गायन्ति देवाः किल गीतकानि धन्यास्तु ये भारतभूमिभागे । स्वर्गापवर्गस्य फलार्जनाय भवन्ति भूयः पुरुषाः सुरत्वात् ॥ २,१.
प्रेतः कौक्षिप्यते कस्मात्पञ्चरत्नं मुखे कथम् । अधस्ताच्चालिता दर्भाः पादौ याम्यां व्यवस्थितौ ॥ २,१.
किमर्थं पुत्रपौत्राश्च तस्य तिष्ठन्ति चाग्रतः । किमर्थं दीयते दानं गोदानमपि केशव ॥ २,१.
बन्धुमित्राण्यमित्राश्च क्षमापयन्ति तत्कथम् । तिलालोहं हिरण्यं च कर्पासं लवणं तथा ॥ २,१.
सप्तधान्यं क्षितिर्गावो दीयन्ते केनहेतुना । कथं हि म्रियते जन्तुर्मृतो वै कुत्र गच्छति ॥ २,१.
अतिवाहशरीरं च कथं हि श्रयते तदा । शवं स्कन्धे वहेत्पुत्रो अग्निदाता च पौत्रकः ॥ २,१.
आज्येनाभ्यञ्जनं कस्मात्कुत एकाहुतिक्रिया । वसुन्धरा किमर्थं च कुतः स्त्रीशब्दकीर्तनम् ॥ २,१.
यमसूक्तं किमर्थं च उदीच्या दिशमाहरेत् । पानीयमेकवस्त्रेण सूर्यबिम्बनिरीक्षणम् ॥ २,१.
यवसर्षपदूर्वास्तु पाषाणे निम्बपत्रकम् । वस्त्रं नरश्च नारी च विदध्यादधरोत्तरम् ॥ २,१.
अन्नाद्यं गृहमागत्य न भोक्तव्यं जनैः सह । नवकांश्चैव पिण्डांश्च किमर्थं ददते सुताः ॥ २,१.
किमर्थं चत्वरे दुग्धं यात्रे पक्वे च मृन्मये । काष्ठत्रयं गणाबद्धं कृत्वा रात्रौ चतुष्पथे ॥ २,१.
निशायां दीयते दीपो यावदब्दं दिनेदिन । दाहोदकं किमर्थं च किमर्थं च जनैः सह ॥ २,१.
भगवन्नाति वाहश्च नव पिण्डाः प्रदापयेत् । कथं देयं पितृभ्यश्च वाहस्यावाहनं कथम् ॥ २,१.
इदञ्चेत्क्रियते देव कस्मात्पिण्डं प्रदापयेत् । किं तत्प्रदीयते तस्य पिण्डदानाद्यनन्तरम् ॥ २,१.
अस्थिसञ्चयनं चैव घटस्फोटं तथैव च । द्वितीयेऽह्नि कुतः स्नानं चतुर्थे साग्निके द्विजे ॥ २,१.
दशमे किं मलस्नानं कार्यं सर्वजनैः सह । कस्मात्तैलोद्वर्तनं च स्कन्धवाहगृहं नयेत् ॥ २,१.
तैलोद्वर्तनकं चापि दधुः स्थूलजलाशये । दशमेऽहनि यत्पिण्डं तद्दद्या दामिषेण तु ॥ २,१.
पिणाञ्चैकादशे कस्माद्वृषोत्सर्गादिपूर्वकम् । भाजनोपानहौ च्छत्रं वासांसि त्वङ्गुलीयकम् ॥ २,१.
त्रयोदशेऽह्नि देयं स्यात्पददानं किमर्थकम् । श्राद्धानि षोडशैतानि अब्दं यावत्कुतो घटः ॥ २,१.
अन्नाद्येनोदकेनैव षष्ट्याधिकशतत्रयम् । दिनेदिने च दातव्यं घटान्नं प्रेततृप्तये ॥ २,१.
प्राप्ते काले वै म्रियते अनित्या मानवाः प्रभो ॥ २,१.
छिद्रं तु नैव पश्यामि कुतो जीवः स निर्गतः । कुतो गच्छन्ति भूतानि पृथिव्यापो मनस्तथा । तेजो वदस्व मे नाथ वायुराकाशमेव च ॥ २,१.
कुतः कर्मेन्द्रियाणीह पञ्चबुद्धीन्द्रियाणि च । वायवश्चैव पञ्चैते कथं गच्छन्ति चात्ययम् ॥ २,१.
लोभमोहादयः पञ्च शरीरे चैव तस्कराः । तृष्णा कामो ह्यहङ्कारः कुतो यान्ति जनार्दना ॥ २,१.
पुण्यं वाप्यथवापुण्यं यत्किञ्चित्सुकृतं तथा । नष्टे देहे कुतो यान्ति दानानि विविधानि च ॥ २,१.
सपिण्डनं किमर्थं च पूर्णे संवत्सरेऽपि वा । प्रेतस्य मेलनं केषां किंविधं तत्र कारयेत् ॥ २,१.
मूर्छनात्पननाद्वापि विपत्तिर्यदि जायते । ये दग्धा ये त्वदग्धाश्च पतिता ये नरा भुवि ॥ २,१.
यानि चान्यानि भूतानि तेषामन्ते भवेच्च किम् । पापिनो ये दुराचारा ये चान्ये गतबुद्धयः ॥ २,१.
आत्मघाती ब्रह्महा च स्तेयी विश्वासघातकः । कपिलायाः पिबेच्छूद्रो यः पठेदिदमक्षरम् ॥ २,१.
धारयेद्ब्रह्मसूत्रं वा का गतिस्तस्य माधव । शूद्रस्य ब्राह्मणी भार्या संगृहीता यदा भवेत् ॥ २,१.