अहं कारं तथा बुद्धौ बुद्धिं च प्रकृतावपि । प्रकृतिं पुरुषे स्थाप्य पुरुषं ब्रह्मणि न्यसेत् ॥ १,२३७.
अहं बह्म परं ज्योतिः प्रसंख्याय विमुच्यते । नवद्वारमिदं गेहं तिसृणां?पञ्चसाक्षिकम् ॥ १,२३७.
क्षेत्रज्ञाधिष्ठितं विद्वान्यो वेद स वरः कविः । अश्वमेधसहस्राणि वाजपेयशतानि च । ज्ञानयज्ञस्य सर्वाणि कलां नार्हन्ति षोच्शीम् ॥ १,२३७.
श्रीगरुडमहापुराणम् २३८ श्रीभगवानुवाच । यमश्च नियम.पार्थ आसनं प्राणसंयमः । प्रत्याहारस्तथा ध्यानं धारणार्जुन सप्तमी ॥ १,२३८.
समाधिरिति चाष्टाङ्गो योग उक्तो विमुक्तये । कर्मणा मनसा वाचा सर्वभूतेषु सर्वदा ॥ १,२३८.
हिंसाविरामको धर्मो ह्याहिंसा परमं सुखम् । विधिना या भवेद्धिंसा सा त्वहिंसा प्रकीर्तिता ॥ १,२३८.
सत्यं ब्रूयात्प्रियं ब्रूयान्न ब्रूयात्सत्यमप्रियम् । प्रियं च नानृतं ब्रूयादेष धर्मः सनातनः ॥ १,२३८.
यच्चद्रव्यापहरणं चौर्याद्वाथ बलेन वा । स्तेयं तस्यानाचरणमस्तेयं धर्मसाधनम् ॥ १,२३८.
कर्मणा मनसा वाचा सर्वावस्थासु सर्वदा । सर्वत्र मैथुनत्यागं ब्रह्मचर्यं प्रचक्षते ॥ १,२३८.
द्रव्याणामप्यनादानमापत्स्वपि तथेच्छया । अपरिग्रहमित्याहुस्तं प्रयत्नेन वर्जयेत् ॥ १,२३८.
द्विधा शौचं मृज्जलाभ्यां बाह्य भावादथान्तरात् । यदृच्छालाभतस्तुष्टिः सन्तोषः सुखलक्षणम् ॥ १,२३८.
मनसश्चैन्द्रियाणां च ऐकाग्र्यं परमं तपः । शरीरशोषणं वापि कृच्छ्रचान्द्रायणादिभिः ॥ १,२३८.
वेदान्तशतरुद्रीयप्रणवादिजप बुधाः । सत्त्वशुद्धिकरं पुंसां स्वाध्यायं परिचक्षते ॥ १,२३८.
स्तुतिस्मरणपूजादिवाङ्मनः कायकर्मभिः । अनिश्चला हरौ भक्तिरेतदीश्वरचिन्तनम् । आसनं स्वस्तिकं प्रोक्तं पद्ममर्धासनं तथा ॥ १,२३८.
प्राणः स्वदेहजो वायुरायामस्तन्निरोधनम् । इन्द्रियाणां विचरतां विषयेषु त्वसत्स्विव ॥ १,२३८.
श्रीगरुडमहापुराणम् २३९ श्रीभगवानुवाच । सन्नपि ब्रह्म तस्मात्खं मरुत्खाच्च ततोऽनलः ॥ १,२३९.
अग्नेरापस्ततः पृथ्वी प्रपञ्चाकृतिसूतिका । ततः सप्तदशं लिङ्गं पञ्चकर्मेन्द्रियाणि च ॥ १,२३९.
वाक्पाणिपादं पायुश्चाप्युपस्थमथ धीन्द्रियम् । श्रोत्रं त्वक्चक्षुषी जिह्वा घ्राणं स्यात्पञ्च वायवः ॥ १,२३९.
प्राणोपानः समानश्च व्यानस्तूदान एव च । मनोन्तः करणं धीश्च स्यान्मनः संशयात्मकम् ॥ १,२३९.
बुद्धिर्निश्चयरूपा तु एतत्सूक्ष्मस्वरूपकम् । हिरण्यगर्भमात्मीयसूत्रं तत्कार्यालिङ्गकम् ॥ १,२३९.
पञ्चीकृतानि भूतानि ह्यपञ्चीकृतभूततः । पञ्चीकृतेभ्यो भूतेभ्यो ब्रह्माण्डं समजायत ॥ १,२३९.
लोकप्रसिद्धं स्थूलाख्यं शरीरं चरणादिमत् । पञ्चीकृतानि भूतानि तत्कार्यं तत्स्थमेव च ॥ १,२३९.
सर्वं शरीरजातं च प्राणिनां स्थूलमीरितम् । त्रिधाह्रि परमात्मस्थं शरीरं प्रोच्यते बुधैः ॥ १,२३९.
देहद्वयाभिगामी च त्वमथो जीव एकतः । स्वभेदवाक्याद्ब्रह्मैव प्रविष्टं देहयोर्द्वयोः ॥ १,२३९.
जलार्क्ववद्वदरवज्जीवः प्राणादिधारणः । जाग्रत्स्वप्नसुषुप्तीनां साक्षी जीवः स च स्मृतः ॥ १,२३९.
जाग्रत्स्वप्नसुषुप्त्याख्यैर्व्यातिरिक्तश्च निर्गुणः । निर्गातावयवोसंगो नित्यशुद्धस्वभावकः ॥ १,२३९.
परमात्मैव यज्जाग्रत्स्वप्नाद्यैर्यस्त्रिधा मतः । अन्तः करणराशेश्चैवान्तः करणःस्थितः ॥ १,२३९.
जाग्रत्स्वप्नसुषुप्तीश्च पश्यतो विकृतिः सदा । फलक्रियाकारकयोर्जाग्रदादीन्वदाम्यहम् ॥ १,२३९.
इन्द्रियैरथ विज्ञानं जाग्रत्स्थानमुदीरितम् । जाग्रत्संस्कारसंभूतप्रत्ययो विषयार्थिनः ॥ १,२३९.
स्वप्नं सुषुप्तिः करणोपसंघाते धियः (प) स्थित (ति) । ब्रह्मणः कारणावस्थायां स्थितिः कालकात्मना ॥ १,२३९.