प्राप्ते काले वै म्रियते अनित्या मानवाः प्रभो ॥ २,१.
छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः । कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा । तेजो वदस्व मे नाथ वायुराकाशमेव च ॥ २,१.
कुतः कर्मेन्द्रियाणीह पञ्चबुद्धीन्द्रियाणि च । वायवश्चैव पञ्चैते कथं गच्छन्ति चात्ययम् ॥ २,१.
लोभमोहादयः पञ्च शरीरे चैव तस्कराः । तृष्णा कामो ह्यहङ्कारः कुतो यान्ति जनार्दना ॥ २,१.
पुण्यं वाप्यथवापुण्यं यत्किञ्चित्सुकृतं तथा । नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २,१.
सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा । प्रेतस्य मेलनं केषां किंविधं तत्र कारयेत् ॥ २,१.
मूर्छनात्पननाद्वापि विपत्तिर्यदि जायते । ये दग्धा ये त्वदग्धाश्च पतिता ये नरा भुवि ॥ २,१.
यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् । पापिनो ये दुराचारा ये चान्ये गतबुद्धयः ॥ २,१.
आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः । कपिलायाः पिबेच्छूद्रो यः पठेदिदमक्षरम् ॥ २,१.
धारयेद्ब्रह्मसूत्रं वा का गतिस्तस्य माधव । शूद्रस्य ब्राह्मणी भार्या संगृहीता यदा भवेत् ॥ २,१.
भीतोऽहं पापिनस्तस्मात्तन्मे वद जगत्प्रभो । अन्यच्च शृणु विश्वात्मन्मया कौतुकिना रयात् ॥ २,१.
लोकांल्लोकयता लोके जगाहे विश्वमण्डलम् । तत्राजनि जनान्दृष्ट्वा दुः खेष्वेव निमज्जतः ॥ २,१.
स्वान्ते मे दुर्धरा पीडा तत्पीडातो गरीयसी । त्रिदिवे दितिजातेभ्यो भूमौ मृत्युरुगादिभिः ॥ २,१.
इष्टवस्तुवियो गैश्च पाताले मामकं भयम् । एवं न निर्भयं स्थानमन्यदीश भवत्पदात् ॥ २,१.
असत्यं स्वप्नमायावत्कालेन कवलीकृतम् । तत्रापि भारते वर्षे बहुदुः खस्य भागिनः ॥ २,१.
जना दृष्टा मया रागद्वेषमोहादिविप्लुताः । केचिदन्धाः केकराक्षास्खलद्वाचस्तु पङ्गवः ॥ २,१.
खञ्जाः काणाश्च बधिरा मूकाः कुष्ठाश्च लोमशाः । नानारोगपरीताश्च खपुष्पाच्चाभिमानिनः ॥ २,१.
तेषां दोषस्य वैचित्र्यं मृत्योर्गोचरतामपि । दृष्ट्वा प्रसुमनाः प्राप्तः को मृत्युश्चित्रता कथम् ॥ २,१.
मृतिर्यस्य विधानेन मरणादप्यनन्तरम् । विधिनाब्दक्रिया यस्य न स दुर्गतिमाप्नुयात् ॥ २,१.
ऋषिभ्यस्तु मया पूर्वमिति सामान्यतः श्रुतम् । ज्ञानाय तद्द्विशेषस्य पृच्छामीदमिति प्रभो ॥ २,१.
म्रियमाणस्य किं कृत्यं किं दानं वासवानुज । वाहमृत्योरन्तराले को विधिर्दहनस्य च ॥ २,१.
सद्यो विलम्बतो वा किं देहमन्यं प्रपद्यते । संयमन्यां क्रम्यमाणमावर्षं का मृतिक्रिया ॥ २,१.
प्रायश्चित्तं दुर्मतेः किं पञ्चकादिमृतस्य च । प्रसादं कुरु मे मोहं छेत्तुमर्हस्यशेषतः ॥ २,१.
सर्वमन्तेमया पृष्टं ब्रूहि लोकहिताय वै ॥ २,१.
श्रीगरुडमहापुराणम् २ श्रीकृष्ण उवाच । साधु पृष्टं त्वया भद्र मानुषाणां हिताय वै । शृणुष्वावहितो भूत्वा सर्वमेवौर्ध्वदैहिकम् ॥ २,२.
सम्यग्विभेदरहितं श्रुतिस्मृतिसमुद्धृतम् । यन्न दृष्टं सुरैः सेन्द्रैर्योगिभिर्योगचिन्तकैः ॥ २,२.
गुह्यद्गुह्यतरं तच्च नाख्यातं कस्यचित्क्वचित् । भक्तस्त्वं हि महाभाग वैनतेयं ब्रवीमि ते ॥ २,२.
अपुत्रस्य गतिर्नास्तु स्वर्गो नैव च नैव च । येन केनाप्युपायेन कार्यं जन्म सुतस्य हि ॥ २,२.
तारयेन्नरकात्पुत्त्रो यदि मोक्षो न विद्यते । स्कन्धः पुत्रेण कर्तव्यो ह्यग्निदाता च पौत्रकः ॥ २,२.
तिलदर्भैश्च भूम्यां वै कुटी ऋतुमती भवेत् । पञ्च रत्नानि वक्त्रे तु येन जीवः प्ररोहति ॥ २,२.