भीतोऽहं पापिनस्तस्मात्तन्मे वद जगत्प्रभो । अन्यच्च शृणु विश्वात्मन्मया कौतुकिना रयात् ॥ २,१.
लोकांल्लोकयता लोके जगाहे विश्वमण्डलम् । तत्राजनि जनान्दृष्ट्वा दुः खेष्वेव निमज्जतः ॥ २,१.
स्वान्ते मे दुर्धरा पीडा तत्पीडातो गरीयसी । त्रिदिवे दितिजातेभ्यो भूमौ मृत्युरुगादिभिः ॥ २,१.
इष्टवस्तुवियो गैश्च पाताले मामकं भयम् । एवं न निर्भयं स्थानमन्यदीश भवत्पदात् ॥ २,१.
असत्यं स्वप्नमायावत्कालेन कवलीकृतम् । तत्रापि भारते वर्षे बहुदुः खस्य भागिनः ॥ २,१.
जना दृष्टा मया रागद्वेषमोहादिविप्लुताः । केचिदन्धाः केकराक्षास्खलद्वाचस्तु पङ्गवः ॥ २,१.
खञ्जाः काणाश्च बधिरा मूकाः कुष्ठाश्च लोमशाः । नानारोगपरीताश्च खपुष्पाच्चाभिमानिनः ॥ २,१.
तेषां दोषस्य वैचित्र्यं मृत्योर्गोचरतामपि । दृष्ट्वा प्रसुमनाः प्राप्तः को मृत्युश्चित्रता कथम् ॥ २,१.
मृतिर्यस्य विधानेन मरणादप्यनन्तरम् । विधिनाब्दक्रिया यस्य न स दुर्गतिमाप्नुयात् ॥ २,१.
ऋषिभ्यस्तु मया पूर्वमिति सामान्यतः श्रुतम् । ज्ञानाय तद्द्विशेषस्य पृच्छामीदमिति प्रभो ॥ २,१.
म्रियमाणस्य किं कृत्यं किं दानं वासवानुज । वाहमृत्योरन्तराले को विधिर्दहनस्य च ॥ २,१.
सद्यो विलम्बतो वा किं देहमन्यं प्रपद्यते । संयमन्यां क्रम्यमाणमावर्षं का मृतिक्रिया ॥ २,१.
प्रायश्चित्तं दुर्मतेः किं पञ्चकादिमृतस्य च । प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ॥ २,१.
सर्वमन्तेमया पृष्टं ब्रूहि लोकहिताय वै ॥ २,१.
श्रीगरुडमहापुराणम् २ श्रीकृष्ण उवाच । साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै । शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥ २,२.
सम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् । यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥ २,२.
गुह्यद्गुह्यतरं तच्च नाख्यातं कस्यचित्क्वचित् । भक्तस्त्वं हि महाभाग वैनतेयं ब्रवीमि ते ॥ २,२.
अपुत्रस्य गतिर्नास्तु स्वर्गो नैव च नैव च । येन केनाप्युपायेन कार्यं जन्म सुतस्य हि ॥ २,२.
तारयेन्नरकात्पुत्त्रो यदि मोक्षो न विद्यते । स्कन्धः पुत्रेण कर्तव्यो ह्यग्निदाता च पौत्रकः ॥ २,२.
तिलदर्भैश्च भूम्यां वै कुटी ऋतुमती भवेत् । पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २,२.
यदा पुष्पं प्रनष्टं हि क्व तदा गर्भधारणम् । आदराच्च ततो भूमौ येन गर्भं प्रधार्यते ॥ २,२.
लेप्या तु गोमयैर्भूमिस्तिलान्दर्भान्विनिः क्षिपेत् । तस्यामेवातुरो मुक्तः सर्वं दहति किल्बिषम् ॥ २,२.
दर्भतूली नयेत्स्वर्गमातुरस्य न संशयः । दर्भांस्तत्र क्षिपेद्वाथ तूलीगेन्दुकमध्यतः ॥ २,२.
सर्वत्र वसुधापूता यत्र लेपो न विद्यते । यत्र लेपः स्थितस्तत्र पुनर्लेपेन शुध्यति ॥ २,२.
यातुधानाः पिशाचाश्च राक्षसाः क्रूरकर्मिणः । अलेपं ह्यातुरं मुक्तं विशन्त्येते वियोनयः ॥ २,२.
नित्यहोमस्तथा श्राद्धं पादशौचं द्विजे तथा । मण्डलेन विना भूम्यामातुरो मुच्यते न हि ॥ २,२.
ब्रह्मा विष्णुश्च रुद्रश्च श्रीर्हुताशस्तथैव च । मण्डले चोपतिष्ठन्ति तस्मात्कुर्वीत मण्डलम् ॥ २,२.
अन्यथा म्रियते वालो वृद्धस्तार्क्ष्ययुवाथवा । योन्यन्तरं न गच्छेत्स क्रीडते वायुना सह ॥ २,२.
मिश्रितं लोहितामिश्रं तदेवं जन्म जीयते । तस्यैव वायुभूतस्य न श्राद्धं नोदकक्रिया ॥ २,२.
मम स्वेदसमुद्भूतास्तिलास्तार्क्ष्य पवित्रकाः । असुरा दानवा दैत्या विद्रवन्ति तिलैस्तथा ॥ २,२.