पञ्चीकृतानि भूतानि ह्यपञ्चीकृतभूततः । पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत ॥ १,२३९.
लोकप्रसिद्धं स्थूलाख्यं शरीरं चरणादिमत् । पञ्चीकृतानि भूतानि तत्कार्यं तत्स्थमेव च ॥ १,२३९.
सर्वं शरीरजातं च प्राणिनां स्थूलमीरितम् । त्रिधाह्रि परमात्मस्थं शरीरं प्रोच्यते बुधैः ॥ १,२३९.
देहद्वयाभिगामी च त्वमथो जीव एकतः । स्वभेदवाक्याद्ब्रह्मैव प्रविष्टं देहयोर्द्वयोः ॥ १,२३९.
जलार्क्ववद्वदरवज्जीवः प्राणादिधारणः । जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स च स्मृतः ॥ १,२३९.
जाग्रत्स्वप्नसुषुप्त्याख्यैर्व्यातिरिक्तश्च निर्गुणः । निर्गातावयवोसंगो नित्यशुद्धस्वभावकः ॥ १,२३९.
परमात्मैव यज्जाग्रत्स्वप्नाद्यैर्यस्त्रिधा मतः । अन्तः करणराशेश्चैवान्तः करणःस्थितः ॥ १,२३९.
जाग्रत्स्वप्नसुषुप्तीश्च पश्यतो विकृतिः सदा । फलक्रियाकारकयोर्जाग्रदादीन्वदाम्यहम् ॥ १,२३९.
इन्द्रियैरथ विज्ञानं जाग्रत्स्थानमुदीरितम् । जाग्रत्संस्कारसंभूतप्रत्ययो विषयार्थिनः ॥ १,२३९.
स्वप्नं सुषुप्तिः करणोपसंघाते धियः (प) स्थित (ति) । ब्रह्मणः कारणावस्थायां स्थितिः कालकात्मना ॥ १,२३९.
क्रमतोक्रमतो जीवो जाग्रदादि स पश्यति । समाध्यारंभकाले तु पूर्वमेवावधारयेत् ॥ १,२३९.
मुमुक्षावथ संजाते अन्तः करणकेवले । विलापयेत्क्षेत्रजातं तत्क्षेत्रं परिशेषयेत् ॥ १,२३९.
पञ्चीकृतेभ्यो भूतेभ्यो भाण्डादि व्यतिरिक्तकम् । यथा मृदो घटो भिन्नो नास्ति तत्कार्यतस्तथा ॥ १,२३९.
पञ्चीकृतानि भूतानि अपञ्चीकृतभूततः । शंसंति व्यतिरेकेण शिष्टाः सूक्ष्मशरीरकम् ॥ १,२३९.
अपञ्चीकृतभूतेभ्यो न लिङ्गं व्यतिरिक्तकम् । पृथ्व्याधारं विना नास्ति विना नास्ति च तेन सा ॥ १,२३९.
तेजश्च वायुना नास्ति वायुः खेन विना न हि । यद्ब्रह्मणा च खं नास्ति शुद्ध ब्रह्म विना च खम् ॥ १,२३९.
शुद्धभावस्तदा जाग्रत्स्वप्नादीनामसंभवः । जीवत्ववर्जितः प्राप्तात्मचैतन्यानुरूपतः ॥ १,२३९.
नित्यं शुद्धं बुद्धमुक्तं सत्यं ब्रह्माद्वितीयकम् । तत्त्वंपदान्तौ शिष्टौ च तत्कारो ब्रह्मवाचकः ॥ १,२३९.
उकारश्च अकारश्च मकारोयमृगद्वयः । ब्रह्माहमस्म्यहं ब्रह्मज्ञानमज्ञानवर्धनम् ॥ १,२३९.
अयमात्मा परं ज्योतिश्चिन्नामानन्दरूपकः । सत्यं ज्ञानमनतं हि त्वमसीति श्रुतीरितम् ॥ १,२३९.
अहं ब्रह्मास्मि निर्लेपमहं ब्रह्मास्मि सर्वगम् । योसावादित्यपुरुषसोसावहमनादिमत् । गीतासारोर्ऽजुनायोक्तो येन ब्रह्मणि वै लयः ॥ १,२३९.
श्रीगरुडमहापुराणम् २४० हरिरुवाच । पुराणं गारुडं रुद्र प्रोक्तं सारं मयातव । ब्रह्मादीनां शृण्वतां च भुक्तिमुक्तिप्रदायकम् ॥ १,२४०.
विद्याकीर्तिप्रभालक्ष्मीजयारोग्यादिकारकम् । यः पठेच्छृणुयाद्रुद्र सर्ववित्स दिवं व्रजेत् ॥ १,२४०.
ब्रह्मोवाच । इति व्यास मया विष्णोः पुराणं मुक्तिदं श्रुतम् । व्यास उवाच । श्रुत्वैतद्गारुडं पुण्यं ब्रह्मास्मानित्युवाच ह ॥ १,२४०.
दक्षनारद मुख्यादिन् ब्रह्म ध्यान्हरिं गतः । मयापि तुभ्यं सूतेन पुराणं कथितं परम् ॥ १,२४०.
यच्छ्रुत्वा सर्ववित्प्राप्तकामो ब्रह्म फलं भवेत् । विष्णुः सारतमंप्राह गरुडं गारुडं ततः ॥ १,२४०.
महासारं धर्मकामधनमोक्षादिदायकम् । सूत उवाच । शौनक प्रवरं प्रोक्तं पुराणं गारुडं तव ॥ १,२४०.
यदब्रवीत्पुरा व्यासः सारं मां गारुडेरितम् । व्यासः श्रुत्वा ब्रह्मणश्च पुराणं गारुडं शुभम् । देवं ध्यायन्वेदमेकं चतुर्धा व्यभजद्धरिः ॥ १,२४०.
अष्टादशपुराणानि तानि मां प्राह वै शुकः । इदं तु गारुडं श्रेष्ठं मया ते शौनकेरितम् ॥ १,२४०.
मुनीनां शृण्वतां मध्ये पृच्छतः सर्ववाचकम् । यः पठेच्छणुयाद्वापि श्रावयेद्वा समाहितः ॥ १,२४०.