संलिखेल्लेखयेद्वापि धारयेत्पुस्तके ननु । धर्मार्थो प्राप्नुयाद्धर्मर्थार्थो चार्थमाप्नुयात् ॥ १,२४०.
कामा नवाप्नुयात्कामी मोक्षार्थो मोक्षमाप्नुयात् । यद्यदिच्छति तत्सर्वं गारुडश्रवणाल्लभेत् ॥ १,२४०.
ब्राह्मणो वेदपारस्य गन्ता स्यान्नात्र संशयः । क्षत्त्रियो क्षत्त्रियस्यापि रक्षिता भवतीह च ॥ १,२४०.
नान्यस्य श्रवणं हि स्यात्पुराणं वेदसंमितम् । वदेद्यदि स मूढात्मा कीर्तिहानिमवाप्नुयात् ॥ १,२४०.
अन्यस्मै च वदेद्विद्वान् ब्राह्मणोन्तरितो य दि । ब्राह्मणान्तरितै सर्वैः श्रोतव्यं गारुडं त्विदम ॥ १,२४०.
यथा विष्णुस्तथा तार्क्ष्यस्तार्क्ष्यस्तोत्राद्धरिः स्तुतः । गारुडं वसुराजश्च श्रुत्वा सर्वमवाप ह ॥ १,२४०.
वरुरुवाच । नमस्यामि महाबाहुं खगेद्र हरिवाहनम् । विष्णोर्ध्वसंस्थानं वित्रासितमहासुरम् ॥ १,२४०.
नमस्ते नागदर्पघ्न विनतानन्दवर्धन । सुपक्षपात निद्दभ दीनदैत्यनिरीक्षित ॥ १,२४०.
परस्परस्य शापेन सुप्रतीकविभावसू । गजकच्छपतां प्राप्तौ भ्रातरौचैव संयुतौ ॥ १,२४०.
यदुच्छ्रितौ योजनानि जस्तद्द्विगुणायतः । कूर्मस्त्रियोजनोत्सोधा शतयोजनवमडलः ॥ १,२४०.
न खाद्यौ तौ त्वयानीचौ चतुर्भुजौ च पक्षिप? । परस्परकृताच्छापदोषाच्च परिमोचितौ ॥ १,२४०.
निषाददेशस्वादेन देवं ब्रूस्मानिदितम्? । विषादीशस्ततो मुक्तस्तत्रापि ब्राह्मणस्त्वया ॥ १,२४०.
वटारोहिणवृक्षस्य योजनानां शतायुता । शाखा भिन्ना त्वया यत्र वालखिल्याः समास्थिताः ॥ १,२४०.
त्वया यत्नकृता कृत्वानखस्थौ गजकच्छपौ । नभस्पपिनिरालंबे सर्वतः परिवारितौ ॥ १,२४०.
त्वया जिता रणे देवाः सर्वे शक्रपुरोगमाः । आहृतं तत्पुरा सोमं वाह्निं निर्वाप्य काश्यपे ॥ १,२४०.
नागौ दृष्टिविषौ कृत्वा रजसा तु विचक्षुषौ । तीक्ष्णाग्रेण न सा भङ्क्त्वाविक्रवेतौ मनोहतः? ॥ १,२४०.
आहृत्यापि त्वया सोमं नीतमेव न भक्तितः । तेन विष्णोर्ध्वजस्थानं वाहनत्वं गतो ह्यसि ॥ १,२४०.
त्वया निः क्षिप्य दर्भेषु सोमं नागाश्च वञ्चिताः । जहार चामृतं पात्रं शीघ्रं वै ब्रह्मसूदन ॥ १,२४०.
यत्र जिह्वाद्विधाभूताः पन्नगानां द्विजोत्तम । विनता मोचिता दास्यात्कद्वा पूर्वजिता रणे ॥ १,२४०.
उच्चैः श्रवाः स किंवर्णः शुक्ल इत्येव भाषते । कृष्णवर्णमहं मन्ये पूर्वदृष्टमुवाच ह ॥ १,२४०.
त्वया वज्रपहारेण पक्षमुक्तं पुरा स्वतः? । दधीचवज्रशक्राणां मातुरर्थाय नान्यथा ॥ १,२४०.
तस्य पक्षस्य देवेन्द्रो यदानीतं हि दृष्टवान् । तदा तव सुपर्णोति नाम स्थानं जगत्त्रये ॥ १,२४०.
ध्यानमात्राद्विनश्येत्तु विषं स्थावरजङ्गमम् । पठेद्वा शृणुयाद्यश्च भुक्तिं मुक्तिमवाप्नुयात् ॥ १,२४०.
सूत उवाच । वसुराजो गारुडं वै श्रुत्वा सर्वमवाप्तवान् । गरुडो भगवान्विष्णुध्यांयन्सर्ववाप्तवान् ॥ १,२४०.
तदुक्तं गारुडं पुण्यं पुराणं यः पठेन्नरः । सर्वकाममवाप्याथ प्राप्नोति परमां गतिम् ॥ १,२४०.
श्लोकपादं पठित्वा च सर्वपापक्षयो भवेत् । यस्येदं वर्तते गेह तस्य सर्वं भवेदिह ॥ १,२४०.
गारुडं यस्य हस्ते तु तस्य हस्तगतो नयः । यः पठेच्छृणुयादेतद्भुक्तिं मुक्तिं समाप्नुयात् ॥ १,२४०.
धर्मार्थकाममोक्षांश्च प्राप्नुयाच्छ्रवणादितः । पुत्रार्थो लभते पुत्रान् कामार्थो काममाप्नुयात् ॥ १,२४०.
विद्यार्थो लभते विद्यां जयार्थो लभते जयम् । ब्रह्महत्यादिना पापी पापशुद्धिमवाप्नुयात् ॥ १,२४०.
वन्ध्यापि लभते पुत्त्रं कन्या विन्दति सत्पतिम् । क्षेमार्थो लभते क्षेमं बोगार्थो बोगमाप्नुयात् ॥ १,२४०.