मङ्गलार्थो मङ्गलानि गुणार्थो गुणमाप्नुयात् । काव्यार्थो च कवित्वं च सारार्थो सारमाप्नुयात् ॥ १,२४०.
ज्ञानार्थो लभते ज्ञानं सर्वसंसारमर्दनम् । इदं स्वस्त्ययनं धन्यं गारुडं गरुडेरितम् ॥ १,२४०.
नाकाले मरणं तस्य श्लोकमेकं तु यः पठेत् । श्लोकार्धपठनादस्य दुष्टशत्रुक्षयो ध्रुवम् ॥ १,२४०.
सूताच्छ्रुत्वा शौनकस्तुनौमिषे मुनिभिः क्रतौ । अहं ब्रहेति संध्यायन्मुक्तोभूद्गरुडध्वजात् ॥ १,२४०.
श्रीगरुडमहापुराणम् श्रीगणेशाय नमः । तत्रादिमे द्वितीयांशे प्रेतकाण्डो धर्मकाण्डनामारभ्यते । ओं नमो भगवते वासुदेवाय । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ २,१.म ॥ धर्मन्दृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः । क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति ॥ २,१.
नैमिषेऽनिमिषक्षेत्रे शौनकाद्या मुनीश्वराः । कर्मणामन्तरे सूतं स्वासीनमिदमब्रुवन् ॥ २,१.
सूत जानासि सकलं वस्तु व्यासप्रसादतः । तेन नः सन्दिहानानां सन्देहं छेत्तुमर्हसि ॥ २,१.
यथा तृणजलौकेति न्यायमा श्रित्य कञ्चन । देहिनोऽन्यतनुप्राप्तिं केचित्त्वेवं वदन्ति हि ॥ २,१.
केचित्पुनर्यातनानां यामीनामुपभोगतः । पश्चाद्देहान्तरप्राप्तिं वदन्ति किमु तत्रसत् ॥ २,१.
सूत उवाच । साधु पृष्टं महाभागाः शृणुध्वं भवतां पुनः । सन्देहो नोपपद्येत लोकार्थं किल पृच्छताम् ॥ २,१.
तदहं कृष्णगरुडसंवादद्वारकं द्विजाः । अपाकरिष्ये सन्देहं भवतां भावितात्मनाम् ॥ २,१.
नमः कृष्णाय मुनये य एनं समुपाश्रिताः । अञ्जस्तरन्ति संसारसागरं कुनदीमिव ॥ २,१.
एकदा वैनतेयस्य लोकानां लोकनस्पृहा । बभूव सोऽथ बभ्राम तेषु नाम हरेर्गृणन् ॥ २,१.
स पातालं भुवं स्वर्गं भ्रान्त्वालब्धशमाशयः । लोकदुः खेनातिदुः खी पुनर्वैकुण्ठमागमत् ॥ २,१.
न रजो न तमश्चैव सत्त्वं ताभ्यां च मिश्रितम् । यत्र प्रवर्तते नैव सत्त्वमेव प्रवर्तते ॥ २,१.
न यत्र माया नाशश्च न चै रागादयो मलाः । श्यामावदाताः सुरुचः शतपत्रविलोचनाः ॥ २,१.
सुरासुरार्चिता यत्र गणा विष्णोः सुपेशसः । पिशङ्गवस्त्राभारणा मणियुङ्निष्कभूषिताः ॥ २,१.
चतुर्भुजाः कुण्डलिनो मौलिनो मालिनस्तथा । भ्राजिष्णुभिर्विमानानां पङ्किभिर्ये महात्मनाम् ॥ २,१.
द्योतन्ते द्योतमानानां प्रमदानां च पङ्क्तिभिः । श्रीर्यत्र नानाविभवैर्हरेः पादौ मुदार्चति ॥ २,१.
हरिं गायति दोलास्थं गीयमानालिभिः स्वयम् । ददर्श श्रीहरिं तत्र श्रीपतिं सात्वतां पतिम् ॥ २,१.
जगत्पतिं यज्ञपतिं पार्षदैः परिषेवितम् । सुनन्दनन्दप्रबलार्हणमुख्यैर्निरन्तरम् ॥ २,१.
भृत्यप्रसादसुमुखमायतारुणलोचनम् । किरीटिनं कुण्डलिनं श्रिया वक्षसि लक्षितम् ॥ २,१.
पीतांशुकं चतुर्बाहुं प्रसन्नहसिताननम् । अभ्यर्हणासनासीनं ताभिः शक्तिभिरावृतम् ॥ २,१.
प्रधानपुरुषाभ्यां च महता चाहमा तथा । एकादशोन्द्रियैश्चैव पञ्चभूतैस्तथैव च ॥ २,१.
स्वरूपेरममाणं तमीश्वरं विनतासुतः । तद्दर्शनाह्लादयुतस्वान्तो हृष्यत्तनूरुहः ॥ २,१.
लोचनाभ्यामश्रु मुञ्चन्प्रेममग्नो ननाम ह । नमागतं नतं स्वीय वाहनं विष्णुरब्रवीत् । भूमिः का लङ्घिता पक्षिंस्त्वयेयन्तमनेहसम् ॥ २,१.
गरुड उवाच । तव प्रसादाद्वैकुण्ठ त्रैलोक्यं सचराचरम् ॥ २,१.
मया विलोकितं सर्वं जगत्स्थावरजङ्गमम् । भूर्लोकात्सत्यपर्यन्तं पुरं याम्यं विना प्रभो ॥ २,१.
भूर्लोकः सर्वलोकानां प्रचुरः सर्वजन्तुषु । मानुष्यं सर्वभूतानां भुक्तिमुक्त्यालयं शुभम् ॥ २,१.
अतः सुकृतिनां लोको न भूतो न भविष्यति ॥ २,१.