तिलाः श्वेतास्तिला कृष्णास्तिला गोमूत्रसंन्निभाः । दहन्तु ते मे पापानि शरीरेण कृतानि वै ॥ २,२.
एक एव तिलो दत्तो हेमद्रोणतिलैः समः । तर्पणे दानहोमेषु दत्तो भवति चाक्षयः ॥ २,२.
दर्भा रोमसमुद्भूतास्तिलाः स्वेदेषु नान्यथा । देवता दानवास्तृप्ताः श्राद्धेन पितरस्तथा ॥ २,२.
प्रयोगविधिना ब्रह्मा विश्वं चाप्युपजीवनाम् । अपसव्यादितो ब्रह्मा पितरो देवदेवताः ॥ २,२.
तेन ते पितरस्तृप्ता अपसव्ये कृते सति । दर्भमूले स्थितो ब्रह्मा मध्ये देवो जनार्दनः ॥ २,२.
दर्भाग्रे शङ्करं विद्यात्त्रयो देवाः कुशे स्मृताः । विप्रा मन्त्राः कुशा वह्निस्तुलसी च खगेश्वर ॥ २,२.
नैते निर्माल्यतां यान्ति क्रियमाणाः पुनः पुनः । तुलसी ब्राह्मणा गावो विष्णुरेकादशी खग ॥ २,२.
पञ्च प्रवहणान्ये भवाब्धौ मज्जतां नृणाम् । विष्णुरेकादशी गीता तुलसी विप्रधेनवः ॥ २,२.
असारे दुर्गसंसारे षट्पदी मुक्तिदायिनी । तिलाः पवित्रमतुलं दर्भाश्चापि तुलस्यथ ॥ २,२.
$ निवारयन्ति चैतानि दुर्गतिं यान्तमातुरम् । हस्ताभ्यामुद्धरेद्दर्भांस्तोयेन प्रोक्षयेद्भुवि ॥ २,२.
मृत्युकाले क्षिपेद्दर्भान्करयोरातुरस्य च । दर्भैस्तु क्षिप्यते योऽसौ दर्भैस्तु परिवेष्टितः ॥ २,२.
विष्णुलोके स वै याति मन्त्रहीनोऽपि मानवः । तूलीं कृत्वा कृतौ पादौ संस्थितौ क्षितिपृष्ठतः ॥ २,२.
प्रायाश्चित्तं विशुद्धाग्नौ संसारेऽसारसागरे । गोमयेनोपलिम्पेत्तु दर्भास्तरणसंस्थिते ॥ २,२.
यने दत्तेन दानेन सर्वं पापं व्यपोहति । लवणं तद्रसं दिव्यं सर्वकामप्रदं नृणाम् ॥ २,२.
यस्मादन्नरसाः सर्वे नोत्कटा लवणं विना । पितॄणां च प्रियं भव्यं तस्मात्स्वर्गप्रदं भवेत् ॥ २,२.
विष्णुदेहसमुद्भूतो यतोऽयं लवणो रसः । एतत्सलवणं दानं तेन शंसन्ति योगिनः ॥ २,२.
ब्राह्मणक्षत्त्रियविशां स्त्रीणां शूद्रजनस्य च । आतुरस्य यदा प्राणा न यान्ति वसुधातले ॥ २,२.
लवणं तु तदा देयं द्वारस्योद्वाटनं दिवः । अन्यच्च शृणु पक्षीन्द्र मृत्यो रूपं प्रपञ्चतः ॥ २,२.
यस्य कालेन नो यायाद्वियोगः प्राणदेहयोः । प्राणिनश्च स्वसमये मृत्युरत्यन्तविस्मृतिः ॥ २,२.
यथा वायुर्जलधरान्विकर्षति यतस्ततः । तद्वज्जलदवत्तार्क्ष्य कालस्यैव वशानुगाः ॥ २,२.
सात्त्विका राजसाश्चैव तामसा ये च केचन । भावाः कालात्मकाः सर्वे प्रवर्तन्ते हि जन्तुषु ॥ २,२.
आदित्यश्चन्द्रमाः शम्भुरापो वायुः शतक्रतुः । अग्निः खं पृथिवी मित्र ओषध्यो वसवस्तथा ॥ २,२.
सरितः सागराश्चैव भावाभावौ च सर्पहन् । सर्वे कालेन सृज्यन्ते संक्षिप्यन्ते यथा पुनः ॥ २,२.
कालेन संह्रियन्ते च नृनं मृत्यावुपस्थिते । दैवयोगात्त्दा व्याधिः कश्चिदुत्पद्यते खग ॥ २,२.
वैकल्यमिन्द्रियाणां च बलौ जोरंहसां भवेत् । युगपद्वश्चिककोटिशूकदंशो भवेद्यदि ॥ २,२.
तदानुमीयते तेन पीडा मृत्युभवा खग । ततः क्षणेन चैतन्ये विकले जडतां गते ॥ २,२.
प्रिचाल्यन्ते ततः प्राणा याम्यैर्निकटवर्तिभिः । बीभत्सं तु तदा रूपं प्राणैः कण्ठगतैर्भवेत् ॥ २,२.
फेमुद्गिरते सोऽथ मुखं लालाकुलं भवेत् । अङ्गुष्ठमात्रपुरुषो हाहा कुर्वंस्ततस्तनोः ॥ २,२.
तदैव नीयते द्वतैर्याम्यैर्वोक्षन्स्वकं गृहम् । भूय एव हिते तात मृत्युकालदशामिमाम् ॥ २,२.
अष्मा प्रकुपितः काये तीव्रवायुसमीरितः । भिनत्ति मर्मस्थानानि दीप्यमानो निरिन्धनः ॥ २,२.