न खाद्यौ तौ त्वयानीचौ चतुर्भुजौ च पक्षिप? । परस्परकृताच्छापदोषाच्च परिमोचितौ ॥ १,२४०.
निषाददेशस्वादेन देवं ब्रूस्मानिदितम्? । विषादीशस्ततो मुक्तस्तत्रापि ब्राह्मणस्त्वया ॥ १,२४०.
वटारोहिणवृक्षस्य योजनानां शतायुता । शाखा भिन्ना त्वया यत्र वालखिल्याः समास्थिताः ॥ १,२४०.
त्वया यत्नकृता कृत्वानखस्थौ गजकच्छपौ । नभस्पपिनिरालंबे सर्वतः परिवारितौ ॥ १,२४०.
त्वया जिता रणे देवाः सर्वे शक्रपुरोगमाः । आहृतं तत्पुरा सोमं वाह्निं निर्वाप्य काश्यपे ॥ १,२४०.
नागौ दृष्टिविषौ कृत्वा रजसा तु विचक्षुषौ । तीक्ष्णाग्रेण न सा भङ्क्त्वाविक्रवेतौ मनोहतः? ॥ १,२४०.
आहृत्यापि त्वया सोमं नीतमेव न भक्तितः । तेन विष्णोर्ध्वजस्थानं वाहनत्वं गतो ह्यसि ॥ १,२४०.
त्वया निः क्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः । जहार चामृतं पात्रं शीघ्रं वै ब्रह्मसूदन ॥ १,२४०.
यत्र जिह्वाद्विधाभूताः पन्नगानां द्विजोत्तम । विनता मोचिता दास्यात्कद्वा पूर्वजिता रणे ॥ १,२४०.
उच्चैः श्रवाः स किंवर्णः शुक्ल इत्येव भाषते । कृष्णवर्णमहं मन्ये पूर्वदृष्टमुवाच ह ॥ १,२४०.
त्वया वज्रपहारेण पक्षमुक्तं पुरा स्वतः? । दधीचवज्रशक्राणां मातुरर्थाय नान्यथा ॥ १,२४०.
तस्य पक्षस्य देवेन्द्रो यदानीतं हि दृष्टवान् । तदा तव सुपर्णोति नाम स्थानं जगत्त्रये ॥ १,२४०.
ध्यानमात्राद्विनश्येत्तु विषं स्थावरजङ्गमम् । पठेद्वा शृणुयाद्यश्च भुक्तिं मुक्तिमवाप्नुयात् ॥ १,२४०.
सूत उवाच । वसुराजो गारुडं वै श्रुत्वा सर्वमवाप्तवान् । गरुडो भगवान्विष्णुध्यांयन्सर्ववाप्तवान् ॥ १,२४०.
तदुक्तं गारुडं पुण्यं पुराणं यः पठेन्नरः । सर्वकाममवाप्याथ प्राप्नोति परमां गतिम् ॥ १,२४०.
श्लोकपादं पठित्वा च सर्वपापक्षयो भवेत् । यस्येदं वर्तते गेह तस्य सर्वं भवेदिह ॥ १,२४०.
गारुडं यस्य हस्ते तु तस्य हस्तगतो नयः । यः पठेच्छृणुयादेतद्भुक्तिं मुक्तिं समाप्नुयात् ॥ १,२४०.
धर्मार्थकाममोक्षांश्च प्राप्नुयाच्छ्रवणादितः । पुत्रार्थो लभते पुत्रान् कामार्थो काममाप्नुयात् ॥ १,२४०.
विद्यार्थो लभते विद्यां जयार्थो लभते जयम् । ब्रह्महत्यादिना पापी पापशुद्धिमवाप्नुयात् ॥ १,२४०.
वन्ध्यापि लभते पुत्त्रं कन्या विन्दति सत्पतिम् । क्षेमार्थो लभते क्षेमं बोगार्थो बोगमाप्नुयात् ॥ १,२४०.
मङ्गलार्थो मङ्गलानि गुणार्थो गुणमाप्नुयात् । काव्यार्थो च कवित्वं च सारार्थो सारमाप्नुयात् ॥ १,२४०.
ज्ञानार्थो लभते ज्ञानं सर्वसंसारमर्दनम् । इदं स्वस्त्ययनं धन्यं गारुडं गरुडेरितम् ॥ १,२४०.
नाकाले मरणं तस्य श्लोकमेकं तु यः पठेत् । श्लोकार्धपठनादस्य दुष्टशत्रुक्षयो ध्रुवम् ॥ १,२४०.
सूताच्छ्रुत्वा शौनकस्तुनौमिषे मुनिभिः क्रतौ । अहं ब्रहेति संध्यायन्मुक्तोभूद्गरुडध्वजात् ॥ १,२४०.
श्रीगरुडमहापुराणम् श्रीगणेशाय नमः । तत्रादिमे द्वितीयांशे प्रेतकाण्डो धर्मकाण्डनामारभ्यते । ओं नमो भगवते वासुदेवाय । नारायणं नमस्कृत्य नरं चैव नरोत्तमम् । देवीं सरस्वतीं चैव ततो जयमुदीरयेत् ॥ २,१.म ॥ धर्मन्दृढबद्धमूलो वेदस्कन्धः पुराणशाखाढ्यः । क्रतुकुसुमो मोक्षफलो मधुसूदनपादपो जयति ॥ २,१.
नैमिषेऽनिमिषक्षेत्रे शौनकाद्या मुनीश्वराः । कर्मणामन्तरे सूतं स्वासीनमिदमब्रुवन् ॥ २,१.
सूत जानासि सकलं वस्तु व्यासप्रसादतः । तेन नः सन्दिहानानां सन्देहं छेत्तुमर्हसि ॥ २,१.
यथा तृणजलौकेति न्यायमा श्रित्य कञ्चन । देहिनोऽन्यतनुप्राप्तिं केचित्त्वेवं वदन्ति हि ॥ २,१.
केचित्पुनर्यातनानां यामीनामुपभोगतः । पश्चाद्देहान्तरप्राप्तिं वदन्ति किमु तत्रसत् ॥ २,१.
सूत उवाच । साधु पृष्टं महाभागाः शृणुध्वं भवतां पुनः । सन्देहो नोपपद्येत लोकार्थं किल पृच्छताम् ॥ २,१.