्ट्रः फलं कपिः । निर्मन्त्रभोजनात्काको गृध्रो हृत्वा ह्युपस्करम् ॥ २,२.
मधुदंशः फलं गृध्रो गां गोधाग्निं बकस्तथा । स्याच्छ्वेतकुष्ठी स्त्रीवस्त्र ह्यरुची रसहारकः ॥ २,२.
कांस्यहारी तु हंसः स्यात्परस्वस्य च हारकः । अपस्मारी गुरोर्हन्ता क्रूरकृद्वामनो भवेत् ॥ २,२.
धर्मपत्नीं त्यजञ्छब्दवेधी प्राणी भवेत्क्षितौ । देवविप्रस्वापहारी पाण्डुरः परमांसभुक् ॥ २,२.
भक्ष्याभक्ष्यो गण्डमाली महारोगी प्रजायते । न्यासापहारी काणः स्यास्त्रीजीवः खञ्जको भवेत् ॥ २,२.
कौमारदारत्यागी च दुर्भगोऽथै कमिष्टभुक् । वातगुल्मी विप्रयोषिद्गामी वा जम्बुको भवेत् ॥ २,२.
शय्याहर्ता क्षपणकः पतङ्गो वस्त्रहारकः । मात्सर्यादपि जात्यन्धो कपाली दीपहारकः ॥ २,२.
कौशिको मित्रहन्ता च क्षयी पित्रादिनिन्दकः । स्खलद्वागनृतवादी कूटसाक्षी जलोदरी ॥ २,२.
मशकः सोऽथ चछिन्नोष्ठो विवाहे विघ्नकृद्भवेत् । स्याद्वाथ वृषलः सोऽयं चत्वरे वै विण्मूत्रकृत् ॥ २,२.