सात्त्विका राजसाश्चैव तामसा ये च केचन । भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ २,२.
आदित्यश्चन्द्रमाः शम्भुरापो वायुः शतक्रतुः । अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ २,२.
सरितः सागराश्चैव भावाभावौ च सर्पहन् । सर्वे कालेन सृज्यन्ते संक्षिप्यन्ते यथा पुनः ॥ २,२.
कालेन संह्रियन्ते च नृनं मृत्यावुपस्थिते । दैवयोगात्त्दा व्याधिः कश्चिदुत्पद्यते खग ॥ २,२.
वैकल्यमिन्द्रियाणां च बलौ जोरंहसां भवेत् । युगपद्वश्चिककोटिशूकदंशो भवेद्यदि ॥ २,२.
तदानुमीयते तेन पीडा मृत्युभवा खग । ततः क्षणेन चैतन्ये विकले जडतां गते ॥ २,२.
प्रिचाल्यन्ते ततः प्राणा याम्यैर्निकटवर्तिभिः । बीभत्सं तु तदा रूपं प्राणैः कण्ठगतैर्भवेत् ॥ २,२.
फेमुद्गिरते सोऽथ मुखं लालाकुलं भवेत् । अङ्गुष्ठमात्रपुरुषो हाहा कुर्वंस्ततस्तनोः ॥ २,२.
तदैव नीयते द्वतैर्याम्यैर्वोक्षन्स्वकं गृहम् । भूय एव हिते तात मृत्युकालदशामिमाम् ॥ २,२.
अष्मा प्रकुपितः काये तीव्रवायुसमीरितः । भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः ॥ २,२.
उदानो नाम पवनस्ततश्चोर्ध्वं प्रवर्तते । भक्तानामबुभुक्षाणामधोगतिनिरोधकृत् ॥ २,२.
यैर्नानृतानि चोक्तानि प्रीतिभेदः कृतो न च । आस्तिकः श्रद्दधानश्च स सुखं मृत्युमृच्छति ॥ २,२.
यो न कामान्न संरंभान्न द्वेषाद्धर्ममुत्सृजेत् । यथोक्तकारी सौम्यश्च स सुखं मृत्युमृच्छति ॥ २,२.
मोहज्ञानप्रदातारः प्राप्नुवन्ति महत्तमः । कूटसाक्षी मृषावादी ये च विश्वासघातकाः ॥ २,२.
ते मोहं मृत्युमृच्छन्ति तथा ये वेदनिन्दकाः । विभीषकाः पूतिगन्धा यष्टिमुद्गरपाणयः ॥ २,२.
आगच्छन्ति दुरात्मानो यमस्य पुरुषास्तदा । प्राप्ते त्वीदृक्पथे घोरे जायते तस्य वेपथुः ॥ २,२.
क्रन्दत्यविरतं सोऽपि पितृमातृसुतानपि । सास्य वागस्फुटा यत्नेनैकवर्णा विभासते ॥ २,२.
दृष्टिर्वै भ्राम्यते त्रासाच्छ्वासाच्छुष्यति चाननम् । स ततो वेदनाविष्टस्तच्छरीरं विमुञ्चति ॥ २,२.
अस्पृश्यं कुत्सनीयं च तत्क्षणादेव जायते । उक्तं मृत्योः स्वरूपं तु प्रसङ्गादन्यदप्यथ ॥ २,२.
वैचित्र्यस्योत्तरं प्रश्रे द्वितीयस्य वदामि ते । कर्मणां प्राक्तनानां तु तदसत्त्वेनं भदेतः ॥ २,२.
भवेद्भोगस्य वैचित्र्यं भ्राम्यतां प्राणिनामिह । देवत्वमसुरत्वं च यक्षत्वादिसुखप्रदम् ॥ २,२.
मानुषत्वं पशुत्वं च पक्षित्वाद्यतिदुः खदम् । कर्मणां तारतम्येन भवतीह खगेश्वर ॥ २,२.
अत्र ते कीर्तयिष्यामि विपाकं कर्मणामहम् । वैचित्र्यस्य स्पुटत्वाययैर्जोवः संसरत्ययम् ॥ २,२.
महापातकजान्घोरान्नरकान्प्राप्य दारुणान् । कर्मक्षयात्प्रजायन्ते महापातकिनः क्षितौ ॥ २,२.
जायन्ते लक्षणैर्यैस्तुतानि मे शृणु सत्तम । मृगाश्वसूकरोष्ट्राणां ब्रह्महा योनिमृच्छति ॥ २,२.
कृमिकीटपतङ्गत्वं स्वर्णहारी समाप्नुयात् । तृणगुल्मतात्वं च क्रमशो गुरुतल्पगः ॥ २,२.
ब्रह्महा क्षयरोगी स्यात्सुरापः श्यावदन्तकः । हेमहारी तु कुनखी दुश्चर्मा गुरुतल्पगः ॥ २,२.
यो येन संवसत्येषां स तल्लिङ्गोऽभिजायते । संवत्सरेण पतति पतितेन सहाचरन् ॥ २,२.
संलापस्पर्शनिः श्वाससहयानाशनासनात् । याजनाध्यापनाद्यौनात्पापं संक्रमते नृणाम् ॥ २,२.
गत्वा दारान्परेषाञ्च ब्रह्मस्वमपहृत्य च । अरण्ये निर्जने देशे जायते ब्रह्मराक्षसः ॥ २,२.