साक्षिभूतः समाश्रित्य को जानाति विचेष्टितम् । सत्य ज्ञानानन्त भिन्नं स्यान्नसत्यं ज्ञानतः पृथक् ॥ १,२३६.
नानन्त्यात्पृथगानन्दं नाप्यमानन्दतः पृथक् । त्वमेव परमं ब्रह्म सत्यज्ञानादिलक्षणम् ॥ १,२३६.
अहं ब्रह्म परं तत्त्वं ज्ञात्वा त्वखिलविद्भवेत् । यथैकमृन्मये ज्ञाते सर्वमेतच्चराचरम् ॥ १,२३६.
यथैकहेममणिना सर्वं हेममयं भवेत् । ज्ञानं तथैवमीशेन ज्ञानिनाप्यखिलं जगत् ॥ १,२३६.
यथान्धकारदोषेण रज्जुः सम्यङ्नदृश्यते । यथा संमोहदोषेण चात्मा सम्यङ्नदृश्यते ॥ १,२३६.
सर्पधारादिभिर्भेदरैन्यथा वस्तुकल्पनम् । व्योमादिना सरूपाद्यैरन्यथात्मा प्रकल्प्यते ॥ १,२३६.
प्रत्यक्षमपि यद्द्रव्यन्दुर्दर्शमिति भाषते । व्योमादिना सरूपाद्यैरन्यथा कल्पितैस्तथा ॥ १,२३६.
तथा हि रज्जुरुरगः शुक्तिः कारजतं यथा । मृगतृष्णापथायाम्भस्तृप्तिं विष्णो तथा जगत् ॥ १,२३६.
हाहिष्णोद्विजा कथि द्भोहमितिदृ । ग्रहनाशात्पुनर्ध्यायन्ब्राह्मण्यं मन्यते यथा ॥ १,२३६.
मायाविष्टस्तथा जीवो देहोहमिति मन्यते । मायानाशात्पुनः स्वीयरूपं ब्रह्मास्मि मन्यते ॥ १,२३६.
ग्रहनाशाद्यथा मान्यजनोक्रूरमवेक्षते । स्वरूपदर्शनाच्चायं माया नाशन्तया विना ॥ १,२३६.
अनादित्वं समं द्वाभ्यां स्वरूपं तद्विलक्षणम् । एकः सत्यं तथा भागी विचारेण परं मृषा ॥ १,२३६.
अजोपि हि सकृत्प्रेत्य संभवाम्यात्ममायया । मायेच्छया द्विधा स स्यात्पतिः पत्नी सुखं जगत् ॥ १,२३६.
अष्टाविंशतिभेदैस्तु त्रैगुण्यं विद्यते पृथक् । चतुरशीतिर्लक्ष्यन्ते नरनार्याकृतीनि च ॥ १,२३६.
एषुविश्वं प्रभवति खण्डजं मायया यथा । आदावन्ते च सन्त्येते नामरूपक्रियादयः ॥ १,२३६.
सत्तावकल्पनं काले न सन्ति परमार्थतः । यथा रथादयः स्वप्ने सन्तो नैव च सत्यतः ॥ १,२३६.
तथा जाग्रदवस्थायां भूतानि न तु सन्निधौ । द्वैरूप्यं मायया याति जाग्रत्स्वप्नपदज्ञ (क्ष) योः ॥ १,२३६.
एवमेतत्परं ब्रह्म स्वप्नजाग्रत्पदद्वये । सुषुप्तमचलं रूपमद्वयं पदमुच्यते ॥ १,२३६.
मायाविचारसिद्धैव विचारेण विलीयते । आपातरहिता सापि कल्पना कालवर्तिनी ॥ १,२३६.
एवं तस्या (दात्या) त्मनादित्यं सिद्धमेकस्य सत्यजा । सतोस्तित्वं वसातित्वादस्तित्वासत्यतां ततः ॥ १,२३६.
ज्ञानं ततोप्यनन्तो नः पूर्णोन्तः शुकमात्मना । न नित्यभावाज्जातोहमकृत्वादमृतोस्म्यहम् । दीपवद्धृदये ज्योतिरहं ब्रह्मास्मि मुक्तये ॥ १,२३६.
श्रीगरुडमहापुराणम् २३७ श्रीबगवानुवाच । गीतासारं प्रवक्ष्यामि अर्जुनायोदितं पुरा । अष्टाङ्गयोगयुक्तात्मा सर्ववेदान्तपारगः ॥ १,२३७.
आत्मलाभः परो नान्य अत्मदेहादिवर्जितः । हीनरूपादिदेहान्तः करणत्वादिलोचनः ॥ १,२३७.
बिज्ञानरहितः प्राणः सुषुप्तौ हि प्रतीयते । नाहमात्मा च दुः खादिसंसारादिसमन्वयात् ॥ १,२३७.
विधूम इव दीप्तार्चिरादीप्त (दित्य) इव दीप्तिमान् । वैद्युतोऽग्निरिवाकाशे हृत्सङ्गे आत्मनात्मनि ॥ १,२३७.
श्रोत्रादीनि न पश्यन्ति स्वंस्वमात्मानमात्मना । सर्वज्ञः सर्वदर्शो च क्षेत्रज्ञस्तानि पश्यन्ति ॥ १,२३७.
यदा प्रकाशते ह्यात्मा पटे दीपो ज्वलन्निव । ज्ञानमुत्पद्यते पुंसां क्षयात्पापस्य कर्मणः ॥ १,२३७.
यथादर्शतलप्रख्ये पश्यत्यात्मानमात्मनि । इन्द्रियाणीन्द्रियार्थांश्च महाभूतानि पञ्चकम् ॥ १,२३७.
मनोबुद्धिरहङ्कारमव्यक्तं पुरुषं तथा । प्रसंख्याय परंव्याप्तो विमुक्तो बन्धवैर्भवेत् ॥ १,२३७.
इन्द्रियग्राममखिलं मनसाभिनिवेश्य च । मनश्चैवाप्यहङ्कारे प्रतिष्ठाप्य च पाण्डव ॥ १,२३७.